Enter your Email Address to subscribe to our newsletters



— मुख्यमन्त्रिणा राज्ये निवेशप्रोत्साहनाय प्रवर्तितानां नीतिनां सूचना प्रदत्ता, जीआईएस् २०२७ इत्यस्मिन् सम्मिलितुं निमन्त्रणं च दत्तम्
भोपालम्, १७ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः आन्ध्रप्रदेशस्य निवेशकान् मध्यप्रदेशे उद्योगस्थापनाय आमन्त्रयन् अवदत् यत् मध्यप्रदेशसर्वकारस्य औद्योगिकविकास-प्रोत्साहकनीतिनां कारणेन निवेशकैः कृतः निवेशः सर्वासु परिस्थितिषु लाभप्रदः भविष्यति।
मुख्यमन्त्री डॉ. यादवः शनिवासरे आन्ध्रप्रदेशस्य विजयवाडानगरे निवेशकैः सह चर्चां कुर्वन् आसीत्। अस्मिन् अवसरे तेन निवेशस्य नूतनावसराणां तथा औद्योगिकसहभागितां प्रोत्साहयितुं क्रियमाणानां प्रयासानां विषये निवेशकाः सूचिताः।
उद्योगपतिभिः सह पृथक्-पृथक् चर्चायां तेन उक्तं यत् मध्यप्रदेशे विद्यमानानां व्यापकनिवेशसम्भावनानाम् अनुकूलस्य औद्योगिकवातावरणस्य च लाभः सर्वैः प्राप्यते। राज्यसर्वकारेण निवेशप्रोत्साहनाय प्रवर्तिताः २५ सरलीकृतनीतयः विभिन्नेषु क्षेत्रेषु निवेशम् आकर्षयितुं सहायकाः भवन्ति। मध्यप्रदेशस्य धारजनपदे पीएम-मित्र-पार्कस्य तथा ग्वालियरनगरे दूरसञ्चार-उपकरणनिर्माण-एककस्य स्थापनायै महत्त्वपूर्णः निवेशः अधुना कार्यान्वयनस्य दिशि अग्रे सरति। अद्यतनकाले जबलपुर-इन्दौरयोः मध्ये औद्योगिकमार्गिकायाः योजना सज्जीकृता। एषा मार्गिका प्रदेशस्य विशालस्य भूभागस्य अर्थव्यवस्थायां सकारात्मकं परिवर्तनम् आनेतुं समर्था भविष्यति।
मुख्यमन्त्री डॉ. यादवः विजयवाडानगरे दक्षिणभारतस्य प्रसिद्धेन अभिनेत्रा विजयदेवरकोण्डेन अभिनेत्र्या रश्मिका-मन्दानया च सह अपि मिलितवान्। मुख्यमन्त्रिणा ताभ्यां सूचितं यत् मध्यप्रदेशः चलचित्रनिर्माणस्य चित्र-ग्रहणस्य च क्षेत्रे देशस्य प्रमुखकेन्द्ररूपेण उद्भवति। प्रदेशस्य चलचित्रानुकूलनीतयः चलचित्रनिर्मातॄन् आकर्षयितुं सफलाः अभवन्।
मुख्यमन्त्रिणा निवेशकान् जीआईएस् २०२७ इत्यस्य आयोजनाय निमन्त्रितवन्तः तथा आयोजनस्य रूपरेखायाः विषये सूचनाः प्रदत्ताः। अस्मिन् आयोजने भोपालनगरे विभिन्नक्षेत्राणां प्रमुखाः उद्योगपतयः निवेशकाश्च एकत्र समागमिष्यन्ति। तेन उक्तं यत् २०२५ तमे वर्षे भोपालनगरे आयोजितायां वैश्विक-निवेशकशिखरसभावां ३० लक्षकोटि-रूप्यकाणां निवेशप्रस्तावाः प्राप्ताः आसन्। एतेषु प्रस्तावेषु एकतृतीयांशः प्रस्तावाः कार्यरूपेण परिणताः सन्ति। एषा महती उपलब्धिः अस्ति।
निवेशकैः सह पृथक्-पृथक् चर्चा
वस्त्रनिर्माणक्षेत्रे निवेशस्य सम्भावनानां विषये मुख्यमन्त्रिणा डॉ. यादवेन मोहन-स्पिनटेक्स-इण्डिया-लिमिटेड् इत्यस्य संस्थापकेन प्रबन्धनिदेशकेन वी. सुधाकरचौधरिणा तथा अनन्तलक्ष्मी-स्पिनिङ्ग्-मिल्स इत्यस्य अध्यक्षेण सामिनेनि कोटेश्वररावेन च सह साक्षात्कार: कृत:। मुख्यमन्त्रिणा उभौ उद्योगपतिः धारजनपदे स्थिते पीएम-मित्र-पार्क इत्यत्र तथा प्रदेशस्य कपासो-त्पादकक्षेत्रेषु औद्योगिकैककानां स्थापनायै आमन्त्रितौ। चर्चायां सूतयन्त्राणां, गृहवस्त्रनिर्माणस्य, वस्त्रवयनस्य तथा प्रसंस्करणैककानां स्थापनायै प्रदेशे उपलब्धानाम् अवसराणां विषये विचारविनिमयः अभवत्। वी. सुधाकरचौधरिणा सह कृभको-संस्थायाः अध्यक्षरूपेण जैविक-उर्वरकाणां, कृषि-निवेशसामग्रीणां तथा कृषिसम्बद्ध-परिवहनव्यवस्थायां निवेशसम्भावनानां विषये अपि चर्चा कृता।
कृषिक्षेत्रे खाद्यप्रसंस्करणक्षेत्रे च तेन तेनाली-डबल-हॉर्स इत्यस्य प्रबन्ध-निदेशकेन मोहनश्यामप्रसादेन सह प्रदेशस्य दलहनोत्पादकक्षेत्राणां समीपे दालमिल-स्थापनस्य सम्भावनानां विषये चर्चा कृता। कान्टिनेन्टल-कॉफी इत्यस्य महाप्रबन्धकेन मीनवल्लीबलरामेन सह उत्तरमध्यभारतयोः विपण्योः आपूर्त्यर्थं मध्यप्रदेशे काफीमिश्रणस्य, पुटीकरणस्य वितरणकेन्द्रस्य च विकासविषये विचारविनिमयः अभवत्।
अभियान्त्रिकीक्षेत्रे क्रिस्टना-इञ्जि-नियरिङ्ग्-वर्क्स इत्यस्य सञ्चालकेन बी. राजाशेखरेण सह प्रदेशस्य सिमेण्ट्, खनन तथा विद्युत्-उत्पादनक्षेत्राणां औद्योगिकाव-श्यकतानां विषये चर्चा कृता। एतेषाम् उद्योगानां समीपे धात्वाकारनिर्माणस्य, यन्त्रभागनिर्माणस्य, कलपुर्जानिर्माणस्य तथा सेवाकेन्द्राणां स्थापनायाः सम्भा-वनानां विषये विचारः कृतः। रामकोर-समूहस्य अध्यक्षेन के.वी.एस. प्रकाशरावेन सह प्रदेशे वाणिज्यिकवाहनानां हलयन्त्र-यानानां च विक्रयजालस्य विस्तारस्य तथा वाहनसेवाक्षेत्रे कौशलविकासस्य विषये चर्चा अभवत्।
सिंहस्थस्य २०२८ तमस्य वर्षस्य दृष्ट्या पर्यटन-आतिथ्यक्षेत्रे निवेशः
सिंहस्थस्य २०२८ तमस्य वर्षस्य दृष्ट्या पर्यटनस्य आतिथ्यक्षेत्रस्य च निवेश-सम्भावनानां विषये फॉर्च्यून-मुरली-समूहस्य प्रबन्धनिदेशकेन मुत्तवरपु-मुरली इत्यनेन सह संवादः अभवत्। मुख्यमन्त्रिणा उज्जयिनी-इन्दौर-ओङ्कारेश्वरनगरेषु होटेलव्यवसायस्य पर्यटनसुविधानां च विकाससम्भावनानां विषये चर्चा कृता।
मुख्यमन्त्रिणा आधारभूतसंरचनायाः नवीकरणीय-ऊर्जाक्षेत्रस्य च प्रमुखैः उद्योगप्रतिनिधिभिः सह अपि साक्षात्कार: कृत:। ऋत्विक्-प्रोजेक्ट्स्-प्राइवेट्-लिमिटेड् इत्यस्य प्रवर्तकेन लोक-सभासदस्येन डॉ. सी.एम. रमेशेन तथा कम्पन्याः कार्यकारीनिदेशकेन सी.एम. राजेशेन सह प्रदेशे निवेश-सम्भावनानां विषये चर्चा अभवत्। एषा निर्माणी आधारभूतसंरचनाविकासे, अभियान्त्रिकी-निर्माणकार्ये, सिञ्चने, सेतुबन्धनिर्माणे तथा नवीकरणीय-ऊर्जाक्षेत्रे कार्यं करोति।
बोण्डाडा-समूहस्य अध्यक्षेन प्रबन्ध-निदेशकेन डॉ. बोण्डाडा राघवेन्द्ररावेन सह अपि प्रदेशे निवेशावसराणां विषये विचारविनिमयः अभवत्। अयं समूहः नवीकरणीय-ऊर्जायां, सौरपरियोजनासु, दूरसञ्चारक्षेत्रे तथा रेलमार्गाधारभूत-संरचनायां कार्यं करोति। नवयुग-इञ्जिनियरिङ्ग्-कम्पनी-लिमिटेड् इत्यस्य प्रवर्तकेन सञ्चालकेन सी. गोविन्दविश्वेशेन सह आधारभूत-संरचनायाः नवीकरणीय-ऊर्जाक्षेत्रस्य च सम्भावनानां विषये चर्चा कृता। सीवीआर-समूहेन सम्बद्धे नवयुग-इञ्जिनियरिङ्ग् तथा चिन्ता-ग्रीन-एनर्जी इत्येते कम्पन्यौ सेतुनिर्माणे, सुरङ्ग-निर्माणे, बन्दरगाह-विकासे, सिञ्चने, सौरऊर्जायां, विद्युत्सञ्चयार्थं बैटरी-प्रौद्योगिक्यां तथा पम्प्ड्-स्टोरेज-परियोजनासु च सक्रिये स्तः।
खाडीदेशेभ्यः निवेशकैः सह सम्पर्कं वर्धयितुं दुबईस्थितस्य आईडीएफआईसी-संस्थायाः मुख्यकार्यपालनाधिकारिणा एस.एस. राजुना सह चर्चा कृता। अस्यां चर्चायां खाडीदेशेभ्यः प्रवासिभारतीयेभ्यश्च प्राप्तं निवेशं प्रदेशस्य औद्योगिकक्षेत्रैः सह संयोजयितुं सम्भावनानां विषये विचारः कृतः। इन्टरनेशनल्-स्टार्टअप्-फाउण्डेशन, मिडिल्-ईस्ट् इत्यस्य अध्यक्षेन रावुरि एस. रावेन सह मध्यप्रदेशस्य नवोद्यमान् खाडीदेशानां निवेशकैः विपणिभिश्च सह संयोजयितुं विषये संवादः अभवत्।
मुख्यमन्त्री डॉ. यादवः आन्ध्रप्रदेश-चेम्बर्स-ऑफ-कॉमर्स-एण्ड-इण्डस्ट्री-फेडरेशन इत्यस्य अध्यक्षेन पोतलूरिभास्कररावेन सह अपि साक्षात्कारं कृतवान्। तेन रावः भोपालनगरे आयोज्यमानायां वैश्विक-निवेशकशिखरसभावां २०२७ इत्यस्यां व्यापारिकप्रतिनिधिमण्डलेन सह भागं ग्रहीतुं निमन्त्रितः। मुख्यमन्त्रिणा आन्ध्र-प्रदेशस्य उपमुख्यमन्त्रिणा पवनकल्याणेन सह अपि साक्षात्कार: कृत:।
अस्याः यात्रायाः पूर्वं मुख्यमन्त्री डॉ. यादवः आन्ध्रप्रदेशस्य गन्नवरमस्थिते विजय-वाडा-अन्ताराष्ट्रिय-विमानपत्तने प्राप्तः। तत्र जनप्रतिनिधिभिः पुष्पगुच्छैः तस्य स्वागतं कृतम्।
Hindusthan Samachar / Divya Ranjan