पीएम-सेतुयोजनायाः अन्तर्गतं पञ्च औद्योगिकप्रशिक्षणसंस्थानसमूहानाम् आधुनिकीकरणाय १,१९४.९२ कोटिरूप्यकाणां स्वीकृतिः
नवदिल्ली, १६ अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणः कौशलविकास-रोजगार-परिवर्तनयोजनायाः अन्तर्गतं महाराष्ट्रे, ओडिशायां तथा जम्मू-कश्मीरे पञ्च औद्योगिकप्रशिक्षणसंस्थानसमूहानाम् आधुनिकीकरणाय १,१९४.९२ कोटि-रूप्यकाणां निवेशः स्वीकृतः। कौशल-विकास-उद्यमशीलत
पीएम-सेतु योजना की छठी राष्ट्रीय संचालन समिति की बैठक में आईटीआई क्लस्टरों के उन्नयन के लिए निवेश प्रस्तावों की समीक्षा करतीं कौशल विकास एवं उद्यमिता मंत्रालय की सचिव देबाश्री मुखर्जी।


नवदिल्ली, १६ अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणः कौशलविकास-रोजगार-परिवर्तनयोजनायाः अन्तर्गतं महाराष्ट्रे, ओडिशायां तथा जम्मू-कश्मीरे पञ्च औद्योगिकप्रशिक्षणसंस्थानसमूहानाम् आधुनिकीकरणाय १,१९४.९२ कोटि-रूप्यकाणां निवेशः स्वीकृतः। कौशल-विकास-उद्यमशीलतामन्त्रालयस्य सचिवायाः देवश्री मुखर्जी-महोदयायाः अध्यक्षतायां सम्पन्नायां योजनायाः षष्ठ्यां राष्ट्रियसञ्चालनसमित्याः सभायाम् एषः निर्णयः गृहीतः। एताभिः स्वीकृतिभिः सह पीएम-सेतुयोजनायाः अन्तर्गतं स्वीकृतस्य कुलनिवेशस्य राशिः ३,६८७ कोटि-रूप्यकाणि अभवत्।

योजनायाः अन्तर्गतं टाटा स्टील फाउण्डेशन, बीवीजी इण्डिया, बेलराइज इण्डस्ट्रीज, ईगल इन्फ्रा इण्डिया तथा इन्दरदीप इन्फ्रा इण्डिया इत्येताः संस्थाः पञ्च औद्योगिकप्रशिक्षणसंस्थानसमूहानां आधुनिकीकरणे सहभागित्वं करिष्यन्ति। औद्योगिकप्रशिक्षणसंस्थानानि आधुनिकानि, उद्योगानाम् आवश्यकतानु-कूलानि तथा भविष्यस्य आव्हानानां सम्मुखीकरणाय सज्जानि कौशल-प्रशिक्षणकेन्द्राणि कर्तुम् अस्याः योजनायाः उद्देश्यम् अस्ति।

सभायां कौशलविकास-उद्यमशीलता-मन्त्रालयस्य अपरसचिवः निरञ्जन-कुमार-सुधांशुः, संयुक्तसचिवा मानसी सहाय ठाकुर इत्यादयः वरिष्ठाधिकारिणः उपस्थिताः आसन्। तदतिरिक्तं प्रशिक्षण-महानिदेशालयस्य , राज्यसर्वकाराणां, केन्द्रशासितप्रदेशानां, औद्योगिक-सहभागिनां तथा बहुपक्षीय-विकास-धनागाराणां प्रतिनिधयः अपि सभायां भागं गृहीतवन्तः।

राष्ट्रियसञ्चालनसमितिः ओडिशायाः कटक-औद्योगिकप्रशिक्षणसंस्थान-समूहस्य कृते २४०.५० कोटिरूप्यकाणां निवेशं स्वीकृतवती। अस्य आधुनिकीकरणं टाटा स्टील फाउण्डेशन इत्यनेन सह भागित्वेन क्रियान्वितं भविष्यति। अस्मिन् समूहे कटकस्थं राजकीयम् औद्योगिक-प्रशिक्षण-संस्थानं मुख्यसंस्थानरूपेण विकसितं भविष्यति। चौद्वार, पारादीप, जाजपुर तथा ढेंकनालस्थाः राजकीयाः औद्योगिक-प्रशिक्षणसंस्थाः तस्य सहायक-संस्थानानि भविष्यन्ति।

महाराष्ट्रस्य पुणे-औद्योगिकप्रशिक्षण-संस्थानसमूहस्य कृते २४१ कोटिरूप्यकाणि स्वीकृतानि। अस्य कार्यान्वयनं बीवीजी इण्डिया लिमिटेड् तथा बीवीजी फाउण्डेशन इत्येताभ्यां संस्थाभ्यां सहकारेण भविष्यति। पुणेनगरस्य औंधस्थं राजकीयम् औद्योगिकप्रशिक्षणसंस्थानं मुख्यसंस्थानं भविष्यति। औंधस्थं महिलानाम् औद्योगिकप्रशिक्षणसंस्थानम्, पिम्परी-चिञ्चवड्, खेड़ तथा मुलशीस्थाः राजकीयाः औद्योगिकप्रशिक्षणसंस्थाः अस्मिन् समूहे सम्बद्धाः भविष्यन्ति।

एवमेव महाराष्ट्रस्य छत्रपति-सम्भाजीनगर-औद्योगिकप्रशिक्षण-संस्थानसमूहस्य आधुनिकीकरणाय बेलराइज इण्डस्ट्रीज लिमिटेड् इत्यया संस्थया सह भागित्वेन २३८.०१ कोटिरूप्यकाणि स्वीकृतानि। अस्मिन् समूहे छत्रपति-सम्भाजीनगरस्थं राज-कीयम् औद्योगिकप्रशिक्षणसंस्थानं मुख्य-संस्थानं भविष्यति। पैठण, खुल्ताबाद, फुलम्बरी तथा गंगापुरस्थाः राजकीयाः औद्योगिकप्रशिक्षणसंस्थाः सहायकसंस्थानरूपेण कार्यं करिष्यन्ति।

जम्मू-औद्योगिकप्रशिक्षणसंस्थानसमूहस्य कृते ईगल इन्फ्रा इण्डिया लिमिटेड् इत्यया संस्थया सह भागित्वेन २४० कोटिरूप्यकाणि स्वीकृतानि। अत्र जम्मूस्थं राजकीयम् औद्योगिकप्रशिक्षणसंस्थानं मुख्यसंस्थानं भविष्यति। आरएस पुरा, नौशेरा, साम्बा तथा कठुआस्थाः राजकीयाः औद्योगिकप्रशिक्षणसंस्थाः सहायकसंस्थानानि भविष्यन्ति।

श्रीनगर-औद्योगिकप्रशिक्षणसंस्थान-समूहस्य आधुनिकीकरणाय इन्दरदीप इन्फ्रा इण्डिया लिमिटेड् इत्यया संस्थया सह भागित्वेन २३५.४१ कोटिरूप्यकाणि स्वीकृतानि। अस्मिन् समूहे श्रीनगरस्थं राजकीयम् औद्योगिकप्रशिक्षणसंस्थानं मुख्यसंस्थानं भविष्यति। गान्देरबल, कंगन, बडगाम तथा चरार-ए-शरीफस्थाः राजकीयाः औद्योगिकप्रशिक्षणसंस्थाः सहायकसंस्थानरूपेण सम्बद्धाः भविष्यन्ति।

मन्त्रालयस्य सचिवा देवश्री मुखर्जी अवदत् यत् राष्ट्रियसञ्चालनसमित्या प्रदत्ताः स्वीकृतयः पीएम-सेतुयोजनायाः कार्या-न्वयनदिशि महत्त्वपूर्णं पदम् अस्ति। एताभिः स्वीकृतिभिः औद्योगिकप्रशिक्षण-संस्थानानां सुदृढीकरणे, प्रशिक्षणस्य गुणवत्तासुधारणे तथा उद्योगानां सह-भागितावर्धने च सहायता भविष्यति। सा क्लस्टरसमूहान् आईएसओ-प्रमाणपत्र-प्राप्त्यर्थं प्रयत्नं कर्तुं तथा स्वीकृतकार्य-योजनासु न्यूनातिन्यूनम् एकं वर्ल्डस्किल्स-मानकानुरूपं व्यवसायक्षेत्रं वा कौशलक्षेत्रं वा समावेशयितुं प्रोत्साहितवती।

सा अवदत् यत् युवभ्यः उत्तमं कौशलप्रशिक्षणं प्रदातुं तेषां कृते च रोजगारावसरान् वर्धयितुं सर्वकारस्य उद्देश्यम् अस्ति। जम्मू-कश्मीरे प्राप्तां प्रगतिम् उत्साहवर्धिनीं वर्णयन्ती सा अवदत् यत् एषा प्रगतिः तत्रत्येभ्यः युवभ्यः कौशलविकासस्य अवसरानां च सुदृढीकरणे सर्वकारस्य प्रतिबद्धतां दर्शयति।

योजनायाः अन्तर्गतं स्वीकृतासु परियोजनासु प्रशिक्षणार्थम् आधुनिक-मूलभूतसंरचनायाः विकासः, उद्योगानाम् आवश्यकतानुसारं नवीन-पाठ्यक्रमाणाम् आरम्भः, प्रशिक्षकाणां क्षमतावर्धनं तथा उद्योगैः सह प्रशिक्षणसंस्थानानां सम्बन्ध-सुदृढीकरणं च अन्तर्भवति। एतद्वारा युवभ्यः रोजगारोपयोगीनां कौशलानां प्रदानाय विशेषं ध्यानं दीयते।

सभायां पीएम-सेतुयोजनायाः द्वितीय-घटकस्य अन्तर्गतं प्रशिक्षकप्रशिक्षण-कार्यक्रमस्य प्रगतेः अपि समीक्षा कृता। अस्य घटकस्य उद्देश्यम् अस्ति यत् तकनीकीज्ञानयुक्तानां आधुनिकशिक्षण-कौशलसम्पन्नानां च प्रशिक्षकाणां सुदृढं समूहं निर्मीयेत। मन्त्रालयस्य अनुसारम्, अक्टोबरमासस्य २०२६ पर्यन्तं राष्ट्रियकौशलप्रशिक्षणसंस्थानानां माध्यमेन अस्य कार्यक्रमस्य अन्तर्गतं ३,७४४ प्रशिक्षकाः प्रशिक्षणं प्राप्तवन्तः।

Hindusthan Samachar / Divya Ranjan