भारतीयदर्शनस्य संस्कृतेश्च प्रसारः सैन्यशक्त्या न, अपितु शान्तिपूर्णैः सांस्कृतिकसम्बन्धैः अभवत् : डॉ. विनय सहस्रबुद्धे
नव दिल्ली, 16 अक्टूबरमासः (हि.स.)।भारतीयसांस्कृतिकसम्बन्धपरिषदः (आईसीसीआर) पूर्वाध्यक्षः डॉ. विनय सहस्रबुद्धे शुक्रवासरे अवदत् यत् विश्वस्य विभिन्नेषु देशेषु भारतीयदर्शनस्य संस्कृतेश्च प्रसारः सैन्यशक्त्या अथवा विस्तारवादेन न, अपितु स्वाभाविकैः शान
संस्कृति मंत्रालय के सचिव विवेक अग्रवाल के साथ अन्य लोग मौजूद


नव दिल्ली, 16 अक्टूबरमासः (हि.स.)।भारतीयसांस्कृतिकसम्बन्धपरिषदः (आईसीसीआर) पूर्वाध्यक्षः डॉ. विनय सहस्रबुद्धे शुक्रवासरे अवदत् यत् विश्वस्य विभिन्नेषु देशेषु भारतीयदर्शनस्य संस्कृतेश्च प्रसारः सैन्यशक्त्या अथवा विस्तारवादेन न, अपितु स्वाभाविकैः शान्तिपूर्णैः सांस्कृतिकसम्बन्धैः अभवत्। डॉ. सहस्रबुद्धे अद्य देहलीस्थे विज्ञानभवने भारतस्य सभ्यतागतायाः धरोहरायाः विश्वेन सह सांस्कृतिकसम्बन्धानां च विषये केन्द्रितस्य त्रिदिवसीयस्य अन्तरराष्ट्रीयसम्मेलनस्य ‘विश्वभरि भारतस्य सांस्कृतिकसम्बन्धाः’ इत्यस्य समापनसमारोहे एतद् उक्तवान्। इन्दिरागान्धीराष्ट्रीयकलाकेन्द्रेण (आईजीएनसीए) आयोजिते अस्मिन् सम्मेलने ५० देशेभ्यः विद्वांसः विशेषज्ञाश्च भागं गृहीतवन्तः।

डॉ. सहस्रबुद्धे भारतीयदर्शनस्य पञ्च स्तम्भान् आध्यात्मिकलोकतन्त्रम्, विविधतायाम् एकता, प्रकृतेः प्रति कृतज्ञता, न्यासिता तथा ‘वसुधैव कुटुम्बकम्’ इत्येतान् उल्लिखितवान्। सः अवदत्, “भारतं सदैव प्रकृतेः उपरि विजयप्राप्तेः स्थाने तया सह समन्वयं स्थापयितुं विश्वसिति।” सः भारतीयधरोहरायाः वैश्विकदृश्यतां वर्धयितुं समीपस्थानां देशानां च सह संवादं सुदृढं कर्तुं बलं दत्तवान्।

नीतिआयोगस्य पूर्वमुख्यकार्यपालनाधिकारी अमिताभकान्तः अवदत् यत् वणिजः, भिक्षवः, विद्वांसः कलाकाराश्च शताब्देभ्यः भारतस्य सांस्कृतिकविनिमयस्य जीवन्तं जालं निर्मितवन्तः। सः साञ्ची, बोधगया, नालन्दा तथा अङ्कोरवाट् इत्येतेषाम् उदाहरणानि दत्त्वा सांस्कृतिककूटनीतेः महत्त्वं व्याख्यातवान्। तेन भौगोलिकसङ्केत (जीआई) उपाधेः, अङ्कीयविक्रयस्य, विपणनस्य च माध्यमेन शिल्पिभ्यः तेषां कार्यस्य उचितं मूल्यं प्रदातुं आवश्यकतायाः विषये अपि बलं दत्तम्।

संस्कृतिमन्त्रालयस्य सचिवः विवेक अग्रवालः ‘वसुधैव कुटुम्बकम्’ इत्यस्य सन्देशं विश्वभरं प्रसारयितुं सामूहिकानुसन्धानस्य शैक्षणिककठोरतायाश्च आवश्यकता इति प्रतिपादितवान्। अपरतः आईजीएनसीए-संस्थायाः सदस्यसचिवः डॉ. सच्चिदानन्द जोशी सम्मेलनस्य प्रतिवेदनं प्रस्तुतवान्। सः युवा प्रतिनिधीनां उत्साहपूर्णां सहभागिताम् अस्य आयोजनस्य प्रमुखासु उपलब्धिषु अन्यतमाम् अमन्यत।

सम्मेलनस्य तृतीये दिने पद्मविभूषणसम्मानेन सम्मानिता डॉ. सोनल मानसिंह अवदत् यत् सिल्कमार्गः भवतु अथवा समुद्रीमार्गः, यदि तत्र संस्कृतिः नास्ति तर्हि ते मार्गाः निरर्थकाः भवन्ति। संस्कृतिः एव एतेभ्यः सम्पर्कमार्गेभ्यः अर्थं प्रददाति।

अपि च लेखकः अमीश त्रिपाठी भारतस्य समुद्रीपरम्पराणां विषये तथा भाजपानेता विजय चौथाईवाले योगस्य बौद्धपरिपथस्य च माध्यमेन सांस्कृतिककूटनीतेः महत्त्वविषये स्वविचारान् प्रस्तुतवन्तौ। अस्मिन् आयोजने विदेशीयैः राजनयिकैरपि भारतस्य सह तेषां गाढसम्बन्धानां स्मरणं कृतम्।

भारते फिजीदेशस्य उच्चायुक्तः जगन्नाथ सामी स्वपूर्वजान् गिरमिटियाश्रमिकान् स्मरन् भावुकतया अवदत् यत् फिजी तस्य जन्मभूमिः अस्ति, भारतं च मातृभूमिः। लिथुआनियादेशस्य राजदूतः डायना मिकेविचिएने स्वदेशे भारतीयसंस्कृतेः संस्कृतभाषायाश्च गहनप्रभावं रेखाङ्कितवती।

सम्मेलनस्य सह आयोजितं अष्टाविंशतिपटलयुक्तं विशेषप्रदर्शनमपि आकर्षणस्य केन्द्रम् आसीत्। त्रिदिवसीये अस्मिन् कार्यक्रमे ५० देशेभ्यः विद्वांसः अनुसन्धानकर्तारश्च भागं गृहीतवन्तः। १३५० अधिकैः प्रतिनिधिभिः पञ्जीकरणं कारितम् तथा २८ विभिन्नेषु सत्रेषु २७० शोधपत्राणि प्रस्तुतानि।

---------------

Hindusthan Samachar / अंशु गुप्ता