Enter your Email Address to subscribe to our newsletters

राञ्ची, १६ अक्टोबरमासः (हि.स.)। माण्डरक्षेत्रे चत्वारिंशत्पड़हा-मुड़मा-जत्रायाः सज्जतां प्रति शुक्रवासरे प्रशासनिकसभा आयोजिता। सभायां मन्त्री शिल्पीनेहातिर्की तथा पूर्वमन्त्री बन्धुतिर्की च उपस्थितौ आस्ताम्। सभायाम् अग्रिम-अक्टोबर-मासस्य २७ तथा २८ दिनाङ्कयोः आयोज्यमानस्य अस्य जत्रामहोत्सवस्य व्यवस्थापनम्, श्रद्धालूनां सुविधाः, सुरक्षा, यातायातव्यवस्था, स्वच्छता च इत्यादयः विषयाः विस्तरेण चर्चिताः। अनेकेषु विषयेषु रणनीतिरपि निर्मिता।
अस्मिन्नवसरे मन्त्री शिल्पीनेहातिर्की अवदत् यत् चत्वारिंशत्पड़हा-मुड़मा-जत्रा आदिवासिसंस्कृतेः, परम्परायाः सामाजि-कैकतायाश्च प्रतीकम् अस्ति। उराँव-मुण्डासमुदाययोः सामाजिक-सांस्कृतिक-मेलनस्थलत्वेन अस्य विशिष्टा पहचान अस्ति। राजकीयजत्रायाः दर्जां प्राप्तेऽस्मिन् आयोजने देशस्य विभिन्नभागेभ्यः लक्षशः श्रद्धालवः भागं गृह्णन्ति।
सा अवदत् यत् आयोजनस्य महत्त्वं दृष्ट्वा श्रद्धालूनां सुविधायाः सुरक्षायाश्च व्यवस्था सर्वोच्चप्राथमिकता अस्ति। प्रशासनस्य, जत्रासमितेः स्थानीयजनानां च समन्वयेन सर्वाः आवश्यकव्यवस्थाः समये सुनिश्चिताः करिष्यन्ते। आगामीदिनेषु जनपदस्तरीया-धिकारिभिः सह सभा आयोज्य सज्जतायाः समीक्षापि करिष्यते।
मन्त्री अवदत् यत् जत्रायाः विशिष्टतां सांस्कृतिकवैभवं च संरक्ष्य तस्याः परम्पराः अग्रिमपीढीपर्यन्तं प्रापयितुं आवश्यकम् अस्ति। आयोजनं सुरक्षितं, सुव्यवस्थितं भव्यं च कर्तुं सर्वेषां सामूहिकं दायित्वम् अस्ति।
सभायाम् अञ्चलाधिकारी चञ्चलाकुमारी, खलारीक्षेत्रस्य आरक्षक-उपाधीक्षकः, चान्होप्रखण्डस्य विकासाधिकारी, जत्रा-समितेः अध्यक्षः, पड़हाप्रतिनिधयः तथा सर्वेषां चत्वारिंशत्पड़हानां ग्रामीणजनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan