हैदराबादे १५१ अधिकारि-प्रशिक्षुभिः भारतीय-आरक्षक-सेवायाः प्रशिक्षणस्य प्रथमचरणं पूर्णम्, समापन-सञ्चलनं सम्पन्नम्
हैदराबादम्, १७ अक्टोबरमासः (हि.स.)। भारतीय-आरक्षक-सेवायाः ७८तमस्य समूहस्य परिवीक्षाधिकारिणां समापन-सञ्चलनम् शनिवासरे हैदराबादनगरे स्थितायां सरदारवल्लभभाईपटेल-राष्ट्रिय-आरक्षक-अकादम्यां सम्पन्नम्। अनेन सह तेषां आधारभूतप्रशिक्षणस्य प्रथमचरणं पूर्णम्
हैदराबाद के नेशनल पुलिस अकादमी में पासिंग आउट परेड


हैदराबादम्, १७ अक्टोबरमासः (हि.स.)। भारतीय-आरक्षक-सेवायाः ७८तमस्य समूहस्य परिवीक्षाधिकारिणां समापन-सञ्चलनम् शनिवासरे हैदराबादनगरे स्थितायां सरदारवल्लभभाईपटेल-राष्ट्रिय-आरक्षक-अकादम्यां सम्पन्नम्। अनेन सह तेषां आधारभूतप्रशिक्षणस्य प्रथमचरणं पूर्णम् अभवत्।

केन्द्रीयगृहमन्त्रालयस्य सचिवः गोविन्द-मोहनः दीक्षान्त-सञ्चलनस्य मुख्यातिथिः आसीत्। तेन सञ्चलनस्य निरीक्षणमपि कृतम्। अकादम्यां समग्रतया १५१ अधिकारि-प्रशिक्षुभिः प्रशिक्षणस्य प्रथम-चरणं पूर्णम्। तेषु १३५ भारतीय-आरक्षक-सेवायाः परिवीक्षाधिकारिणः तथा नेपाल-भूटान-मालदीवदेशेभ्यः आगताः १६ विदेशीयाः अधिकारि-प्रशिक्षवः च अन्तर्भवन्ति।

परिवीक्षाधिकारिभिः पुलिसकार्यप्रणाल्यां, आपराधिकान्वेषणे, न्यायवैज्ञानिकविज्ञाने, आन्तरिकसुरक्षायाम्, लोकव्यवस्थायां, अपराधविज्ञाने, आरक्षकप्रबन्धने, मानवा-धिकारविषये तथा नूतनानां आपराधिक-विधानानां कार्यान्वयने च गहनं प्रशिक्षणं प्राप्तम्।

प्रशिक्षणकार्यक्रमे विधिप्रवर्तनस्य क्षेत्रे उद्भवमानानाम् आधुनिकानां समस्यानां विषये अपि विशेषं ध्यानं दत्तम्। एतासु साइबर-अपराधाः, क्रिप्टोमुद्राभिः सम्बद्धाः वञ्चनाप्रकरणानि, डार्कनेट्-सञ्चालनम्, वित्तीयापराधाः, मादकद्रव्याणां तस्करी, कृत्रिमबुद्धिमत्ता तथा मानवरहितविमानैः सम्बद्धाः सम्भाविताः संकटाः च अन्तर्भवन्ति।

प्रशिक्षुभ्यः व्यावहारिकानुभवप्रदानाय तेलङ्गानाराज्यस्य ग्रेहाउण्ड्स्-दलम्, भारत-तिब्बत-सीमा-आरक्षक-बलम्, सीमासुरक्षाबलम् इत्यादिभिः विशिष्टैः आरक्षक-सुरक्षासङ्गठनैः सह प्रशिक्षणस्य अवसरः प्रदत्तः। तेभिः जनसमूहप्रबन्धने, निर्वाचनकर्तव्यनिर्वहणे तथा प्रमुखेषु सार्वजनिककार्यक्रमेषु सुरक्षाव्यवस्था-सम्बद्धेषु क्षेत्रीयाभ्यासेषु अपि भागः गृहीतः।

Hindusthan Samachar / Divya Ranjan