राष्ट्रपतिः मुर्मुः अक्टूबरमासस्य २२-२३ दिनाङ्कयोः छत्तीसगढराज्यस्य प्रवासे रायपुर-जगदलपुरयोः कार्यक्रमेषु भागं ग्रहीष्यति।
रायपुरम्, 16 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः अक्टूबरमासस्य २२ तथा २३ दिनाङ्कयोः छत्तीसगढराज्यस्य प्रवासे स्थास्यति। अस्मिन् प्रवासकाले सा रायपुरे जगदलपुरे च आयोजितेषु विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति। अक्टूबरमासस्य २२ दिनाङ
राष्ट्रपति द्रौपदी मुर्मु


रायपुरम्, 16 अक्टूबरमासः (हि.स.)।

राष्ट्रपतिः द्रौपदी मुर्मुः अक्टूबरमासस्य २२ तथा २३ दिनाङ्कयोः छत्तीसगढराज्यस्य प्रवासे स्थास्यति। अस्मिन् प्रवासकाले सा रायपुरे जगदलपुरे च आयोजितेषु विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति।

अक्टूबरमासस्य २२ दिनाङ्के राष्ट्रपतिः रायपुरस्थिते लोकभवने मध्याह्ने १२ वादनतः ४५ निमेषे पूज्यायाः माता हासिदेवीमहोदयायाः सम्मानार्थं २०० मूल्यवर्गस्य स्मारकमुद्रां विमोचयिष्यति। ततः सायं ४ वादने सा रायपुरस्य बुढापारास्थिते बलबीरसिंहजुनेजा अन्तःक्रीडाङ्गणे नुआखाईपर्वणः अवसरे आयोजिते ‘सेवासम्मानपर्वणि’ तथा ‘युवाप्रबोधन’ कार्यक्रमयोः मुख्यातिथिरूपेण भागं ग्रहीष्यति।

अक्टूबरमासस्य २३ दिनाङ्के राष्ट्रपतिः प्रातः ११ वादने जगदलपुरस्थिते मातुः दन्तेश्वर्याः मन्दिरे पूजामर्चनां च करिष्यति। ततः मध्याह्ने १२ वादनतः ४५ निमेषे सा जगदलपुरे मुरियादरबारस्य बस्तरदशहरापर्वणश्च अवसरे आयोजिते सार्वजनिककार्यक्रमे भागं ग्रहीष्यति।

राष्ट्रपतेः अयं द्विदिवसीयः छत्तीसगढप्रवासः राज्यस्य राजधानीरायपुरे बस्तरक्षेत्रे च आयोजितेषु विविधेषु औपचारिकेषु सांस्कृतिकेषु सार्वजनिकेषु च कार्यक्रमेषु तस्याः सहभागितायाः अवसरः भविष्यति। इयं सूचना अद्य शुक्रवासरे भारतीयपत्रसूचनाकार्यालयेन (पीआईबी) निर्गता।

---------------

Hindusthan Samachar / अंशु गुप्ता