Enter your Email Address to subscribe to our newsletters

मुंबई, 16 अक्टूबरमासः (हि.स.)।अभिनेत्री शर्वरी स्वस्याः आगामीचलचित्रस्य ‘ये प्रेम मोल लिया’ इत्यस्य ‘झुमका पटोला’ इति गीतं प्रति उत्साहिता अस्ति। तस्याः कथनम् अस्ति यत् अनेन गीतने तस्यै नृत्यं प्रति स्वप्रेम नूतनशैल्या प्रकटयितुं अवसरः प्राप्तः। सूरज आर. बड़जात्या इत्यस्य निर्देशननिर्माणे जायमानस्य अस्य चलचित्रस्य प्रमुखभूमिकयोः आयुष्मान खुराना तथा शर्वरी स्तः। अभिनेत्री पूर्वमपि स्वनृत्येन दर्शकानाम् अवधानम् आकर्षितवती अस्ति, किन्तु अस्य गीतस्य अनुभवः तस्यै विशेषः आसीत्।
शर्वर्याः मते सूरज बड़जात्या इत्यनेन सह गीतस्य चित्राङ्कनं केवलं नृत्यपदविन्यासेभ्यः सीमितं नासीत्, अपितु प्रत्येकस्य गतिविशेषस्य मुखमुद्रायाश्च कथया सह सम्बन्धः विचारितः। तया कथितं यत् निर्देशकः तस्यै अवबोधयति स्म यत् कस्यचित् विशिष्टक्षणस्य तस्याः पात्रस्य कृते किम् महत्त्वम् अस्ति। सः स्वस्य पूर्ववर्तिचलचित्राणां गीतैः सम्बद्धान् अनुभवानपि तया सह संविभजति स्म। शर्वरी अवदत् यत् सा एतान् विषयान् ध्यात्वा प्रत्येकस्मिन् नृत्यपदे मुखमुद्रायां च भावान् अभिव्यक्तुं प्रयत्नम् अकरोत्।
अभिनेत्र्याः मतम् अस्ति यत् सङ्गीतं नृत्यं च कथां अग्रे नयतः, ताभ्यां सह तादृशान् भावानपि अभिव्यक्तुं शक्यते, येषां संवादमाध्यमेन वर्णनं कठिनं भवति। तया उक्तं यत् कतिपयानि गीतानि स्वकीयैः पात्रैः स्मरणीयैः क्षणैश्च कारणैः दीर्घकालं यावत् दर्शकानां हृदयेषु निवसन्ति। चलचित्रस्य शीर्षकगीतायाः ‘ये प्रेम मोल लिया’ इत्यस्य सकारात्मकप्रतिसादं प्राप्तवती सती शर्वरी अधुना ‘झुमका पटोला’ इति गीतस्य विषये दर्शकानां प्रतिक्रियायाः प्रतीक्षां कुर्वती अस्ति। हिमेश रेशमिया इत्यस्य सङ्गीतरचनया सुसज्जितम् इदं चलचित्रं २०२६ तमस्य वर्षस्य नवम्बरमासस्य २७ दिनाङ्के चलचित्रगृहेषु प्रदर्शितं भविष्यति।
---------------
Hindusthan Samachar / अंशु गुप्ता