Enter your Email Address to subscribe to our newsletters

उत्तरकाशी, १७ अक्टोबरमासः (हि.स.)। प्रारम्भिककक्षासु गणितशिक्षणं रुचिकरं दक्षताधारितं च कर्तुम् उद्दिश्य उत्तराखण्डस्य बडकोटस्थे जनपद-शिक्षा-प्रशिक्षण-संस्थाने पञ्चदिवसीया जनपदस्तरीय-गणितसन्दर्भसमूहस्य कार्यशाला आयोजिता। अस्यां कार्यशालायां जनपदस्य विभिन्नविकासखण्डेभ्यः आगताः ३३ शिक्षकाः प्रारम्भिकस्तरीयगणितीय-दक्षताधारितानां क्रियाकलापानां तेषाम् आकलनस्य च कृते शिक्षकमार्गदर्शिकायाः सज्जीकरणकार्ये भागं गृहीतवन्तः।
कार्यशालायाम् अजीमप्रेमजीप्रतिष्ठानस्य सन्दर्भदाता कमलेशगौडः राष्ट्रियशिक्षा-नीतेः, राष्ट्रियपाठ्यचर्या-रूपरेखाया:, प्रार-म्भिकस्तरीयदक्षतानां, पाठ्यचर्यालक्ष्याणां तथा अधिगमप्रति-फलानां च विषये विस्तृतचर्चां कृतवान्। अस्मिन् अवसरे शिक्षकाः दक्षताधारितानां विविधगणितीय-क्रिया-कलापानां निर्माणं कृतवन्तः। प्रस्तावितया शिक्षकमार्ग-दर्शिकया शिक्षकाः प्रारम्भिकस्तरीयदक्षताः पाठ्य-चर्यालक्ष्याणि च सम्यक् अवगन्तुं शक्नुयुः। अपि च, छात्राणां कृते क्रियाकलापानां तथा आकलन-सम्बद्धप्रश्नानां निर्माणे अपि एषा मार्गदर्शिका सहायकसिद्धा भविष्यति।
डायट-संस्थानस्य प्राचार्यः सञ्जयजोशी सर्वेभ्यः प्रतिभागिभ्यः कृतज्ञतां ज्ञापयन् दक्षताधारितस्य आकलनस्य महत्त्वं प्रतिपादितवान्। सः शिक्षकान् गणितीय-शिक्षणाधिगमसामग्रीणाम्, सम्पर्ककिटस्य, जादुईपिटारस्य च माध्यमेन विद्यालयेषु क्रियाकलापान् सञ्चालयितुं तथा छात्रान् क्रिया-कलापानाम् आकलनसम्बद्ध-प्रश्नानां च नियमिताभ्यासं कारयितुं च आहूतवान्।
कार्यशालायाः समन्वयिका बबिता-सजवाणः अवदत् यत् शिक्षकमार्गदर्शिका प्रारम्भिकस्तरे दक्षताधारितक्रिया-कलापानां सञ्चालनस्य तेषाम् आकलनस्य च अवबोधने शिक्षकाणां कृते उपयोगिनी सिद्धा भविष्यति। संस्थानस्य वरिष्ठप्रवक्ता डॉ. सुबोधबिष्टः गणितशिक्षणं रुचिकरं कर्तुं आवश्यकतायाः विषये बलं दत्त्वा कार्यशालाम् अस्मिन् दिशि महत्त्वपूर्णं प्रयासम् उक्तवान्।
अस्मिन् अवसरे संस्थानस्य प्रवक्तारः टीकारामरावतः, गोपालराणाः, शान्तिरतूडी इत्यादयः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan