राष्ट्रियपुरुषहॉकीप्रतियोगिता - उत्तरप्रदेशस्य रोमाञ्चकारी विजयः, कर्नाटकं ३-२ गोलाङ्कैः पराजितम्
झाँसी, १६ अक्टूबरमासः (हि.स.)। मेजरध्यानचन्दक्रीडाङ्गणे प्रचलितायां षोडश्यां हॉकी इण्डिया वरिष्ठपुरुषराष्ट्रीयहॉकीप्रतियोगितायाम् २०२६ उत्तरप्रदेशहॉकीदलेन उत्कृष्टं प्रदर्शनं कुर्वता कर्नाटकदलं ३-२ गोलाङ्कैः पराजित्य विजयः प्राप्तः। शुक्रवासरे क्र
मैदान पर खिलाड़ियों के साथ अतिथि


झाँसी, १६ अक्टूबरमासः (हि.स.)। मेजरध्यानचन्दक्रीडाङ्गणे प्रचलितायां षोडश्यां हॉकी इण्डिया वरिष्ठपुरुषराष्ट्रीयहॉकीप्रतियोगितायाम् २०२६ उत्तरप्रदेशहॉकीदलेन उत्कृष्टं प्रदर्शनं कुर्वता कर्नाटकदलं ३-२ गोलाङ्कैः पराजित्य विजयः प्राप्तः। शुक्रवासरे क्रीडिते अस्मिन् स्पर्धात्मकद्वन्द्वे उत्तरप्रदेशस्य पक्षतः अंशुमौर्यः, सुमितकुमारः, शरदनन्दतिवारी च प्रत्येकम् एकैकम् अङ्कं कृतवन्तः।

हॉकी इण्डिया, नवदेहली इत्यस्य तत्त्वावधाने उत्तरप्रदेशहॉकीसंस्थया, झाँसीजनपदप्रशासनेन, क्षेत्रीयक्रीडाकार्यालयेन च संयुक्तसमन्वयेन अक्टूबरमासस्य १० दिनाङ्कात् प्रतियोगितायाः आयोजनं क्रियते। शुक्रवासरे प्रतियोगितायां चत्वारः स्पर्धाः अभवन्।

प्रथमस्पर्धायां हॉकीहरियाणादलेन मणिपुरहॉकीदलं २-० गोलाङ्कैः पराजितम्। हरियाणादलस्य पक्षतः शुभमः मंजीतश्च एकैकम् अङ्कं कृतवन्तौ। द्वितीयस्पर्धायां हॉकीमध्यप्रदेशदलेन कठिनस्पर्धायां हॉकीमहाराष्ट्रदलं ३-२ गोलाङ्कैः पराजितम्। मध्यप्रदेशस्य पक्षतः श्रेयशधूपे, कप्तानः युसुफअफानः, प्रतापलकरा च गोलान् कृतवन्तः।

तृतीयस्पर्धायां हॉकीपञ्जाबदलेन हॉकीयूनिट् ऑफ् तमिलनाडु इति दलं ३-१ गोलाङ्कैः पराजितम्। पञ्जाबस्य पक्षतः दिलराजसिंहः, गुरजोतसिंहः, गुरजो सिंहसांघा च एकैकं गोलं कृतवन्तः। ततः दिवसस्य अन्तिमस्पर्धायां उत्तरप्रदेशस्य कर्नाटकस्य च मध्ये रोमाञ्चकारी स्पर्धा अभवत्, यस्यां उत्तरप्रदेशदलेन ३-२ गोलाङ्कैः विजयः प्राप्तः।

स्पर्धायाः समये ओलम्पिकक्रीडकः अर्जुनपुरस्कारप्राप्तश्च अशोकध्यानचन्दः मुख्यातिथिरूपेण उपस्थितः आसीत्। विशिष्टातिथिरूपेण दैनिकजागरणस्य महाप्रबन्धकः प्रशान्तसिंहः, ओलम्पिकक्रीडकः चयनकर्ता च बलविन्दरसिंहशम्मी, भारतीयकनिष्ठपुरुषहॉकीदलस्य चयनकर्ता प्रशिक्षकश्च फ्रेडरिकसोयेजः उपस्थिताः आसन्।

क्षेत्रीयक्रीडाधिकारी कर्मवीरसिंहः उपक्रीडाधिकारी सुनीलकुमारश्च अतिथीनां स्वागतं कृतवन्तौ। प्रतियोगितायाः क्वार्टरफाइनलस्पर्धाः अक्टूबरमासस्य १८ दिनाङ्के भविष्यन्ति। तस्मिन् दिवसे चत्वारः स्पर्धाः प्रातः ७ वादने, ९ वादने, ११ वादने तथा अपराह्णे ३ वादने च आयोजयिष्यन्ते।

Hindusthan Samachar / अंशु गुप्ता