Enter your Email Address to subscribe to our newsletters

भोपालम्, 17 अक्टूबरमासः (हि.स.)।
मध्यप्रदेशभारतीयजनतापक्षस्य प्रदेशाध्यक्षः हेमन्तखण्डेलवालः राजस्थानप्रदेशस्य कोटाजनपदे सीमलियायाः समीपे दिल्लीमुम्बई-द्रुतमार्गे सम्पन्नायां मार्गदुर्घटनायां बैतूलजनपदस्य अष्टानां श्रद्धालूनां निधनं प्रति शोकं प्रकटितवान्।
भाजपायाः प्रदेशाध्यक्षः हेमन्तखण्डेलवालः अवदत् यत् बैतूलजनपदस्य अष्टानां श्रद्धालूनां दुःखदं निधनम् अन्येषां श्रद्धालूनां च व्रणितत्वस्य घटना अत्यन्तं पीडादायिनी हृदयविदारिका च अस्ति।
भाजपायाः प्रदेशाध्यक्षः दुर्घटनायाः सूचना प्राप्तमात्रेण मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ. मोहनयादवेन मुख्यसचिवेन च सह चर्चां कृत्वा घटनायाः स्थितेः पीडितेभ्यः प्रदीयमानसहायतायाश्च विषये सूचनां प्राप्तवान्। मध्यप्रदेशसर्वकारः राजस्थानस्य शासनप्रशासनेन सह निरन्तरं समन्वयं स्थापयित्वा पीडितपरिवाराणाम् आवश्यकसहायतां प्रदातुं, व्रणितानां समुचितचिकित्सां कर्तुं, अन्येषाम् आवश्यकव्यवस्थानां च कृते पूर्णसंवेदनशीलतया प्रयत्नान् कुर्वन् अस्ति।
हेमन्तखण्डेलवालः अवदत् यत् दुःखस्य सङ्कटस्य च अस्मिन् समये प्रदेशसर्वकारः पीडितपरिवारैः सह दृढतया तिष्ठति। राजस्थानप्रशासनेन सह समन्वयं स्थापयित्वा प्रभावितपरिवाराणां व्रणितानां च सर्वसम्भवासहायतां प्रदातुं सर्वे आवश्यकाः उपायाः क्रियन्ते।
सः ईश्वरं प्रार्थितवान् यत् दिवङ्गतानां श्रद्धालूनाम् आत्मानः स्वश्रीचरणेषु स्थानं प्राप्नुयुः तथा शोकसन्तप्तेभ्यः परिजनेभ्यः असहनीयं दुःखं सोढुं शक्तिं प्रदद्यात्। दुर्घटनायां व्रणितानां सर्वेषां श्रद्धालूनां शीघ्रस्वास्थ्यलाभाय अपि सः प्रार्थनां कृतवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani