Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्रिणा ऐतिहासिकोपलब्धये अनि-मेषकुजूराय वर्धापनानि प्रदत्तानि
रायपुरम्, १६ अक्टूबरमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णु-देवसायः शुक्रवासरे सायंकाले राजधानी-रायपुरनगरे स्थिते मुख्यमन्त्रिणः निवासकार्यालये एशियाईक्रीडायां २०२६ तमे वर्षे कांस्यपदकं विजित्य छत्तीसगढस्य देशस्य च गौरवं वर्धितवतः धावकस्य अनिमेषकुजूरस्य सौजन्यसाक्षात्कारम् अगृह्णात्।
मुख्यमन्त्री सायः कुजूराय तस्य ऐतिहासिकोपलब्धये वर्धापनानि प्रदत्तवान् तथा तस्य उज्ज्वलक्रीडा-भविष्याय शुभकामनाम् अकरोत्।
मुख्यमन्त्री सायः अवदत् यत् जशपुरस्य भूमिपुत्रः अनिमेषकुजूरः स्वप्रतिभया, कठिनपरिश्रमेण, दृढसङ्कल्पेन च अन्तरराष्ट्रीयमञ्चे उत्कृष्टं प्रदर्शनं कृत्वा सम्पूर्णं छत्तीसगढराज्यं गौरवान्वितवान्। एशियाईक्रीडासदृशे प्रतिष्ठिते अन्ता-राष्ट्रियमञ्चे पदकविजयं प्राप्तुम् एव महती उपलब्धिः अस्ति। भारतीयदलस्य राष्ट्रीय-कीर्तिमानस्य सुधारः अस्याम् उपलब्धौ विशेषमहत्त्वं योजयति।
मुख्यमन्त्री कुजूरेण सह एशियाईक्रीडायां तस्य प्रदर्शनस्य, प्रशिक्षणस्य, क्रीडा-जीवनस्य च विषये सौहार्दपूर्णां चर्चाम् अकरोत्।
सः अवदत् यत् अनिमेषस्य उपलब्धिः प्रदेशस्य तेषां सहस्राणां यूनां कृते प्रेरणास्रोतः अस्ति, ये क्रीडाक्षेत्रे स्वभविष्यं निर्मातुम् इच्छन्ति। लघुग्रामात् निर्गत्य अन्ताराष्ट्रियक्रीडामञ्चे देशस्य प्रति-निधित्वं करणं प्रमाणयति यत् प्रतिभायै समुचितावसरः, प्रशिक्षणं प्रोत्साहनं च प्राप्यते चेत् अस्माकं युवानः विश्वस्य कस्मिन्नपि मञ्चे स्वपरिचयं स्थापयितुं शक्नुवन्ति।
मुख्यमन्त्री सायः अवदत् यत् छत्तीसगढे क्रीडाप्रतिभानां किमपि न्यूनत्वं नास्ति। बस्तरात् सरगुजापर्यन्तं जशपुरपर्यन्तं च अस्माकं जनजातीयेषु ग्रामीणक्षेत्रेषु च अनेके प्रतिभाशालिनः क्रीडकाः सन्ति। राज्यसर्वकारस्य प्रयासः अस्ति यत् एतादृशानां प्रतिभानां परिचयः प्रारम्भिकस्तरे एव भवेत् तथा तेभ्यः आधुनिकप्रशिक्षणं, उत्कृष्टक्रीडाधार-भूतसंरचना, राष्ट्रियान्ताराष्ट्रियस्तरीय-प्रतियोगितानुरूपाः सुविधाः च प्रदेयाः।
सः अवदत् यत् राज्यसर्वकारः क्रीडाविकासं युवानां सर्वाङ्गीणविकासेन सह संयोज्य अग्रे गच्छति। प्रदेशे क्रीडाधार-भूतसंरचनायाः विस्तारस्य अतिरिक्तं क्रीडकेभ्यः उत्कृष्टप्रशिक्षणं प्रतियोगितासु च अग्रे गन्तुम् अवसरान् प्रदातुं विशेषं ध्यानं दीयते। अस्माकं सङ्कल्पः अस्ति यत् छत्तीसगढस्य क्रीडकाः राष्ट्रीयस्तरे अन्ताराष्ट्रियस्तरे च अधिकाधिकानि पदकानि विजित्य प्रदेशस्य देशस्य च गौरवं वर्धयेयुः।
मुख्यमन्त्री अवदत् यत् अनिमेषसदृशानां क्रीडकानां सफलता प्रदेशे विकसितायाः नूतनक्रीडासंस्कृतेः अधिकं सुदृढीकरणं करोति। तेषाम् उपलब्धयः नववंशे एतद्विश्वासं जनयन्ति यत् अनुशासनेन, परिश्रमेण, दृढसङ्कल्पेन च बृहत्तममपि लक्ष्यं प्राप्तुं शक्यते।
मुख्यमन्त्रिणा सह साक्षात्कारसमये अनिमेषकुजूरः स्वानुभवान् प्रस्तुतवान्। मुख्यमन्त्री श्रीसायः तस्मै भावि-प्रतियोगितानां कृते शुभकामनाः प्रदाय अवदत् यत् सः एतेनैव समर्पणेन आत्मविश्वासेन च अग्रे गच्छेत् तथा अग्रिमेषु अन्ताराष्ट्रियक्रीडासमायोजनेषु देशाय अधिकानि पदकानि विजेष्यति।
उल्लेखनीयम् अस्ति यत् अनिमेषकुजूरः मूलतः जशपुरजनपदस्य कुनकुरी-आरक्षिक्षेत्रान्तर्गते घुईटांगरग्रामे निवसति। जापानदेशे आयोजितायाम् एशियाई-क्रीडायां २०२६ तमे वर्षे ४×१०० मीटरमितायां मिश्रितधावनरिले-प्रति-योगितायां भारतीयदलस्य सदस्यत्वेन उत्कृष्टं प्रदर्शनं कुर्वन् सः कांस्यपदकं प्राप्तवान्। भारतीयदलेन अस्यां प्रति-योगितायां ४१.०६ सेकण्डमितः समयः अङ्कितः, येन राष्ट्रीयकीर्तिमानस्य अपि सुधारः अभवत्।
अनिमेषस्य एषा उपलब्धिः छत्तीस-गढराज्याय विशेषगौरवस्य अवसरः अस्ति। जशपुरस्य ग्रामीणक्षेत्रात् निर्गत्य अन्ता-राष्ट्रियस्तरे पदकविजयपर्यन्तं तस्य यात्रा प्रदेशस्य युवक्रीडकानां कृते प्रेरणादायिनी अस्ति।
अस्मिन् अवसरे अनिमेषकुजूरस्य पिता अमृतकुजूरः, माता रीनाकुजूरः, एथले-टिक्ससङ्घस्य पदाधिकारिणः तथा क्रीडाविभागस्य अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan