Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे राष्ट्रियसुरक्षारक्षकदलस्य द्विचत्वारिंशत्तमे संस्थापनदिवसे दलस्य सैनिकेभ्यः शुभकामनाः प्रदत्तवान्। सः आतङ्कवादस्य विरुद्धं तेषां सतर्कतायाः, साहसस्य, कर्तव्यपालने अटूटनिष्ठायाश्च प्रशंसाम् अकरोत्।
प्रधानमन्त्रिणा सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र प्रेषिते सन्देशे उक्तं यत् एनएसजी-सैनिकाः साहसस्य, सूक्ष्मतायाः, कर्तव्यपालने अटूटप्रतिबद्धतायाश्च प्रतीकाः सन्ति। आतङ्कवादस्य विरुद्धं तेषां निरन्तरसतर्कता तथा देशस्य नागरिकाणां महत्त्वपूर्णानां राष्ट्रीय-सम्पत्तिनां च सुरक्षायै तेषां तत्परता जनानां मनसि महतीं विश्वासभावनां गौरवभावनां च जनयति।
उल्लेखनीयम् अस्ति यत् राष्ट्रीयसुरक्षा-रक्षकदलम् देशस्य विशिष्टम् आतङ्क-वादनिरोधकं बलम् अस्ति, यत् सामान्यतया ‘ब्लैक कैट्स’ इति नाम्ना प्रसिद्धम् अस्ति। एतत् केन्द्रीयगृह-मन्त्रालयस्य अधीनं कार्यं करोति तथा आतङ्कवादस्य निवारणे विशेषसुरक्षा-भियानेषु च महत्त्वपूर्णां भूमिकां निर्वहति।
Hindusthan Samachar / Divya Ranjan