Enter your Email Address to subscribe to our newsletters

जयपुरम्, 16 अक्टूबरमासः (हि.स.)। महानगरस्य प्रथमस्य जिलान्यायालयेन पूर्वराजपरिवारस्य सदस्यस्य पद्मनाभसिंहस्य पक्षे २०१९ तमे वर्षे उत्तराधिकारप्रमाणपत्रं निर्गन्तुं प्रदत्तस्य आदेशस्य विरुद्धं प्रस्तुतं दावं चुनौतीं ददतः प्रार्थनापत्रं निरस्तं कृतम्। पीठासीनाधिकारी दिनेशत्यागी पद्मनाभसिंहेन प्रस्तुतं प्रार्थनापत्रं निरस्य अवदत् यत् दावकर्त्र्याः उर्वशीदेव्याः दावा परिसीमाकालात् बाधितः नास्ति।
उर्वशीदेव्याः पक्षतः अधिवक्ता रामजीलालगुप्तः अवदत् यत् २०११ तमे वर्षे पद्मनाभसिंहः न्यायालये दावं प्रस्तुत्य स्वपक्षे उत्तराधिकारप्रमाणपत्रं निर्गन्तुं प्रार्थितवान् आसीत्। उर्वशीदेवी अस्य विरोधं कुर्वती अवदत् यत् अस्मिन् तस्याः सम्बद्धाः हिन्दू अविभक्तकुटुम्बस्य (एचयूएफ) अंशाः अपि समाविष्टाः सन्ति। तदनन्तरं पद्मनाभसिंहस्य पक्षतः एतेषाम् अंशानां निष्कासनानन्तरं न्यायालयेन अवशिष्टानाम् अंशानां कृते उत्तराधिकारप्रमाणपत्रं निर्गतम्।
अनन्तरं पद्मनाभसिंहेन उर्वशीदेवीं पक्षकारं न कृत्वा अन्यः दावा प्रस्तुतः। तेन २०१९ तमे वर्षे उर्वशीदेव्याः सम्बद्धानाम् अंशानाम् अपि उत्तराधिकारप्रमाणपत्रं प्राप्तम्। अस्य प्रमाणपत्रस्य विरोधं कुर्वती उर्वशीदेवी तं प्रमाणपत्रं निरस्तीकर्तुं दावा प्रस्तुतवती। तया निवेदितं यत् तां पक्षकारं न कृत्वा निर्गतं उत्तराधिकारप्रमाणपत्रं प्रत्याहर्तव्यम्।
अस्य दावस्य विरोधं कुर्वन् पद्मनाभसिंहस्य पक्षतः उक्तं यत् उत्तराधिकारप्रमाणपत्रं २०१९ तमस्य वर्षस्य मईमासे निर्गतम् आसीत्, किन्तु तद्विरुद्धं दावा २०२४ तमे वर्षे प्रस्तुतः। येषु प्रकरणेषु विधिना समयसीमा निर्धारितं नास्ति, तेषु त्रिवर्षीयः कालः मान्यते। अतः अयं दावा द्विवर्षीयविलम्बेन प्रस्तुतः, तस्मात् अस्य सुनवाई न करणीया।
एतस्य प्रत्युत्तरे उर्वशीदेवी अवदत् यत् प्रमाणपत्रस्य निर्गमनानन्तरं उच्चन्यायालये याचिका प्रस्तुतासीत्। अनन्तरं अधोन्यायालये तथ्यं प्रस्तोतुं अनुमतिं याचमाना सा याचिका प्रत्याहृता आसीत्। अतः अस्य दावस्य समयसीमायाः अनन्तरं प्रस्तुतत्वं न मन्तव्यम्।
उभयोः पक्षयोः तर्कान् श्रुत्वा न्यायालयेन पद्मनाभसिंहेन प्रस्तुतं प्रार्थनापत्रं निरस्तं कृतम्।
---------------
Hindusthan Samachar / अंशु गुप्ता