Enter your Email Address to subscribe to our newsletters


भोपालम्, १७ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः शनिवासरे आन्ध्रप्रदेशस्य अमरावतीनगरे ‘आन्ध्रप्रदेश-राजधानी-क्षेत्र-विकास-प्राधिकरणस्य’ अधिकारिभिः सह सभाम् अकरोत्। तेन अधिकारिभिः सह सुनियोजितनगरीकरणस्य, आधुनिक-मूलभूतसुविधानां विस्तारस्य तथा विकासपरियोजनानां कार्यान्वयन-सम्ब-द्धानां विविधविषयाणां चर्चा कृता।
मुख्यमन्त्रिणा डॉ. यादवेन पूर्णतया अङ्कीयां, स्मार्ट्-प्रौद्योगिक्याधारितां पर्यावरणानुकूलां च एकीकृत-नगर-वसतिपरियोजनायाः अवलोकनं कृत्वा तस्याः प्रमुखविशेषतानां विकास-योजनानां च विषये सूचनाः प्राप्ताः। तेन मध्यप्रदेशे इन्दौर-उज्जयिनी-नगरयोः तथा भोपाल-महानगरीयपरियोजनायाः कृते कृतानाम् उपक्रमाणाम् उल्लेखः कृतः। भविष्ये जबलपुर-ग्वालियर-नगरयोः कृते सज्जीक्रियमाणानां योजनानां विषये अपि सः अवदत्।
विजयवाडायां उद्योगपतिभिः निवेशकैश्च सह चर्चा
आन्ध्रप्रदेशप्रवासस्य अवधौ मुख्यमन्त्रिणा शनिवासरे विजयवाडानगरे मध्यप्रदेशे निवेशस्य नूतनावसरान् औद्योगिक-सहयोगं च प्रोत्साहयितुं प्रमुखैः उद्योगपतिभिः निवेशकैश्च सह पृथक्-पृथक् चर्चा कृता।
सभासु तेन निवेशकैः उद्योगपतिभिश्च सह मध्यप्रदेशे विद्यमानानां व्यापकनिवेश-सम्भावनानाम्, अनुकूलस्य औद्योगिक-वातावरणस्य तथा उद्योगान् प्रोत्साहयितुं राज्यसर्वकारेण प्रवर्तितानां विविधानाम् उद्योगहितकारीनीतीनां विषये सूचनाः सहभागी कृताः।
Hindusthan Samachar / Divya Ranjan