Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्, १७ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य फर्रुखाबादजनपदस्य विभि-न्नानां पर्यटनस्थलानां प्रचारप्रसाराय पर्यटनविभागः सामाजिकमाध्यमानाम् उपयोगं कुर्वन् अस्ति। शनिवासरे कलेक्ट्रेट-कार्यालयात् मुख्यविकासा-धिकारी विनोदकुमारगौडः सेवासङ्कल्पा-भियानस्य विश्वपर्यटनमासस्य च अन्तर्गतं सामाजिकमाध्यमप्रभावकानां, यूट्यूब-प्रयोक्तॄणां तथा ब्लॉग-लेखकानां दलं हरितध्वजं प्रदर्श्य आग्रानगरं प्रति प्रस्थापितवान्।
मुख्यविकासाधिकारी विनोदकुमारगौडः अवदत् यत् एतत् दलम् आग्रानगरस्य प्रमुखाणां धार्मिकाणां, ऐतिहासिकानां पुरातात्त्विकानां च स्थलानां भ्रमणं करिष्यति। तत्रत्यपर्यटनस्थलानां दर्शनं कृत्वा स्वानुभवान् सामाजिकमाध्यमानां माध्यमेन प्रसारयित्वा पर्यटनसम्बद्धाः सूचनाः अधिकाधिकजनानां यावत् प्रापयितुं शक्यन्ते। एतादृशैः कार्यक्रमैः पर्यटनविषये जनजागरूकता वर्धिष्यते। सः अवदत् यत् पर्यटनविभागस्य माध्यमेन भविष्येऽपि एतादृशाः भ्रमणकार्यक्रमाः आयोजयिष्यन्ते।
Hindusthan Samachar / Divya Ranjan