Enter your Email Address to subscribe to our newsletters

मुंबई, 17 अक्टूबरमासः (हि.स.)।
मनोरञ्जनजगतः प्रसिद्धाः कलाकाराः अधुना क्रिकेटक्रीडाङ्गणे अपि स्वप्रतिभां प्रदर्शयितुं सज्जाः सन्ति। सैल्यूट तिरङ्गा क्रिकेटलीग् (एसटीसीएल) इत्यस्य चषकस्य गणवेशस्य च अनावरणं शुक्रवासरे मुम्बईनगरे कृतम्।
अस्मिन् अवसरे भारतस्य पूर्वक्रिकेटक्रीडकः चेतनशर्मा, अन्ताराष्ट्रियमल्लयुद्धक्रीडकः लीगस्य च ब्राण्ड् प्रतिनिधिः सङ्ग्रामसिंहः, पूर्वक्रिकेटक्रीडकः अशोकमल्होत्रा, चलचित्रनिर्माता विनोदबच्चनः इत्यादयः क्रीडामनोरञ्जनजगतः बहवः प्रसिद्धाः व्यक्तयः उपस्थिताः आसन्।
अस्यां लीगायां अनेकाः अभिनेत्र्यः प्रसिद्धव्यक्तयश्च दलस्वामिनीरूपेण सम्बद्धाः सन्ति। पञ्जाबदलात् प्रब गेरेवालः, उत्तरप्रदेशदलात् नीलमगिरिः, मुम्बईदलात् अश्नूरकौरः, दिल्लीदलात् अलंकृतासहायः, तमिलनाडुदलात् स्टेफीपटेलः, राजस्थानदलात् कशिकाकपूरः, हरियाणादलात् सना सुल्तानः, गुजरातदलात् दिलजोत् च सम्बद्धाः सन्ति। एतेषां प्रसिद्धानां व्यक्तीनाम् उपस्थित्या लीगायाः मनोरञ्जनजगतः अपि सहकारिता प्राप्ता।
लीगस्य आयुक्तः चेतनशर्मा अवदत् यत् देशस्य लघुनगरेषु ग्रामेषु च क्रिकेटक्रीडायाः प्रतिभानां न्यूनता नास्ति, किन्तु आर्थिकसमस्यानाम् अवसराभावस्य च कारणेन बहवः क्रीडकाः अग्रे गन्तुं न शक्नुवन्ति। एसटीसीएल इत्यस्य उद्देश्यम् एतादृशेभ्यः क्रीडकेभ्यः स्वप्रतिभाप्रदर्शनाय मञ्चं प्रदातुम् अस्ति।
लीगस्य अध्यक्षः राजेशझा, उपाध्यक्षः रविचिकारः, निदेशकः मुकेशसिंहः, मार्गदर्शकः अशोकमल्होत्रा च अस्याः लीगायाः सह सम्बद्धाः सन्ति। आयोजकानाम् अनुसारं षोडशवर्षेभ्यः अधिकवयसः चयनितेभ्यः क्रीडकेभ्यः निःशुल्कावासः, भोजनम्, परिवहनम्, क्रीडाशुल्कम् इत्यादीनां सुविधानां प्रदानस्य योजना अस्ति। लीगस्य उद्देश्यं प्रतिभाशालिनः क्रीडकान् आर्थिकबाधाभ्यः मुक्तान् कृत्वा तेषां कृते उत्तमावसरान् प्रदातुम् अस्ति।
अधुना द्रष्टव्यम् अस्ति यत् प्रसिद्धव्यक्तिभिः समलङ्कृता एषा लीगा क्रिकेटक्रीडायाः नवप्रतिभान् कियत् उच्चस्तरं प्रति नेतुं समर्था भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani