Enter your Email Address to subscribe to our newsletters

कोलकाता, १९ अक्टोबरमासः (हि.स.)। कोलकातानगरस्य चोरबागान्-पूजामण्डपे जाते पलायने १९ जनानां मृत्यूनन्तरं कोलकाता-आरक्षकविभाग: कार्यवाहीम् आरब्धवान्। अस्मिन् शिथिलतासम्बद्धे पूजायाः आयोजकानां विरुद्धम् आरक्षक-विभाग: स्वप्रेरणया प्राथमिकीं पञ्जीकृतवान्। सुरक्षा-व्यवस्थां सुनिश्चितुं शान्तिं च स्थापयितुं च चोरबागान्-क्षेत्रस्य समीपस्थेषु कतिपयेषु निर्दिष्टक्षेत्रेषु मङ्गलवासरात् भारतीयनागरिक-सुरक्षासंहितायाः १६३ तमीं धारां प्रवर्तितवान्।
कोलकाता-आरक्षक-आयुक्तेन अजय नन्देन रविवासरे प्रातः निर्गतस्य आदेशस्य अनुसारम् एतेषु क्षेत्रेषु पञ्चभ्यः अधिकानां जनानां समागमे कठोरः प्रतिबन्धः आरोपितः। पुलिसस्य कथनानुसारम् आयोजकानां विरुद्धं भारतीयन्याय-संहितायाः १०५ तम्याः धारायाः, ११० तम्याः धारायाः तथा ३(५) धारायाः (समानाभिप्रायेण समूहद्वारा अपराधः) अन्तर्गतं प्रकरणं पञ्जीकृतम्। घटनायाः वास्तविककारणं ज्ञातुं आरक्षकविभाग: इदानीं यावत् १४ जनान् निरुद्धवान्, तेषां च गहनं पृच्छनं क्रियते। सप्त जनाः निगृहीताः सन्ति।
आरक्षक-आयुक्तस्य अधिसूचनानुसारं निषेधाज्ञा मुख्यतया बऊबाजार-आरक्षकस्थानकस्य तेषु भागेषु प्रवर्तते, ये चोरबागान्-पूजामण्डपस्य समीपे सन्ति। एतेषु कॉलेज-स्ट्रीट्-मार्गस्य कोलूटोला-स्ट्रीट्-तः ईडन-अस्पताल-मार्गपर्यन्तः भागः, चित्तरञ्जन-एवेन्यू-मार्गस्य कोलू-टोला-स्ट्रीट्-तः ईडन-अस्पताल-मार्ग-पर्यन्तः भागः, कोलूटोला-स्ट्रीट्-मार्गस्य कॉलेज-स्ट्रीट्-तः सीआर-एवेन्यू-मार्ग-पर्यन्तः भागः तथा ईडन-चिकित्सालय-मार्गस्य सीआर-एवेन्यू-तः कॉलेज-स्ट्रीट्-मार्गपर्यन्तं क्षेत्रम् अन्त-र्भवति। आदेशे स्पष्टम् उक्तं यत् एतेषु क्षेत्रेषु दण्डं वा अन्यत् किमपि शस्त्रं वा धृत्वा गमनम् पूर्णतया निषिद्धम्। तथापि, अयं प्रतिबन्धः सम्पूर्णे बऊबाजार-आरक्षक-स्थानकक्षेत्रे न प्रवर्तते।
राज्यपालेन स्थितेः समीक्षा कृता
अस्मिन् मध्ये रविवासरे प्रातः आरक्षक-आयुक्तः अजय नन्दः राज्यस्य राज्यपालः आर.एन. रविः च स्थितेः समीक्षार्थं कोलकाता-चिकित्सामहाविद्यालयस्य चिकित्सालयं गतवन्तौ। तौ तत्र चिकित्सालये प्रवेशितैः आहतितैः सह मिलित्वा तेषां स्वास्थ्यस्य विषये सूचनां प्राप्तवन्तौ।
एतद् पूर्वं शनिवासरे रात्रौ मुख्यमन्त्री शुभेन्दु अधिकारी घटनायाः निष्पक्षान्वेषणस्य आश्वासनं दत्तवान्। तेन उक्तं यत् विशेषकार्यबलस्य, अपराधा-न्वेषणविभागस्य तथा अग्निशमन-विभागस्य दलानि घटनास्थलात् आवश्यकानि नमूनानि प्रमाणानि च सङ्ग्रहीष्यन्ति।
मुख्यमन्त्रिणा विषयाधारितपूजायाः वर्धमानप्रचलनस्य विषये अपि गम्भीरा चिन्ता प्रकटिता। तेन स्पष्टतया उक्तं यत् भविष्ये विषयाधारितपूजायाः सम्बन्धे प्रशासनाय पुनः नूतनतया विचारः करणीयः, यतः जनानां जीवनं कस्यापि विषयाधारितायाः पूजायाः अपेक्षया अधिकं महत्त्वपूर्णम् अस्ति। अस्याः दुःखदघटनायाः प्राप्ताः शिक्षाः भविष्यस्य व्यवस्थासु कार्यान्विताः करिष्यन्ते इति च तेन उक्तम्।
Hindusthan Samachar / Divya Ranjan