Enter your Email Address to subscribe to our newsletters




— दुर्गापूजामण्डपानां प्रतिमानां च अनावरणम्
गुवाहाटी, १७ अक्टोबरमासः (हि.स.)। दुर्गापूजोत्सवेन सम्पूर्णं गुवाहाटीनगरं हर्षोल्लासमग्नम् अस्ति। अद्य नगरे विभिन्नेषु स्थानेषु निर्मितानां बहुव्यय-युक्तानां दुर्गापूजामण्डपानां प्रतिमानां च अनावरणं कृतम्। यद्यपि पूजामण्डपेषु प्रतिमानाम् अनावरणं शुक्रवासरे एव अभवत्, तथापि पूजादर्शनाय जनानां महान् सम्मर्दः दृश्यते।
मालीगाँव-स्थितायाः सतीजयमतीनगर-सार्वजनिक-दुर्गापूजासमितेः अस्मिन् वर्षे रजतजयन्तीवर्षम् अस्ति। अस्य विशेषा-वसरस्य उपलक्ष्ये पूजासमित्या विशेष-कार्यक्रमस्य आयोजनं कृतम्। अस्मिन् वर्षे दक्षिणभारतस्य प्राचीन-शिवमन्दिरम् अस्याः पूजायाः विषयवस्तु अस्ति।
रेस्ट्-कैम्प-कालीबाडी-दुर्गापूजा अस्मिन् वर्षे ७८तमे वर्षे प्रविष्टा। अत्र १८ पादपरिमिता दुर्गाप्रतिमा सांसदेन भुवनेश्वरकलितेन अनावृता। अस्मिन्नेव अवसरे पूजायाः स्मारिकायाः अपि विमोचनं कृतम्।
पाण्डु-कॉलेज-गेट्-सुभाषनगर-दुर्गा-पूजासमितेः अस्मिन् वर्षे ५२तमं वर्षम् अस्ति। क्षेत्रस्य समाजकल्याणकार्यकर्तारः प्रदीपरायः, देब्रतदे तथा सुब्रतदे च दुर्गाप्रतिमाम् अनावृतवन्तः। अस्मिन् अवसरे पूजासमितेः विशिष्टजनाः सदस्याश्च उपस्थिताः आसन्। अस्मिन् वर्षे प्रथमवारं अङ्कीयपद्धत्या दुर्गाप्रतिमायाः अना-वरणस्य व्यवस्था अस्य आयोजनस्य विशेषाकर्षणम् आसीत्। तदनन्तरं पूजामण्डपे प्रतिष्ठापितायाः दुर्गाप्रतिमायाः विधिवत् अनावरणं कृतम्।
पाण्डु-रिवरसाइट्-इन्स्टिट्यूट्-कॉलोनी-दुर्गापूजा अस्मिन् वर्षे ११६तमे वर्षे प्रविष्टा। अस्मिन् वर्षे आयोजकैः चायोद्यानस्य मनोहरं दृश्यम् अस्याः पूजायाः विषयवस्तुरूपेण चयनितम्। पञ्चम्यां तिथौ पाण्डु-गौडीयामठस्य महाराजः गोविन्दमहाराजः दुर्गाप्रतिमाम् अना-वृतवान्। अस्मिन् अवसरे पूजासमितेः पदाधिकारिणः गणमान्यजनाश्च उपस्थिताः आसन्।
जैवविविधतायाः सन्देशं प्रसारयन्ती मालीगाँव-कालीबाडी-दुर्गापूजायाः औपचारिकम् उद्घाटनम् अस्मिन् वर्षे कृतम्। एषा पूजा अस्मिन् वर्षे ७६तमे वर्षे प्रविष्टा। आयोजकैः जैवविविधता अस्याः पूजायाः विषयवस्तुरूपेण स्वीकृता। अस्याः पूजायाः उद्घाटनं पूर्वोत्तरसीमारेल-विभागस्य महाप्रबन्धकेन चेतनकुमार-श्रीवास्तवेन तस्य पत्नी शालिनी-श्रीवास्तवेन च कृतम्। तदतिरिक्तं उपमहा-प्रबन्धकः तथा सचिवः अवधेशप्रसादः, सचिवः नीतिप्रसादः, प्रधानः मुख्याभियन्ता नीलमणिब्रह्मा, खानश्रीब्रह्मा, प्रधानः मुख्ययान्त्रिका-भियन्ता उत्तमप्रकाशः, करुणाप्रकाशः, एच. एल. पोद्दार-फाउण्डेशनस्य अध्यक्षः अजयपोद्दारः तथा पूजासमितेः सदस्याः अपि उपस्थिताः आसन्।
विविधाभिः विषयवस्तुभिः, पारम्परिक-मण्डपसज्जया आकर्षकप्रतिमाभिश्च गुवाहाटीनगरस्य दुर्गोत्सवः अस्मिन् वर्षे अपि विशेषमहत्त्वेन आयोज्यते।
Hindusthan Samachar / Divya Ranjan