केरलस्य अरुन्धती मुख्यमन्त्रिणं योगीम् स्वविवाहे आमन्त्रयितुं भावपूर्णं पत्रं लिखितवती
लखनऊ, १७ अक्टोबरमासः (हि.स.)। कदाचित् स्वनेत्रयोः अश्रूणि दुर्बलतायाः लक्षणानि इति मन्यमाना केरलस्य अरुन्धत्याः कृते मुख्यमन्त्रिणः योगी आदित्यनाथस्य एका शिक्षा जीवनदृष्टिं परिवर्तयितुं महत्त्वपूर्णा अभवत्। बाल्यकाले योगिनः एकं दृश्यश्रव्यचित्रं दृ
अरुंधती


लखनऊ, १७ अक्टोबरमासः (हि.स.)। कदाचित् स्वनेत्रयोः अश्रूणि दुर्बलतायाः लक्षणानि इति मन्यमाना केरलस्य अरुन्धत्याः कृते मुख्यमन्त्रिणः योगी आदित्यनाथस्य एका शिक्षा जीवनदृष्टिं परिवर्तयितुं महत्त्वपूर्णा अभवत्। बाल्यकाले योगिनः एकं दृश्यश्रव्यचित्रं दृष्ट्वा सा अवगच्छत् यत् भावुकता दुर्बलता नास्ति, अपितु स्वभावनानाम् अङ्गी-कारस्य साहसम् अस्ति। वर्षाणाम् अनन्तरम् अपि एषा शिक्षा तस्याः जीवनस्य अभिन्नः भागः अस्ति।

अधुना अरुन्धती विवाहेन स्वजीवनस्य नूतनाध्यायस्य आरम्भं कर्तुं गच्छति। अतः सा स्वप्रेरणास्रोतांसि मुख्यमन्त्रिणं योगी आदित्यनाथं हस्तलिखितेन द्विपृष्ठात्मक-पत्रेण आमन्त्रितवती। विवाहसमारोहे उपस्थितः भूत्वा नवदम्पत्योः आशीर्वादं दातुं च सा आग्रहं कृतवती। पत्रे विवाहस्य निमन्त्रणम् अस्ति, किन्तु ततोऽपि अधिकः योगिप्रति कृतज्ञतायाः भावः अभिव्यक्तः अस्ति।

अरुन्धती मुख्यमन्त्रिणं प्रेषिते पत्रे बाल्यकालस्य तां मानसिकस्थितिं वर्णितवती, यदा लघुलघुषु विषयेषु भावुकतया अश्रुपातः तस्यै स्वकीय-दुर्बलताम् इव प्रतिभाति स्म। तस्याः केचन मित्राणि ताम् अवबोधयन्ति स्म यत् सुदृढा भवितुं भावनानां नियन्त्रणम् आवश्यकम् अस्ति। शनैः शनैः तस्याः मनसि अपि एषः प्रश्नः उद्भूतः—किं सहजतया अश्रूणि पातयन् व्यक्तिः कदापि दृढः भवितुम् अर्हति? किं स्वभावनानां प्रकटीकरणं लज्जायाः विषयः अस्ति?

एतस्मिन्नेव काले तस्याः पितृव्यपुत्रः योगी आदित्यनाथस्य एकं दृश्यश्रव्यचित्रं तस्यै दर्शितवान्। तस्मिन् चित्रे योगी अत्यन्तं भावुकः दृश्यते स्म। तस्य पितृव्यपुत्रः ताम् अवदत्—योगिवत् भव, यः भावुकः सन् अपि अत्यन्तं दृढः अस्ति। एतेन अरुन्धत्याः चिन्तने नूतना दृष्टिः उत्पन्ना। अश्रवः कस्यचित् व्यक्तेः दुर्बलतायाः प्रमाणं न भवन्ति इति सा अवगन्तुं शक्नोति स्म। अस्य अनुभवस्य तस्याः मनसि विद्यमानस्य आन्तरिकद्वन्द्वस्य निवारणे महत्त्वपूर्णं योगदानम् अभवत्। यां भावुकतां सा स्वकीयां न्यूनतां मन्यते स्म, तामेव अधुना सहजमानवीयसंवेदन-शीलतारूपेण द्रष्टुम् आरब्धवती।

अरुन्धत्याः कृते अस्य अनुभवस्य महत्त्वं केवलं तस्मिन् क्षणे एव सीमितं नासीत्। सा अवगच्छत् यत् दृढतायाः अर्थः सर्वासु परिस्थितिषु भावनानां निगूहनं न, अपितु कठिनतानां सामना कुर्वन्त्याः आत्मविश्वासं रक्षित्वा अग्रे गमनम् अस्ति। पतनानन्तरं पुनः उत्थानं, समस्यानां मध्ये अग्रे गमनं तथा स्वदायित्वानां निर्वहणमेव वास्तविकं साहसम् अस्ति।

अरुन्धती पत्रे लिखितवती—“यदा यदा अहं स्वस्मिन् सन्देहं करोमि, तदा भवतः प्रेरणा माम् अग्रे गन्तुं प्रोत्साहयति।”

योगी आदित्यनाथं प्रति अरुन्धत्याः सम्मानं तस्य सार्वजनिकजीवनेन सह अपि सम्बद्धः अस्ति। तस्याः दृष्ट्या योगिनः जीवनयात्रा परिश्रमस्य, दृढनिश्चयस्य, निरन्तरप्रयत्नस्य च सन्देशं ददाति। एवं बाल्यकाले दृष्टात् एकस्मात् दृश्यश्रव्य-चित्रात् प्राप्ता शिक्षा अरुन्धत्याः आत्मविश्वासस्य आधारः अभवत्, यं सा अद्यापि स्वजीवने अनुभवति।

मुख्यमन्त्रिकार्यालयात् प्राप्तसूचना-नुसारम् अरुन्धत्याः राहुलस्य च विवाहः दिसम्बरमासस्य २० दिनाङ्के केरलस्य आलुवास्थिते ग्रीनपार्क-कन्वेन्शन-केन्द्रे भविष्यति। जीवनस्य अस्मिन् विशेषावसरे अरुन्धती मुख्यमन्त्रिणं योगी आदित्यनाथं विवाहसमारोहे सम्मिलितुं प्रार्थितवती। सा पत्रे लिखितवती—“मम कृते भवान् केवलं नेता नास्ति, अपितु ततोऽपि अधिकः अस्ति। अहं भवन्तं सदैव ज्येष्ठभ्रातृरूपेण दृष्टवती, यस्य जीवनयात्रा मह्यं साहसं प्रेरणां च दत्तवती।”

अरुन्धती पत्रे मुख्यमन्त्रिणः व्यस्ततायाः उल्लेखं कुर्वती एतदपि लिखितवती यत् यदि तस्य समारोहस्थले आगमनं सम्भवं न भवेत्, तर्हि तस्य शुभकामनासन्देशः आशीर्वादश्च अपि तस्यै अत्यन्तं मूल्यवान् भविष्यतः। योगिनः एकया शिक्षया तस्याः भावनानां दुर्बलतारूपेण न मननं, अपितु तासाम् अङ्गीकरणं कर्तुं शिक्षितवती इति सा कृतज्ञतां प्रकटितवती।

Hindusthan Samachar / Divya Ranjan