मुख्यमन्त्रिणा डॉ. हिमन्तविश्वसरमणा बेङ्गलूरुनगरे नवनिर्मितस्य असमभवनस्य उद्घाटनं कृतम्
गुवाहाटी, १६ अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-विश्वसरमा अद्य बेङ्गलूरुनगरे नव-निर्मितस्य असमभवनस्य उद्घाटनम् अकरोत्। ज्ञातव्यं यत् चतुस्तलीयम् इदं भवनं १६,२४९ वर्गमीटरमिते भूखण्डे निर्मितम् अस्ति। अस्मिन् अतिथीनां निवासाय,
असम: बेंगलुरु में नए बने असम भवन के उद्घाटन समारोह में उपस्थित मुख्यमंत्री डॉ. सरमा


असम: बेंगलुरु में नए बने असम भवन के उद्घाटन समारोह में उपस्थित मुख्यमंत्री डॉ. सरमा


गुवाहाटी, १६ अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-विश्वसरमा अद्य बेङ्गलूरुनगरे नव-निर्मितस्य असमभवनस्य उद्घाटनम् अकरोत्।

ज्ञातव्यं यत् चतुस्तलीयम् इदं भवनं १६,२४९ वर्गमीटरमिते भूखण्डे निर्मितम् अस्ति। अस्मिन् अतिथीनां निवासाय, प्रशासनिककार्याणां सम्पादनाय, सभानां आयोजनाय अन्येषां च विविधकार्याणां कृते अनेकाः सुविधाः सन्ति। अस्य सम्पूर्णस्य परियोजनाकार्यस्य निष्पादनं प्रायः ७१.२४ कोटिरूप्यकाणां व्ययेन अभवत्।

अस्मिन् भवने विशिष्टातिथीनां कृते सप्त विशिष्टकक्षाः, २६ लघुविशिष्टकक्षाः, ३६ कक्षाः च सन्ति। प्रत्येकस्मिन् कक्षे द्वौ जनौ निवसितुं शक्नुतः। विद्यार्थिनां अन्येषां च अतिथीनां कृते २६ शय्यायुक्ता छात्रावासव्यवस्था अपि निर्मिता अस्ति। राज्यसर्वकारस्य अधिकारिणां निवासाय एकः एकशयनकक्षयुक्तः, एकः द्विशयन-कक्षयुक्तः, एकश्च त्रिशयनकक्षयुक्तः आवासः अपि व्यवस्थापितः अस्ति।

अस्मिन् भवने पञ्च सम्मेलनकक्षाः सन्ति, यत्र आधिकारिकसभाः, चर्चाः, कार्यशालाः अन्ये च कार्यक्रमाः आयोजयितुं शक्यन्ते। अतिथीनां कृते विशालभोजनकक्षस्य अतिरिक्तम् अत्र भोजनालयः अपि अस्ति। अन्यासु सुविधासु भोजसमारोहभवनम्, प्रदर्शनव्यवस्था, पुस्तकालयः, व्यायाम-अभ्यासाय कक्षः, अन्तःक्रीडानां च सुविधाः अन्तर्भवन्ति।

उद्घाटनसमारोहे भाषमाणः मुख्यमन्त्री डॉ. शर्म अवदत् यत् अनेकाभिः चुनौतीभिः परिपूर्णस्य दीर्घस्य प्रयत्नस्य अनन्तरं बेङ्गलूरुनगरे असमभवनस्य निर्माणं साकारं जातम्। तेन उक्तं यत् इदं भवनं न केवलम् असम-कर्नाटकयोः जनानां मध्ये सहयोगस्य प्रतीकम् अस्ति, अपितु असमराज्यस्य जनान् प्रति राज्यसर्वकारस्य प्रतिबद्धताम् अपि प्रकटयति।

मुख्यमन्त्रिणा असमसर्वकारस्य सामान्य-प्रशासनविभागस्य, लोकनिर्माणविभागस्य तथा निर्माणकार्ये संलग्नानां सर्वेषां जनानां परियोजनां पूर्णतां नयितुं कृतप्रयत्नानां कृते धन्यवादः ज्ञापितः। निर्माणप्रक्रियायाः सम्पूर्णकाले सहयोगं प्रदत्तवते कर्नाटकराज्यसर्वकाराय तथा स्थानीयविधायकाय एस.टी. सोमशेखराय अपि तेन विशेषरूपेण कृतज्ञता ज्ञापिता।

मुख्यमन्त्री अवदत् यत् असमभवनं केवलं सर्वकारीयातिथिगृहात् बहु अधिकम् अस्ति। बेङ्गलूरुनगरम् आगच्छतां असमराज्यस्य विद्यार्थिनां, रोगिणां, सर्वकारीयाधिकारिणां, कर्मचारिणां च कृते एतत् महत्त्वपूर्णं मिलनस्थलं तथा स्वगृहात् दूरे स्थितानां जनानां कृते गृहतुल्यं स्थानं भविष्यति।

परियोजनायाः इतिहासं वर्णयन् डॉ. शर्मा अवदत् यत् सर्वकारेण २००८ तमे वर्षे भीमनकुप्पे-क्रॉस-क्षेत्रे असमभवनस्य निर्माणाय पञ्च एकरमिता भूमिः अधिगृहीता आसीत्। किन्तु सा भूमिः कृषिभूमिरूपेण वर्गीकृता आसीत्, अतः २०१६ तमे वर्षे निर्माणपरियोजना पूर्णतया निरस्ता अभवत्। ततः २०१८ तमे वर्षे, यदा सः असमराज्यस्य लोकनिर्माणमन्त्री आसीत्, तदा कर्नाटकराज्यसर्वकारेण सह वार्तालापस्य माध्यमेन भूमेः वर्गीकरणं परिवर्तयितुम् आवश्यकाः अनुमतयः प्राप्ताः। फलतः २०२२ तमस्य वर्षस्य मईमासे निर्माणकार्यं पुनः प्रारब्धम्, केवलं त्रिभिः वर्षैः भवनस्य निर्माणं पूर्णम् अभवत्।

मुख्यमन्त्री अवदत् यत् देशस्य विभिन्नेषु भागेषु निवसतां असमराज्यस्य जनानां कृते सुविधाजनकनिवासव्यवस्थां प्रदातुं राज्यसर्वकारेण देशस्य प्रमुखेषु स्थानेषु असमभवनानां निर्माणस्य उपक्रमः आरब्धः। सम्प्रति नवदिल्ली-मुम्बई-कोलकाता-शिलाङ्-चेन्नई-वेल्लूरुनगरेषु असमभवनानि सन्ति।

तेन घोषितं यत् अन्ये द्वे असमभवने—एकं दिल्लीस्थे द्वारकाक्षेत्रे, अपरं सरदार-पटेलमार्गे पुनर्निर्मिते केन्द्रे—नवम्बरमासे डिसेम्बरमासे च उद्घाटयिष्येते। दिल्लीस्थे सेक्टर-१७-क्षेत्रे अन्यस्य भवनस्य निर्माणाय अपि भूमिः प्राप्ता अस्ति।

अपि च, मुम्बईनगरे कर्करोगपीडितानां कृते वर्तमाननिवासव्यवस्थायाः स्थाने नूतनभवनस्य निर्माणकार्यं प्रचलति। मुम्बईपत्तने अन्यस्य भवनस्य तथा कोलकातानगरे रसेलमार्गे नूतनभवनस्य निर्माणकार्यम् अपि प्रगतिपथे अस्ति।

मुख्यमन्त्री सूचितवान् यत् गुजरात-राज्यस्य अहमदाबादनगरे, बिहारराज्यस्य गयायाम्, महाराष्ट्रराज्यस्य पुणेनगरे च नूतनानाम् असमभवनानां निर्माणाय भूमिप्राप्त्यर्थं सम्बन्धितराज्य-सर्वकारेभ्यः पत्राणि प्रेषितानि सन्ति। कर्नाटक-राज्यसर्वकारात् सांस्कृतिक-समेकित-परियोजनायाः निर्माणार्थम् अन्यस्य भूखण्डस्य प्रदानाय अपि अनुरोधः कृतः अस्ति।

तथैव षोडश राज्यैः गुवाहाटीनगरे स्वकीयानां राज्यभवनानां निर्माणाय प्रस्तावाः प्रस्तुताः सन्ति। असमसर्वकारेण एतेषां परियोजनानां कृते भूमिप्रदानस्य प्रक्रिया पूर्वमेव प्रारब्धा अस्ति।

डॉ. शर्म असमराज्ये तीव्रगत्या जायमानस्य औद्योगिकविकासस्य विषये अपि प्रकाशं कृतवान्। तेन उक्तं यत् सम्प्रति असमे औद्योगिकीकरणाय निवेशाय च अनुकूलं वातावरणं निर्मितम् अस्ति। प्रायः पञ्चलक्षकोटिरूप्यकाणां औद्योगिक-निवेशसम्बद्धाः अनुबन्धाः पूर्वमेव हस्ताक्षरिताः सन्ति, यदा तु चतुर्लक्षकोटि-रूप्यकाणां परियोजनानां कार्याणि प्रारब्धानि सन्ति।

जागीरोडस्थस्य अर्धचालकपरियोजनायाः अतिरिक्तं सर्वकारः ‘इण्डिया सेमीकण्डक्टर मिशन-२’ इत्यस्य अन्तर्गतं अन्याः परियोजनाः अपि प्रारब्धुं प्रयतते इति तेन उक्तम्। मुख्यमन्त्रिणा सूचितं यत् नामरूपस्थितः उर्वरकनिर्माणसंयन्त्रं, चापरस्थः तापविद्युत्संयन्त्रं, पम्प-भण्डारणविद्युत्परियोजना, गुवाहाटी-विमानस्थानकस्य समीपे उपनगरम्, विमानानां अनुरक्षण-मरम्मत-पुनर्सज्जा-सुविधाः तथा विमानचालन-प्रशिक्षण-विद्यालयः इत्यादयः परियोजनाः रोजगारस्य महत्त्वपूर्णान् अवसरान् जनयिष्यन्ति।

डॉ. शर्म अवदत् यत् टाटा-अर्धचालक-उद्योगेन उन्नतप्रौद्योगिक्यां निपुणाः अनेकाः उच्चशिक्षिताः असमीय-युवकाः प्रेरिताः सन्ति। ते भारतस्य विभिन्नभागेभ्यः विदेशेभ्यश्च स्वगृहं प्रत्यागतवन्तः। तेन पूर्णविश्वासः व्यक्तः यत् अग्रिमेषु दशवर्षेषु दत्तांशकेन्द्राणां, रक्षासामग्रीनिर्माण-संयन्त्राणां, उन्नतप्रौद्योगिकीसम्बद्धानां च कम्पनीनां स्थापनया राज्यस्य जनानां बहिः गमनस्य प्रवृत्तिः पूर्णतया निरुद्धा भविष्यति तथा ते पुनः असमराज्यं प्रत्यागन्तुं प्रोत्साहिताः भविष्यन्ति।

भारतीयरिजर्वबैंक इत्यनेन असमराज्यं तीव्रगत्या विकासमानायाः अर्थव्यवस्थायाः रूपेण स्वीकृतमिति उल्लेखयन् मुख्यमन्त्री राज्यात् बहिः निवसतः असमीयजनान् असमस्य ‘राजदूतान्’ भूत्वा कार्यं कर्तुम् आहूतवान्। तेन तेभ्यः आह्वानं कृतं यत् ते राज्यस्य बहिः असमस्य अभूतपूर्वप्रगतिं निवेशसम्भावनाश्च प्रचारयेयुः, येन अधिकाधिकाः उद्योगपतयः निवेशकाश्च असमराज्यं प्रति आकर्षिताः भवेयुः।

मुख्यमन्त्री आशां व्यक्तवान् यत् नवनिर्मितम् असमभवनं कर्नाटकराज्ये निवसताम् असमीयसमुदायस्य असम-सर्वकारस्य च मध्ये दृढं स्थायि च सम्बन्धं स्थापयिष्यति। तेन उक्तं यत् बेङ्गलूरुनगरे निवसन्तः असमीयजनाः अस्मिन् भवने सांस्कृतिकान् अन्यान् सामुदायिककार्यक्रमान् च आयोजयितुं शक्नुवन्ति। अत्र असमीयव्यञ्जनानां भोजनालयः अपि भविष्यति।

अस्मिन् अवसरे सामान्यप्रशासन-विभागस्य मन्त्री केशवमहन्तः, कर्नाटक-राज्यस्य यशवन्तपुरविधानसभाक्षेत्रस्य विधायकः एस.टी. सोमशेखरः, सामान्य-प्रशासनविभागस्य सचिवः नरसिंहपवारः, लोकनिर्माणविभागस्य विशेषायुक्तः विशेषसचिवश्च राजचक्रवर्ती तथा अन्ये बहवः गणमान्यजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan