Enter your Email Address to subscribe to our newsletters

राञ्ची, १७ अक्टोबरमासः (हि.स.)। विजयादशम्याः अवसरे शालीमार-बाजार इत्यस्य समीपे स्थिते एचईसी-क्रीडाङ्गणे भव्यः रावणदहनसमारोहः आयोजयिष्यते। विजयादशमी-रावणदहनसमारोहसमित्या आयोजिते अस्मिन् कार्यक्रमे मन्त्रिणी शिल्पी नेहा तिर्की मुख्यातिथिरूपेण सम्मिलिता भविष्यति।
समितेः मुख्यसंरक्षकः आलोककुमारदूबे इत्यनेन एषा सूचना प्रदत्ता। सः अवदत् यत् समितेः पदाधिकारिणः शनिवासरे मन्त्रिणीं शिल्पी नेहा तिर्कीं मिलित्वा समारोहस्य सहभागितायै ताम् आमन्त्रितवन्तः।
समारोहस्य मुख्यातिथिः मन्त्रिणी शिल्पी नेहा तिर्की भविष्यति, यदा तु विधायक-दलस्य उपनेता राजेश कच्छपः कार्यक्रमस्य उद्घाटनं करिष्यति। पूर्व-केन्द्रीयमन्त्री सुबोधकान्तसहायः विशिष्टातिथिरूपेण भागं ग्रहीष्यति। आलोकदूबे इत्यनेन उक्तं यत् रावणदहनं दुष्टतायाः उपरि सत्प्रवृत्तेः, असत्यस्य उपरि सत्यस्य, अहङ्कारस्य उपरि सदाचारस्य च विजयस्य प्रतीकम् अस्ति। अस्य उद्देश्यं नववंशं भारतीयसंस्कृत्या नैतिकमूल्यैः च सह सम्बद्धां कर्तुम् अस्ति।
आयोजकैः उक्तं यत् रावणस्य पुत्तलिकाया: निर्माणकार्यं प्रचलति। श्रद्धालूनां सुविधार्थं शौचालयानां, स्वच्छतायाः सुरक्षा-व्यवस्थायाः च प्रबन्धाः क्रियन्ते। नगर-निगमस्य प्रशासकस्य सुशान्त-गौरवस्य नेतृत्वे स्वच्छताकार्यं क्रियते तथा हटिया-उप-आरक्षकाधीक्षकस्य निरीक्षणे सुरक्षा-व्यवस्था क्रियते। समित्या जनाः समारोहस्य सहभागितायै आमन्त्रिताः।
Hindusthan Samachar / Divya Ranjan