एकस्थान-सहायताकेन्द्रैः महिलानां जीवनं सम्यक् भवति, आत्मनिर्भरतायाः मार्गे अग्रे सरन्ति बालिकाः
लखनऊ, १७ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशे महिलानां सुरक्षां सशक्तीकरणं च सुदृढं कर्तुं सञ्चालितानि एकस्थान-सहायताकेन्द्राणि सङ्कटग्रस्ताभ्यः महिलाभ्यः सुरक्षां, परामर्शं पुनर्वाससुविधां च प्रददति। लखनऊनगरस्य तिसृणां महिलानां जीवनकथाः अस्याः योजनाय
योगी आदित्यनाथ


लखनऊ, १७ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशे महिलानां सुरक्षां सशक्तीकरणं च सुदृढं कर्तुं सञ्चालितानि एकस्थान-सहायताकेन्द्राणि सङ्कटग्रस्ताभ्यः महिलाभ्यः सुरक्षां, परामर्शं पुनर्वाससुविधां च प्रददति। लखनऊनगरस्य तिसृणां महिलानां जीवनकथाः अस्याः योजनायाः सकारात्मकं प्रभावं दर्शयन्ति। पारिवारिकप्रतिबन्धानां सामना कुर्वती एका युवती परामर्शानन्तरं स्वाध्ययनं निरन्तरम् अकरोत्। अधुना सा उच्चपदे कार्यं कुर्वती स्वदायित्वं निर्वहति। अन्यया शोषणपीडितया बालिकया कठिन-परिस्थितिभ्यः बहिः आगत्य प्रतिष्ठिते होटल इत्यत्र कार्यं प्राप्तम्। गृहप्रताडनया प्रभाविता अन्यापि महिला शिक्षायाः रोजगारस्य च साहाय्येन आत्मनिर्भर-जीवनस्य दिशि अग्रे सरति।

महिलाकल्याणविभागस्य निदेशिका सी. इन्दुमती अवदत् यत् लखनऊनगरस्य ३१ वर्षीयया युवत्या एकस्थान-सहायता-केन्द्राय ई-पत्रं प्रेष्य सूचितम् आसीत् यत् तस्याः परिजनाः उच्चशिक्षां प्रतियोगी-परीक्षाणां सज्जतां च कर्तुं तां निवारयन्ति स्म। पारिवारिकचिन्ताया: मध्ये केन्द्रस्य दलं तस्याः गृहम् अगच्छत् तथा परिजनैः सह चर्चाम् अकरोत्। ततः सुरक्षिते गोपनीये च वातावरणे परामर्शः प्रदत्तः। केन्द्रस्य दलस्य प्रबोधनेन परिवारः युवत्यै अध्ययनं निरन्तरं कर्तुं स्वातन्त्र्यम् अददात्। केन्द्रे प्राप्तेन परामर्शेन युवती कठिनपरिस्थितिभ्यः बहिः आगत्य अग्रे गन्तुं साहसम् अलभत। सा स्वाध्ययनं सम्पूर्णम् अकरोत् तथा अधुना प्रतिष्ठिते पदे कार्यं कुर्वती अन्यासां कृते प्रेरणाम् आदर्शं च प्रस्तौति।

शोषणात् मुक्तिं प्राप्य होटल इत्यत्र स्वकीयं परिचयम् अरचयत्

लखनऊनगरस्य एका बालिका षोडशवर्षीया सती एकस्थान-सहायता-केन्द्रम् आगत्य बाल्यकालादेव पारिवारिकशोषणस्य शिकारत्वं स्वी-कृतवती। केन्द्रेण तस्यै परामर्शः संरक्षणं च प्रदत्तम् तथा विधिक-कार्यवाहीसम्बद्धे कार्ये सहयोगः कृतः। बालकल्याणसमितेः आदेशानुसारं सा राजकीयसंरक्षणे स्थापिता तथा तस्याः शिक्षा निरन्तरम् अभवत्। द्वादशकक्षायाः परीक्षा उत्तीर्य तस्यै बेङ्गलूरुनगरस्य इको-संस्थाने होटलप्रबन्धनस्य प्रशिक्षणं प्रदत्तम्। अधुना सा लखनऊस्थे होटल इत्यत्र कार्यं करोति।

गृहप्रताडनात् मुक्तिः, अधुना अध्ययनं रोजगारश्च

लखनऊनगरस्य अन्यया ३१ वर्षीयया महिलया अभियोगः कृतः यत् तस्याः पतिः तां बन्धने स्थापयित्वा शारीरिकं, मानसिकम् आर्थिकं च उत्पीडनं करोति। एकस्थान-सहायताकेन्द्रस्य दलं आरक्षकदलेन सह घटनास्थलम् अगच्छत् तथा महिलां सुरक्षिततया बहिः आनयत्। केन्द्रे द्वादशदिनात्मकस्य अस्थाय्याश्रयस्य अवधौ तस्याः परामर्शः कृतः। तस्याः विवाहसम्बद्धानि वस्तूनि प्रत्यर्पयितुं सुरक्षिततया मातृगृहं प्रापयितुं च सहायता कृता। अधुना सा स्वतन्त्रतया निवसन्ती अध्ययनं करोति, रोजगारं च प्राप्य आत्मनिर्भरजीवनं यापयति।

प्रदेशस्य ७५ जनपदेषु १२४ केन्द्राणि, ३.१८ लक्षप्रकरणेषु सहायता

महिलाकल्याणविभागस्य निदेशिका सी. इन्दुमती अवदत् यत् केन्द्रसर्वकारेण वित्तपोषितायाः एकस्थान-सहायताकेन्द्र-योजनायाः अन्तर्गतं मुख्यमन्त्रिणः योगी आदित्यनाथस्य मार्गदर्शने उत्तरप्रदेशस्य सर्वेषु ७५ जनपदेषु १२४ केन्द्राणि सञ्चालितानि सन्ति। एतेषां माध्यमेन अधुना यावत् प्रायः ३,१८,५०० प्रकरणेषु महिलाभ्यः बालिकाभ्यश्च सहायता प्रदत्ता अस्ति। केन्द्रेषु अस्थाय्याश्रयः, चिकित्स-कीयसहायता, परामर्शः, विधिकसहायता तथा आरक्षकसहायता च उपलब्धा भवति।

Hindusthan Samachar / Divya Ranjan