अयोध्यायां २२३२ दुर्गाप्रतिमाः स्थापिताः, सुरक्षायाः सुदृढाः प्रबन्धाः
अयोध्यायां २२३२ दुर्गाप्रतिमाः स्थापिताः, सुरक्षायाः सुदृढाः प्रबन्धाः - ड्रोनयन्त्रैः निरीक्षणं क्रियते, संवेदनशीलस्थलेषु पुलिसकर्मचारिणां तीक्ष्णा दृष्टिः अयोध्या, १८ अक्टूबरमासः (हि.स.)। शारदीयनवरात्रस्य दुर्गापूजायाश्च दृष्ट्या जनपदे सुरक्षा
गश्त करते अधिकारी


अयोध्यायां २२३२ दुर्गाप्रतिमाः स्थापिताः, सुरक्षायाः सुदृढाः प्रबन्धाः

- ड्रोनयन्त्रैः निरीक्षणं क्रियते, संवेदनशीलस्थलेषु पुलिसकर्मचारिणां तीक्ष्णा दृष्टिः

अयोध्या, १८ अक्टूबरमासः (हि.स.)। शारदीयनवरात्रस्य दुर्गापूजायाश्च दृष्ट्या जनपदे सुरक्षाव्यवस्था सुदृढीकृता अस्ति। सम्पूर्णे जनपदे प्रायः २२३२ दुर्गाप्रतिमाः स्थापिताः सन्ति। सर्वेषां प्रतिमास्थलानां पुलिसाधिकारिभिः निरीक्षणं कृतम् अस्ति। रामलीला, भरतमिलापः, रावणदहनम् इत्यादीनां धार्मिककार्यक्रमाणां च शान्तिपूर्णतया सम्पादनाय पुलिसप्रशासनेन व्यापकाः व्यवस्थाः कृताः सन्ति।

रविवासरे वरिष्ठपुलिसाधीक्षकः डॉ. गौरवग्रोवरः अवदत् यत् सर्वेषां कार्यक्रमाणां निर्विघ्नतया सौहार्दपूर्णवातावरणे च सम्पादनाय पुलिसविभागः निरन्तरं सक्रियः अस्ति। अधिकारिभिः प्रतिदिनं पदभ्यां गश्तं क्रियते तथा च ड्रोनयन्त्रैः विविधक्षेत्राणामपि निरीक्षणं क्रियते। यत्र मेलायोजनं भवति, तत्र यातायातव्यवस्थायाः सुचारुसञ्चालनाय आवश्यकतानुसारं मार्गपरिवर्तनं क्रियते।

तेन उक्तं यत् सर्वाभ्यः आयोजनसमितिभ्यः निर्देशाः प्रदत्ताः सन्ति यत् दर्शनार्थम् आगच्छतां श्रद्धालूनां सुविधायाः समुचितं ध्यानं दीयेत तथा च वाहनानां स्थापनायै समुचितव्यवस्था क्रियेत। अग्निशमनविभागस्य दलमपि आयोजनस्थलेषु सुरक्षाव्यवस्थानां निरीक्षणं करोति। कस्यामपि आपत्कालीनपरिस्थितौ निवारणाय अग्निशमनविभागसहितेभ्यः सम्बद्धकार्यदलेभ्यः सतर्कतया स्थातुं निर्देशाः प्रदत्ताः सन्ति।

वरिष्ठपुलिसाधीक्षकः अवदत् यत् पुलिसनियन्त्रणकक्षस्य माध्यमेन थानाप्रभारिभ्यः सम्बद्धाधिकारिभ्यश्च निरन्तरं निर्देशाः दीयन्ते। आयोजनकर्तृभिः सह समन्वयं स्थापयित्वा व्यवस्थानां सत्यापनमपि क्रियते, येन कार्यक्रमकाले कापि समस्या न उत्पद्येत।

तेन उक्तं यत् प्रतिमाविसर्जनस्थलेषु विसर्जनमार्गेषु च विशेषं ध्यानं दीयते। धार्मिककार्यक्रमेषु शान्तेः, सुरक्षायाः, यातायातव्यवस्थायाश्च संरक्षणाय पुलिसबलं सज्जम् अस्ति। पुलिसप्रशासनस्य आयोजनसमितीनां च परस्परसहकारितया सर्वे कार्यक्रमाः निर्धारितसमयानुसारं निर्धारिततिथौ च शान्तिपूर्णतया हर्षोल्लासेन च सम्पादयिष्यन्ते।

जिलाधिकारिणा वरिष्ठपुलिसाधीक्षकेण च निरीक्षणं कृतम्

उत्सवानां दृष्ट्या जिलाधिकारी शशाङ्कत्रिपाठी तथा वरिष्ठपुलिसाधीक्षकः डॉ. गौरवग्रोवरः नगरक्षेत्रे पदभ्यां गमनं कृत्वा दुर्गापूजापण्डालानां विसर्जनमार्गाणां च निरीक्षणं कृतवन्तौ। अस्मिन् अवसरे सुरक्षाव्यवस्थायाः अन्यव्यवस्थानां च समीक्षां कृत्वा सम्बद्धाधिकारिभ्यः आवश्यकाः निर्देशाः प्रदत्ताः।

Hindusthan Samachar / Dheeraj Maithani