भारत-रूसयोः मध्ये ८० तः ९० प्रतिशतं यावत् व्यापारः स्थानीयमुद्राभ्यां क्रियमाणः अस्ति : विनयकुमारः
कज़ानः, 16 अक्टूबरमासः (हि.स.)। रूसदेशे भारतस्य राजदूतः विनयकुमारः अवदत् यत् भारतरूसयोः मध्ये ८० तः ९० प्रतिशतं यावत् व्यापारः स्थानीयमुद्राभ्यां सम्पाद्यते। आगामिषु कालेषु एषः प्रतिशतः अधिकः भवितुम् अर्हति। कजाननगरे प्रचलति टाइम् बिजनेस फोरम इत
विनय कुमार, रूस में भारतीय राजदूत


कज़ानः, 16 अक्टूबरमासः (हि.स.)।

रूसदेशे भारतस्य राजदूतः विनयकुमारः अवदत् यत् भारतरूसयोः मध्ये ८० तः ९० प्रतिशतं यावत् व्यापारः स्थानीयमुद्राभ्यां सम्पाद्यते। आगामिषु कालेषु एषः प्रतिशतः अधिकः भवितुम् अर्हति।

कजाननगरे प्रचलति टाइम् बिजनेस फोरम इत्यस्मिन् विशेषवार्तालापे विनयकुमारः अवदत् यत् व्यापारं कर्तुम् इच्छुकानां देशानां कृते भारतीयारक्षितबैङ्केन विशेषवोस्ट्रोखातानां स्थापनार्थम् आवश्यकाः निर्देशाः निर्गताः आसन्। अनेकदेशाः एतेषां खातानाम् उपयोगं कुर्वन्ति, रूसदेशः अपि तेषु अन्यतमः अस्ति। तेन उक्तं यत् विंशत्यधिकानि विशेषवोस्ट्रोखातानि उद्घाटितानि सन्ति। वस्तुतः १९ रूसीयबैङ्कैः एतानि खातानि उद्घाटितानि, येषां माध्यमेन व्यापारसमायोजनव्यवस्था कार्यं करोति।

सः अवदत् यत् एतेषां खातानाम् अधिकोपयोगाय व्यापारस्य सन्तुलनं नितराम् आवश्यकम् अस्ति। अधुना व्यापारसमायोजनस्य महत्त्वपूर्णः भागः स्थानीयमुद्राभ्यां भवति। एषः प्रतिशतः परिवर्तते, तथापि सः प्रायः ८० तः ९० प्रतिशतस्य परिधौ वर्तते।

कजाननगरे आयोजितस्य तातारस्तानभारतव्यापारमञ्चस्य अवसरे सः व्यापारस्य, स्थानीयमुद्राभ्यां विनिमयस्य, सांस्कृतिकसहकारितायाश्च विषये विस्तरेण विचारान् प्रस्तुतवान्। विनयकुमारः अवदत् यत् क्षेत्रीयसर्वकारैः लघुमध्यमोद्यमेभ्यः संसाधनाधारितोद्योगेभ्यश्च दीयमानानाम् प्रोत्साहनानां कारणेन रूसीयराज्येषु भारतीयविपण्या सह व्यापारिकसम्बन्धान् वर्धयितुं तीव्रप्रयत्नाः क्रियन्ते। भारतं विविधेषु रूसीयक्षेत्रेषु स्थितानां व्यापारप्रतिनिधिमण्डलानां भारतागमनाय प्रोत्साहयति। तेन सह भारतीयवाणिज्यसङ्घाः, व्यवसायिनः, सांस्कृतिकदलानि च रूसदेशे आयोजितेषु व्यापारमेलासु कार्यक्रमेषु च निरन्तरं भागं गृह्णन्ति। उभयोः देशयोः मध्ये प्रतिनिधिमण्डलानाम् आदानप्रदानं विभिन्नक्षेत्रेषु वर्धितम् अस्ति।

विनयकुमारः अवदत् यत् एतस्यामेव दिशि तातारस्तानभारतव्यापारमञ्चस्य आरम्भः गतवर्षे अभवत् तथा च इदं तस्य द्वितीयं संस्करणम् अस्ति। २०२५ तमे वर्षे आयोजिते प्रथमसंस्करणे भारतस्य २० राज्येभ्यः रूसस्य पञ्च क्षेत्रेभ्यश्च प्रतिनिधयः भागं गृहीतवन्तः। तस्मिन् आयोजने १९ सहमतिपत्रेषु अन्येषु च सम्झौतापत्रेषु हस्ताक्षराणि कृतानि आसन्।

भारतस्य निर्यातस्य विषये बलं ददन् सः अवदत् यत् विगतेषु कतिपयवर्षेषु उभयोः देशयोः मध्ये व्यापारः उल्लेखनीयरूपेण वर्धितः तथा च भारतीयनिर्यातः अपि वर्धमानः अस्ति।

सः इम्प्रॉम इत्यस्य उदाहरणं दत्त्वा अवदत् यत् एषः रूसदेशस्य प्रमुखः औद्योगिकमेला अस्ति। अस्य प्रथमं भारतीयसंस्करणं गतप्रमासे नवदेहल्यां सफलतया आयोजितम्।

विनयकुमारः अवदत् यत् रूसदेशे भारतीयचलचित्राणां लोकप्रियतां नूतनां ऊर्ध्वतां नेतुं भारतं निरन्तरं प्रयतते। राजकपूरस्य अमिताभबच्चनस्य च चलचित्राणां युगात् प्रवर्तमानः अयं सांस्कृतिकसम्बन्धः अधुना संयुक्तचलचित्रनिर्माणस्य नूतनं युगं प्रविशति। विगतेषु त्रिषु वर्षेषु चलचित्रकलाकाराणां यात्राः, सञ्चारमाध्यमसंस्थानां मध्ये सहकारिता, चलचित्रदूरदर्शननिर्माणमञ्चानां प्रोत्साहनं च प्रति निरन्तरं कार्यं क्रियते। तातारस्तानभारतव्यापारमञ्चे चलचित्रमहोत्सवः अपि विशेषखण्डरूपेण समाविष्टः अस्ति।

सः अवदत् यत् सृजनात्मकक्षेत्रेण सह सामाजिकमाध्यमप्रभावकारिणः अपि उभयोः देशयोः जनान् परस्परं संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। गतप्रमासे रूसदेशे आयोजिते विश्वान्तरराष्ट्रीययुवमहोत्सवे प्रायः २२५० भारतीययुवकैः भागं गृहीतम्, येन जनानां परस्परसम्पर्कः अधिकं सुदृढः अभवत्। अस्मिन्नेव प्रसङ्गे अन्येन वक्त्रा संयुक्तचलचित्रनिर्माणस्य विषये विस्तरेण सूचना प्रदत्ता।

तेन उक्तं यत् विगतेषु कतिपयवर्षेषु अनेकानां रूसीयचलचित्राणां चित्राङ्कनं भारतदेशे तथा भारतीयचलचित्राणां चित्राङ्कनं रूसदेशे अभवत्। गतवर्षे भारतदेशे चित्रितयोः द्वयोः चलचित्रयोः प्रदर्शनम् अत्र आयोजितम्। तयोः एकं टीएमटी दूरदर्शनवाहिन्याः कृते निर्मितम् आसीत्। अधुना एव अन्यायाः रूसीयदूरदर्शनधारावाहिकायाः चित्राङ्कनमपि भारतदेशे सम्पन्नम्। सम्प्रति अनेकानि चलचित्राणि निर्माणोत्तरचरणे सन्ति, अन्येषां कतिपयचलचित्राणां भारतदेशे चित्राङ्कनाय अनुमतिः प्राप्ता अस्ति।

विनयकुमारः वार्तालापे अवदत् यत् रूसदेशे कार्यावसरान् अन्विष्य आगच्छन्तः भारतीयाः भारतीयदूतावासात् सम्यक् सूचनां प्राप्नुयुः, येन ते सम्भावितासु समस्यासु न पतन्ति। रूसदेशेन भारतात् आगच्छतः श्रमिकवर्गस्य कृते ३० प्रतिशतं कोटा आरक्षितः अस्ति। सम्प्रति २९ सहस्राणि भारतीयाः रूसदेशे कार्यं कुर्वन्ति।

-------------

Hindusthan Samachar / अंशु गुप्ता