Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 अक्टूबरमासः (हि.स.)।
भारतस्य खननसप्ताहस्य आयोजनम् अधुना २०२७ तमवर्षस्य फरवरीमासस्य २४ तः २६ दिनाङ्कपर्यन्तं नवदेहल्यां यशोभूमि-सम्मेलनकेन्द्रे भविष्यति। पूर्वम् अस्य आयोजनस्य तिथयः नवम्बरमासस्य १५ तः १७ दिनाङ्कपर्यन्तं निर्धारिताः आसन्। अस्याः तिथिपरिवर्तनस्य अनुकूलतया सर्वाणि पञ्जीकरणानि, प्रदर्शनीसम्बद्धानि आरक्षणानि, प्रायोजनसम्बन्धिन्यः व्यवस्थाश्च समायोजयिष्यन्ते।
कोयलामन्त्रालयस्य अनुसारम् उद्योगक्षेत्रस्य सहभागिभिः, प्रदर्शकैः, वक्तृभिः, सर्वकारीयहितधारकैश्च सह परामर्शं कृत्वा अयं निर्णयः गृहीतः। कार्यक्रमस्य स्थलम्, विषयाः, प्रारूपं च यावत् अन्यथा न घोषितं भवति, तावत् पूर्ववत् एव स्थास्यन्ति।
कोयलामन्त्रालयेन सूचितं यत् ये प्रतिनिधयः प्रदर्शकाश्च नूतनासु तिथिषु उपस्थिताः भवितुं न शक्नुवन्ति, ते विकल्पानां विषये चर्चां कर्तुं भारतखननसप्ताहस्य आयोजकसमूहेन सह सम्पर्कं कर्तुं शक्नुवन्ति। अद्यतनकार्यक्रमः, वक्तॄणां घोषणाः, अन्यविवरणानि च भारतखननसप्ताहस्य आधिकारिकजालपुटेन आधिकारिकमाध्यमैश्च प्रसारितानि भविष्यन्ति।
भारतखननसप्ताहः खननकम्पनीः, उपकरणप्रौद्योगिकीप्रदातारः, नीतिनिर्मातारः, निवेशकाः, उद्योगविशेषज्ञाश्च एकस्मिन् मञ्चे समानेष्यति, येन देशस्य खननक्षेत्रस्य भविष्यं प्रति विचारविमर्शः कर्तुं शक्यते। अयं प्रमुखः खननकार्यक्रमः प्रदर्शन्याः, सम्मेलनस्य, व्यावसायिकसम्पर्कसत्राणां च माध्यमेन खननमूल्यशृङ्खलायां नवीनप्रौद्योगिकीन्, प्रगतिशीलपद्धतीः, निवेशावसरांश्च प्रदर्शयिष्यति।
---------------
Hindusthan Samachar / अंशु गुप्ता