डिजिटलयुगेन सह पदं मिलयन् डाकविभागः, नागरिकेभ्यः आधुनिकसुविधाः प्राप्यन्ते - सिन्धिया
— केन्द्रीयमन्त्रिणा सिन्धियेन अशोक-नगरस्य नवनिर्मितस्य प्रधानडाकघर-भवनस्य उद्घाटनं कृतम् भोपालम्, १७ अक्टोबरमासः (हि.स.)। केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्य-सिन्धिया अवदत् यत् डाकविभागः कालानुसारं निरन्तरं स्वं आधुनिकं करोति तथा डिजिटलयुगेन सह
अशोकनगर में प्रधान डाकभर के नवनिर्मित भवन का लोकार्पण करते हुए केन्द्रीय मंत्री सिंधिया


अशोकनगर जिले में ग्राम चौपाल में बैलगाड़ी पर सवार होकर जाते हुए केन्द्रीय मंत्री सिंधिया


अशोकनगर के चंदेरी में आमजन की समस्याएं सुनते हुए केन्द्रीय मंत्री सिंधिया


— केन्द्रीयमन्त्रिणा सिन्धियेन अशोक-नगरस्य नवनिर्मितस्य प्रधानडाकघर-भवनस्य उद्घाटनं कृतम्

भोपालम्, १७ अक्टोबरमासः (हि.स.)। केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्य-सिन्धिया अवदत् यत् डाकविभागः कालानुसारं निरन्तरं स्वं आधुनिकं करोति तथा डिजिटलयुगेन सह पदं मिलयन् नागरिकेभ्यः उत्तमाः सेवाः प्रददाति। अधुना डाकघराणि केवलं पत्राणाम् आदान-प्रदानस्य केन्द्राणि न, अपितु विविधडाक-सेवानां, वित्तीयसेवानां नागरिकसेवानां च महत्त्वपूर्णानि माध्यमानि भवन्ति।

केन्द्रीयमन्त्री सिन्धिया मध्यप्रदेशस्य अशोकनगरजनपदे त्रिदिवसीयप्रवासस्य द्वितीयदिने शनिवासरे प्रधानडाकघर-भवनस्य उद्घाटनसमारोहे सम्बोधनं कुर्वन् आसीत्। अस्मिन् अवसरे तेन भारतसर्वकारस्य डाकगृहाणाम् आधुनिकीकरणस्य महत्त्वाकाङ्क्षिण्याः योजनायाः अन्तर्गतं प्रायः २ कोटि ३५ लक्षरूप्यकाणां व्ययेन निर्मितस्य प्रधानडाकघरभवनस्य उद्घाटनं कृतम्। एतद्भवनं डाकसेवाः आधुनिकाः, सुविधाजनकाः नागरिककेन्द्रिताश्च कर्तुं निर्मितम् अस्ति।

सिन्धियः अवदत् यत् नवनिर्मितभवनस्य अभिकल्पना नवदिल्लीस्थस्य योजना-निर्माण-वास्तुकलामहा-विद्यालयस्य अभिकल्पनसम्बद्ध-निर्देशानाम् अनुरूपं कृता अस्ति। पुरातनभवनस्य स्थाने निर्मिते अस्मिन् आधुनिकपरिसरे अशोक-नगरस्य ऐतिहासिकं सांस्कृतिकं च परिचयं ध्याने निधाय आकर्षकं स्वरूपं प्रदत्तम् अस्ति तथा नागरिकसुविधाभ्यः प्राथमिकता दत्ता अस्ति। भवनस्य बाह्यं आन्तरिकं च स्वरूपम् आधुनिकं कृतम् अस्ति। अत्र ‘जनसेवा कनेक्ट्’ इति विषयाधारितस्य बहूद्देशीयस्य नागरिक-सुविधाकेन्द्रस्य परिकल्पना कृता अस्ति। अस्य माध्यमेन सामान्य-नागरिकेभ्यः डाकविभागस्य विविधाः सेवाः एकस्मिन् स्थाने उपलब्धाः कर्तुं प्रयासः कृतः अस्ति। एतत् केन्द्रं युवभ्यः, वरिष्ठनागरिकेभ्यः समाजस्य सर्वेभ्यः वर्गेभ्यश्च उपयोगी भविष्यति।

सः अवदत् यत् प्रधानडाकगृहस्य आधुनिकीकरणं केवलं भवनस्य नवनिर्माणे सौन्दर्यवर्धने च सीमितं नास्ति, अपितु तस्य आधुनिकजनसेवाकेन्द्ररूपेण विकासस्य प्रयासः अस्ति। अत्र उत्तमसेवावातावरणस्य आधुनिकसुविधानां च माध्यमेन नागरिकेभ्यः द्रुतडाकसेवा, बचतधनागारसेवा, डाकजीवनबीमा, आधारसेवा, पार्सलसेवा, पारपत्रसेवा इत्यादयः विविधाः डाकवित्तीयसेवाश्च अधिकसुविधाजनकरूपेण प्रदातुं लक्ष्यं निर्धारितम् अस्ति।

सिन्धियः अवदत् यत् नवनिर्मितेन प्रधानडाकघरभवनेन अशोकनगरस्य नागरिकेभ्यः आधुनिकसुविधाभिः सह डाकसेवानाम् उत्तमः अनुभवः प्राप्स्यते। एषः प्रयासः डाकविभागं परिवर्तमानकालस्य डिजिटलप्रौद्योगिक्याश्च अनुरूपं विकसितुं तथा सामान्यजनानां कृते सेवाः अधिकसुलभाः कर्तुं सहायकः भविष्यति।

ग्रामसभायां ग्रामीणैः सह सिन्धियस्य संवादः, उक्तं च—प्रधानमन्त्रिणः मोदी-महोदयस्य नेतृत्वे ग्रामाः सशक्ताः भवन्ति

अस्याः घटनायाः पूर्वं सिन्धिया अशोकनगरजनपदस्य चन्देरीविधान-सभाक्षेत्रान्तर्गते सेमरखेड़ीग्रामे आयो-जितायां ग्रामसभायां ग्रामीणैः, कृषकैः महिलाभिश्च सह सौहार्दपूर्णं संवादं कृतवान्। अस्मिन् अवसरे सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारस्य तथा मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे मध्यप्रदेशसर्वकारस्य जनकल्याण-कारिण्यः योजनाः अधुना ग्रामे ग्रामे प्राप्नुवन्ति। एताभिः योजनाभिः ग्रामीणानां, कृषकाणां, महिलानां निर्धनपरिवाराणां च जीवने सकारात्मकं परिवर्तनं भवति तथा ग्रामाः सशक्ताः स्वावलम्बिनश्च भवन्ति।

ग्रामसभायां केन्द्रीयमन्त्री सिन्धिया केन्द्रसर्वकारस्य राज्यसर्वकारस्य च विविधासु जनकल्याणकारीयोजनासु क्रियमाणस्य कार्यस्य विवरणं प्राप्तवान्। योजनानां लाभं प्राप्नुवद्भिः लाभार्थिभिः सह प्रत्यक्षं संवादं कृत्वा तेषाम् अनुभवान् अपि ज्ञातवान्। सर्वकारीययोजनाभिः ग्रामीणपरिवाराणां जीवने कीदृशानि परिवर्तनानि अभवन् तथा ते काः सुविधाः प्राप्नुवन्ति इति ज्ञातुं सः प्रयासं कृतवान्।

ग्रामीणैः सह संवादं कुर्वन् सिन्धियः योजनानां लाभं पात्रलाभार्थिभ्यः प्रदातुं विकासप्रक्रियायां जनसहभागितां सुनिश्चितुं च महत्त्वं प्रतिपादितवान्। सः अवदत् यत् सर्वकारीययोजनानां वास्तविकं प्रयोजनं तदैव सिद्ध्यति, यदा तासां लाभः समाजस्य अन्तिम-व्यक्तिपर्यन्तं प्राप्नुयात् तथा प्रत्येकं परिवारस्य जीवने सकारात्मकं परिवर्तनं भवेत्।

वृषभशकटे आरुह्य कृषकस्य उत्साह-वर्धनम्

ग्रामसभायाः समये केन्द्रीयमन्त्रिणः सिन्धियस्य ग्रामीणजीवनेन सह आत्मीय-सम्बन्धः अपि दृष्टः। सः एकस्य कृषकस्य उत्साहवर्धनं कुर्वन् अलङ्कृत-वृषभशकटे आरूढवान्। वर्णवर्णयुक्ताम् उष्णीषं धृत्वा सिन्धिया वृषभशकटे स्थित्वा ग्रामीणान् अभिवादयन् दृष्टः। तस्य सहजेन आत्मीयेन च व्यवहारेण ग्रामीणानां मध्ये उत्साहस्य वातावरणं निर्मितम्। अस्मिन् अवसरे बहुसङ्ख्यकाः ग्रामीणाः, दलस्य कार्यकर्तारः समर्थकाश्च उपस्थिताः आसन्।

ग्रामसभायाः समये केन्द्रीयमन्त्री सिन्धिया महिलाभिः, कृषकैः अन्यैः ग्रामीणैश्च सह संवादं कृत्वा तेषाम् आवश्यकताः, समस्याः अपेक्षाश्च ज्ञातवान्। केन्द्रसर्वकारस्य राज्यसर्वकारस्य च योजनाभिः ते कथं लाभान्विताः अभवन् तथा ग्रामीणक्षेत्रेषु आधारभूतसुविधानां जनकल्याणकारी-कार्यक्रमाणां च प्रभावः कथं दृश्यते इत्यपि सः लाभार्थिभ्यः अपृच्छत्। ग्रामसभायाः माध्यमेन केन्द्रीयमन्त्री ग्रामीणैः सह प्रत्यक्षं संवादं संस्थाप्य विकासकार्याणां जनकल्याण-कारीयोजनानां च वास्तविकस्थितिं ज्ञातवान्।

चन्देरीस्थायां किलाकोठी इत्यत्र सामान्यजनानां समस्याः श्रुतवान्

केन्द्रीयमन्त्री ज्योतिरादित्यसिन्धियः शनिवासरे चन्देरीस्थायां किलाकोठ्यां सामान्यजनैः सह संवादं कृत्वा तेषां समस्याः श्रुतवान्। कार्यक्रमे विभिन्नेभ्यः क्षेत्रेभ्यः आगताः नागरिकाः स्वसमस्यानां आवश्यकतानां च सम्बन्धिनः आवेदन-पत्राणि प्रस्तुतवन्तः।

सः प्राप्तेषु आवेदनपत्रेषु परिवादेषु च सम्बन्धितविभागानाम् अधिकारिभ्यः आवश्यककार्यवाहीं कृत्वा निर्धारितसमये समस्याः समाधातुं निर्देशान् दत्तवान्। सः अधिकारिभ्यः अवदत् यत् ते सामान्य-जनानां समस्याः प्रति संवेदनशीलतया कार्यं कुर्वन्तु तथा पात्रलाभार्थिभ्यः शासनस्य जनकल्याणकारीयोजनानां लाभं प्रदातुं प्रभाविणः प्रयासान् कुर्वन्तु।

Hindusthan Samachar / Divya Ranjan