Enter your Email Address to subscribe to our newsletters


पाटलिपुत्रम्, १७ अक्टोबरमासः (हि.स.)। पटनानगरस्य कुम्हरारविधानसभाक्षेत्रस्य नागरिकाणां समस्यानां शीघ्रसमाधानाय जनहितसम्बद्धानां विषयाणां प्रभाविणे निवारणाय च शनिवासरे ‘कुम्हरार-सेवा-सहायतापोर्टलम्—भवतः विधायकः भवता सह सदैव समर्पितः’ इत्यस्य लोकार्पणं कृतम्। राजेन्द्रनगरस्थे गणपति-उत्सव-सभागारे आयोजिते कार्यक्रमे भारतीय-जनतापार्टी इत्यस्य राष्ट्रियाध्यक्षः नितिननवीनः पटलस्य शुभारम्भम् अकरोत्।
अस्मिन् अवसरे भाजपायाः बिहार-प्रदेशाध्यक्षः सञ्जयसरावगी, कुम्हरार-विधायकः सञ्जयगुप्तः इत्यनेन सह दलस्य अनेके वरिष्ठनेतारः गणमान्य-जनाश्च उपस्थिताः आसन्।
अस्य पोर्टलस्य उद्देश्यम् विधानसभाक्षेत्रस्य नागरिकाणां समस्याः सम्बन्धित-विभागेभ्यः अधिकारिभ्यश्च प्रापयितुं तासां समाधानप्रक्रियां च सरलां, सुगमां प्रभाविणीं च कर्तुम् अस्ति। अस्य माध्यमेन सामान्यनागरिकाः स्वसमस्याः जनहित-सम्बद्धान् विषयांश्च अङ्कीयमञ्चे प्रस्तुतुं शक्ष्यन्ति। एषा पहलः जनतायाः जनप्रतिनिधीनां च मध्ये संवादं सुदृढं कर्तुं तथा जनसमस्यानां निवारणप्रक्रियां अधिकं सुव्यवस्थितां कर्तुं च सहायकः भविष्यति।
कार्यक्रमं सम्बोधयन् भाजपायाः प्रदेशाध्यक्षः सञ्जयसरावगी अस्य प्रयत्नस्य प्रशंसाम् अकरोत्। सः अवदत् यत् भाजपा जनसेवायै जनसमस्यानां समाधानाय च निरन्तरं कार्यं कुर्वती पार्टी अस्ति। जनानां कठिनताः दूरीकर्तुं तेषाम् आवश्यकतानुसारं व्यवस्थां प्रभाविणीं कर्तुं च दलस्य कार्यसंस्कृतेः अभिन्नः भागः अस्ति। कुम्हरार-सेवा-सहायतापटलम् अस्याः एव विचारधारायाः परिणामः अस्ति, यत् सामान्यनागरिकेभ्यः स्वविचारान् समस्याश्च प्रस्तुतुं सुलभं माध्यमं प्रदास्यति।
सरावगी अवदत् यत् प्रौद्योगिक्याः उपयोगः तदैव सार्थकः भवति, यदा तस्य लाभः समाजस्य अन्तिमव्यक्तिपर्यन्तं प्राप्नोति। अङ्कीयमाध्यमेन जनसमस्यानां सम्बन्धिताधिकारिभ्यः प्रेषणस्य एष: प्रयत्न: जनप्रतिनिधीनाम् उत्तरदायित्वं सुदृढं कर्तुं जनतया सह उत्तमसमन्वयं स्थापयितुं च महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति। सः एतां जनसेवादिशि सकारात्मकं पदक्षेपम् अवदत्।
सञ्जयसरावगी उक्तवान् यत् भाजपायाः लक्ष्यं केवलं विकासयोजनानां प्रगतिः न, अपितु जनानां समस्याः श्रुत्वा तासां समाधानाय प्रभाविणः प्रयासान् कर्तुम् अपि अस्ति। जनानां विश्वासेन सहयोगेन च जनकल्याणकारीप्रयासाः सुदृढाः भवन्ति।
कुम्हरारविधायकः सञ्जयगुप्तः अस्मिन् अवसरे अवदत् यत् पोर्टलस्य प्रारम्भस्य मुख्योद्देश्यं क्षेत्रस्य नागरिकाणां समस्याः सम्बन्धिताधिकारिभ्यः प्रापयितुं, जन-हितस्य विषयान् प्राथमिकतया स्वीकर्तुं तथा तेषां समाधानप्रक्रियां सुगमां कर्तुम् अस्ति। सः उक्तवान् यत् सः कुम्हरारक्षेत्रस्य जनानां सेवायै सदैव समर्पितः भविष्यति। एतत् पटलम् जनतायाः तस्य च मध्ये सम्पर्कस्य प्रभावीमाध्यमं भविष्यति।
कार्यक्रमे पद्मश्री-पुरस्कारप्राप्तः डॉ. आर.एन.सिंहः, पद्मश्री-पुरस्कारप्राप्ता डॉ. शान्तिरायः, भाजपायाः प्रदेशोपाध्यक्षा अनामिकापासवानः, पटनामहानगराध्यक्षः रूपनारायणकुशवाहः, प्रदेशमीडियाप्रभारी दानिशइकबालः, प्रदेशसहमीडियाप्रभारी अमितप्रकाशबबलू इत्यादयः दलस्य अनेकाः पदाधिकारिणः, वार्डपार्षदाः बहुसङ्ख्यकाः कार्यकर्तारश्च उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनम् अजयमिश्रेण कृतम्।
Hindusthan Samachar / Divya Ranjan