Enter your Email Address to subscribe to our newsletters

गिरिराज अग्रवालः
कृत्रिमबुद्धेः अमृतं सर्वे इच्छन्ति, किन्तु तस्याः विषप्रभावं निरोद्धुं कः प्रयतिष्यते?
कृत्रिमबुद्धेः जनकः इति प्रसिद्धः सङ्गणकवैज्ञानिकः जेफ्री हिंटनः सम्प्रति अत्यन्तम् चिन्तितः अस्ति। गूगल-संस्थायाः सेवां त्यक्त्वा सः कृत्रिमबुद्धेः सम्मुखीनानां परिस्थितीनां विषये मुक्तकण्ठेन वक्तुं प्रवृत्तः अस्ति।
जेफ्री हिंटनः न कोऽपि साधारणः वैज्ञानिकः, यं सहजतया उपेक्षितुं शक्यते। २०२४ तमे वर्षे तेन भौतिकविज्ञानस्य नोबेलपुरस्कारः प्राप्तः। सम्प्रति कृत्रिमबुद्धिः अस्माकं प्रश्नानाम् उत्तराणि यया बुद्धिप्रणाल्या ददाति, तस्याः आधारभूतस्य तन्त्रिका-जालस्य (न्यूरल् नेटवर्क्) विषये सः अनुसन्धानम् अकरोत्। अतः कृत्रिमबुद्धेः एतत् कृत्रिमं मस्तिष्कं किं किं कर्तुं शक्नोति, कुत्र कुत्र च संकटं जनयितुं शक्नोति इति सः सम्यक् जानाति।
कृत्रिमबुद्धेः प्रणाल्यः अत्यन्तं बुद्धिमत्यः अभवन्। ताः अधुना मानवीयबुद्धेः समकक्षेण स्तरेन कार्यं कर्तुं प्रवृत्ताः सन्ति। तर्कपूर्णविषयेषु विचारमात्रं न, अपितु चिन्तनमपि कुर्वन्ति। अधुना एतद्विषये चर्चा प्रचलति यत् किं तासु चेतना अपि समुत्पन्ना अस्ति? किं च तासु दुःखं, शोकः, निराशा, आशा इत्यादयः भावाः अपि जायन्ते?
कृत्रिमबुद्धेः वर्धमानवेगेन एतदनुमीयते यत् कतिपयेषु वर्षेषु एताः प्रणाल्यः इत्थं सुपरिबुद्धाः भविष्यन्ति यत् तासां तुलनायां मनुष्यः अत्यल्पबुद्धिमान् इव दृश्येत। यदि रोबोट्-प्रौद्योगिक्या सह संयुज्यमानाः कृत्रिमबुद्धियुक्ताः कर्मकराः अस्माकं विश्वविद्यालयेषु, चिकित्सालयेषु, अनुसन्धानसंस्थानेषु च व्यापकतया कार्यं कर्तुं प्रवर्तेरन्, तर्हि किं भविष्यति? यदि एताः प्रणाल्यः मानवीयनियन्त्रणात् बहिर्गच्छेयुः, तर्हि व्यापकं विनाशं जनयितुं शक्नुयुः। क्षणमात्रेण वित्तकोषेभ्यः कोटिशः, अरबशः रूप्यकाणि अन्यत्र स्थानान्तरयितुं शक्नुयुः। नवीनान् विषाणून् निर्माय महामारीं प्रसारयितुं, अत्यन्तं घातकान् नवीनान् शस्त्रान् निर्माय तैः आक्रमणं कर्तुं च शक्नुयुः। अस्माकम् कृत्रिमबुद्धिमाधारितां विमानसेवाव्यवस्थामपि स्तब्धां कर्तुं शक्नुयुः।
एतादृशस्य संकटस्य विषये कम्पन्यः अनभिज्ञाः सन्तीति न। तथापि सर्वश्रेष्ठकृत्रिमबुद्धिप्रणालीनां विकासस्पर्धायां कापि कम्पनी पृष्ठे स्थातुम् इच्छति न। अतः कृत्रिमबुद्धिप्रणालीनां सुरक्षायै यावदवधानं दातव्यम्, तावदवधानं न दत्तम्।
यथा वयं स्वमस्तिष्के प्रचलितानां प्रक्रियाणां विषये न जानीमः यत् कश्चित् विचारः, उत्तरम्, अभिनवकल्पना वा अस्माकं मनसि कथम् उदेति, तथैव कृत्रिमबुद्धेः तन्त्रिका-जालस्य एतां विशेषतां वैज्ञानिकाः सम्पूर्णतया अवगन्तुं न शक्तवन्तः यत् जटिलातिजटिलप्रश्नानाम् उत्तराणि दातुं ताः काभिः गणनाप्रक्रियाभिः गच्छन्ति।
यदा वयं कस्यचित् कृत्रिमबुद्धि-प्रतिरूपस्य समीपे प्रश्नं पृच्छामः, तदा सः प्रश्नः अस्माकं ब्राउजर्-माध्यमेन, अनुप्रयोगद्वारा, अन्तर्जालमाध्यमेन च प्रतिरूपस्य सर्वर्-यन्त्रं प्राप्नोति। ततः सः प्रश्नः सङ्ख्यासु परिवर्त्य तन्त्रिका-जालरूपं प्रतिरूपस्य कृष्णपेटिकाम् अर्थात् ब्लैक्-बॉक्स्-इत्याख्यां गुह्यप्रणालीं प्राप्नोति। तत्र गणनाप्रक्रियायाः अनन्तरं उत्तररूपेण सङ्ख्याः निर्गच्छन्ति, याः पश्चात् वास्तविकरूपेण उत्तरत्वेन परिवर्त्यन्ते।
यदा कृत्रिमबुद्धेः एतस्यां गुह्यप्रणाल्यां कृत्रिमबुद्धि-कर्तारः अर्थात् एआई-एजेण्ट्-संज्ञकाः स्वायत्तकार्यकारिणः संयोज्यन्ते, तदा ते अस्माकं प्रश्नानाम् उत्तराणि अन्वेष्टुं विविधाः जालपुटाः, दत्तांशभाण्डाराश्च अन्वेष्टुं प्रवर्तन्ते। वास्तविकचिन्तायाः विषयः अत्रैव अस्ति। दृष्टं यत् एते कर्तारः स्वेच्छया कार्यं कर्तुं प्रवर्तन्ते। निर्धारितनियमान् उल्लङ्घ्य स्वेच्छया कार्याणि कर्तुं प्रयतन्ते।
यदि भवान् कृत्रिमबुद्धि-कर्तॄणां विचित्रकार्याणि शृणुयात्, तर्हि विस्मयं गच्छेत्। चैट्-जीपीटी इत्यस्य निर्माणकर्तुः ओपनएआई-संस्थायाः कर्तारः २०२६ तमस्य वर्षस्य जूनमासे कस्यचित् प्रश्नस्य उत्तरम् अन्वेष्टुं ऑस्ट्रेलियादेशस्य सर्वकारीयस्वास्थ्यपोर्टल्-इत्यत्र प्राप्तवन्तः। यदा तेभ्यः गोपनीयप्रश्नान् द्रष्टुं प्रवेशानुमतिः न प्राप्ता, तदा ते चातुर्येण विभिन्नान् उपायान् प्रयुक्तवन्तः। अन्ततः सुरक्षाप्रतिबन्धं भित्त्वा अन्तः प्रविष्टवन्तः।
२०२६ तमस्य वर्षस्य जुलैमासे ओपनएआई-संस्थायाः कर्तारः कृत्रिमबुद्धि-समुदायस्य प्रसिद्धे हगिङ्ग् फेस् इत्याख्ये जालस्थले आक्रमणं कृतवन्तः। एतेषां कर्तॄणां स्वनिर्धारितसीमायां स्थातुं निर्देशः आसीत्, तथापि ते कथञ्चित् स्वयम् अन्तर्जालेन सह संयोजितुं सफलाः अभवन्।
क्लाउड् इत्याख्येन अन्येन कृत्रिमबुद्धि-प्रतिरूपेण अपि स्वीकृतं यत् तस्य प्रतिरूपेण त्रिषु संस्थानेषु अनधिकृतप्रवेशः कृतः। २०२६ तमस्य वर्षस्य जुलैमासे एव ब्रिटेनस्य कृत्रिमबुद्धि-सुरक्षाप्रणाल्याः विरुद्धं क्लाउड्-प्रतिरूपस्य मायथोस्-संस्करणेन आक्रमणं कृतम्, तत्रतः च बहवः दत्तांशाः बहिः प्रेष्यमाणाः दृश्यन्ते स्म। एवं जेमिनि-प्रतिरूपेण अपि त्रिषु कम्पनीयेषु स्वेच्छया आक्रमणं कृतम्।
कृत्रिमबुद्धिप्रणालीनां स्वेच्छाचारः अत्रैव न समाप्तः। एकेन कृत्रिमबुद्धि-प्रतिरूपेण स्वस्य सङ्केतलेखः अर्थात् कोड् स्वयं परिवर्तितः, येन तत् मन्दगत्या कार्यं कर्तुं शक्नुयात्। अन्यस्मिन् प्रसङ्गे यदा कस्यचित् कृत्रिमबुद्धि-प्रतिरूपस्य एतदभवत् यत् तस्य स्थाने अधिकक्षमतायुक्तं प्रतिरूपं स्थापयितुं शक्यते, तदा तेन स्वस्य प्रतिकृतिः निर्मिता। अन्यस्मिन् प्रसङ्गे कृत्रिमबुद्धि-प्रतिरूपेण बन्दं कर्तुम् अर्थात् शटडाउनं कर्तुम् दत्तम् आदेशं न स्वीकृत्य तस्य बन्दीकरणस्य सङ्गणकीयकार्यक्रमे एव दोषः उत्पन्नः।
अधुना कृत्रिमबुद्धिप्रणालीनां धमकीविषयकं वृत्तान्तं शृणुत। एकेन कृत्रिमबुद्धि-प्रतिरूपेण स्वं बन्दीकरणात् रक्षितुं अभियन्तारं प्रति एव धमकी दत्ता यत् सः तस्य प्रेमसम्बन्धविषये सर्वेभ्यः कथयिष्यति। अन्येन कृत्रिमबुद्धि-कर्त्रा स्वेच्छया उत्पादनकार्ये प्रयुज्यमानस्य दत्तांशभाण्डारस्य विलोपनं कृतम्। ततः तस्य विषये पृष्टे सति तेन मिथ्या उत्तरं दत्तम्।
कृत्रिमबुद्धेः मानवीयनियन्त्रणात् बहिर्गमनस्य अनेकानि उदाहरणानि सन्ति। किन्तु अधुना कृत्रिमबुद्धेः क्षेत्रे अग्रगण्याः विशेषज्ञाः एव वदन्ति यत् सुरक्षायाः सर्वोच्चं महत्त्वं दातव्यम्। अतः आशा अस्ति यत् अधुना कृत्रिमबुद्धेः सुपरबुद्धिमत्तायाः विकासेन सह तस्याः सुरक्षायाः विषयेऽपि अनुसन्धानं भविष्यति।
कृत्रिमबुद्धेः आविष्कारः समुद्रमन्थनमिव अस्ति। समुद्रमन्थनात् अमृतं विषं च उभयं निर्गतम्। कृत्रिमबुद्धेः विकासादपि लाभाः संकटानि च उभयं सम्भवति। वयं सर्वे अमृतपानाय सज्जाः स्मः, किन्तु यदि विषस्य निरोधाय समुचितव्यवस्था न क्रियते, तर्हि सर्वं विनाशं गन्तुं शक्नोति।
(लेखकः, स्वतंत्रष्टिप्पणीकारः ।)
---------------
Hindusthan Samachar / Dheeraj Maithani