Enter your Email Address to subscribe to our newsletters

कोलकाता, 17 अक्टूबरमासः (हि. स.)।
दक्षिणकोलकातायाः सदर्न एवेन्यू इति मार्गे स्थिते लेक कालीबाडीमन्दिरे प्रतिदिनं बहुसंख्यकाः श्रद्धालवः भगवत्याः कालीदेव्याः दर्शनार्थम् आगच्छन्ति। दुर्गापूजायाः महासप्तमीपर्वणि शनिवासरे पश्चिमबङ्गभाजपायाः प्रदेशाध्यक्षः सांसदश्च शमिक् भट्टाचार्यः मन्दिरं प्राप्य भगवत्याः कालीदेव्याः पूजनार्चनं कृतवान्।
लेक कालीबाडीमन्दिरस्य प्रमुखा आराध्यदेवता भगवती दक्षिणकाली अस्ति। भक्ताः तां करुणामयीमातृनाम्नापि जानन्ति। मन्दिरं प्राप्य शमिक् भट्टाचार्यः भगवत्याः आशीर्वादं प्राप्तवान्। अस्मिन्नवसरे मन्दिरस्य मुख्यसेवायतः निताईचन्द्रबसुः अपि उपस्थितः आसीत्। भाजपायाः प्रदेशाध्यक्षः सेवायतस्य हस्तेन देव्याः चरणयोः पुष्पाणि समर्पितवान्। सः भगवत्याः समीपे राज्यस्य उन्नतेः, शान्तेः, समृद्धेश्च कामनां कृतवान्।
तदनन्तरं शमिक् भट्टाचार्यः लेक कालीबाडीमन्दिरस्य उद्याने आयोजितं दुर्गापूजामण्डपम् अपि प्राप्तवान्। सः महासप्तमीपर्वणि आयोजितायाम् आरत्याम् भागं गृहीत्वा भगवत्याः दुर्गायाः आराधनां कृतवान्।
अस्मिन्नवसरे भाजपायाः प्रदेशाध्यक्षः आरोपितवान् यत् राज्ये पूर्वं दुर्गापूजायाः आयोजनं स्वतन्त्रतया कर्तुं न शक्यते स्म।
---------------
Hindusthan Samachar / Dheeraj Maithani