Enter your Email Address to subscribe to our newsletters

कानपुरम्, १७ अक्टोबरमासः (हि.स.)। क्षेत्रे विकासकार्याणि प्राथमिकतया सम्पादयित्वा जनसुविधानां सुधाराय निरन्तरं प्रयासाः क्रियन्ते। विधायकनिधितः सम्पाद्यमानैः कार्यैः स्थानीयानाम् आवश्यकतानां पूर्तये विशेषं बलं दीयते। एताः उक्तयः आर्यनगरविधानसभाक्षेत्रस्य समाजवादीपार्टीदलस्य विधायकः अमिताभबाजपेयी शनिवासरे लाटूशमार्गस्थिते भगतसिंह-उद्याने सौन्दर्यवर्धनकार्यस्य लोकार्पणसमये उक्तवान्।
वार्ड-८९ मध्ये स्थितस्य भगतसिंह-उद्यानस्य सौन्दर्यवर्धनकार्यं विधायक-निधितः कारितम्। विधायकः अमिताभबाजपेयी अस्य कार्यस्य लोकार्पणं कृत्वा क्षेत्रवासिभ्यः विकासकार्यस्य उपहारं प्रदत्तवान्। सः उक्तवान् यत् क्षेत्रस्य आवश्यकतानां ध्यानं कृत्वा विकासयोजनाः निर्मीयन्ते। जनानां कृते उत्तमसुविधानां प्रदाने विधायकनिधेः उपयोगः आवश्यककार्येषु क्रियते। स्थानीयस्तरे जनहितसम्बद्धानि कार्याणि अग्रेऽपि प्राथमिकतया सम्पादयिष्यन्ते।
उद्यानस्य सौन्दर्यवर्धनस्य प्रस्तावः अब्दुलआरिफेन प्रस्तुतः आसीत्, अस्य कार्यस्य प्रेरणास्रोतः सर्वेशपाण्डेयः आसीत्। उद्याने सम्पादितेन कार्येण क्षेत्रवासिभ्यः उत्तमं वातावरणं प्रदातुं प्रयासः कृतः। लोकार्पणकार्यक्रमे मो. सारिया, चाँदकुरैशी, कुतुबुद्दीनमंसूरी, अनिल-सोनकरः, हलीमपप्पी, जावेदहसनः, बाबी-एहसासः, दानिशः, मो. शारिकः, शाहजेबः, आकाशयादवः इत्यादयः अन्ये च जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan