Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, १८ अक्टोबरमासः (हि.स.)। बस्तराञ्चले स्वास्थ्यसंरचनां सुदृढीकुर्वता सामान्यनागरिकाणां, वृद्धजनानां बालानां च उत्तमस्वास्थ्यस्य दिशि नूतनः अध्यायः प्रारब्धः। अस्य अन्तर्गतं महाराणी-जनपदचिकित्सालये वरिष्ठनागरिकाणां समुचितचिकित्सार्थं दशशय्यायुक्तस्य ‘सियान-सञ्जीवनी-पुनर्वासकेन्द्रस्य’ सञ्चालनम् आरब्धम्। जगदलपुरस्य विधायकस्य किरणदेवस्य महापौरस्य सञ्जयपाण्डेयस्य च मुख्यातिथ्ये रविवासरे आयोजिते अस्मिन् कार्यक्रमे वरिष्ठ-नागरिकेभ्यः समर्पितानां स्वास्थ्यसेवानाम् आरम्भः कृतः।
महाराणी-चिकित्सालये ‘स्वस्थाः वृद्धाः, समृद्धः समाजः’ इति अवधारणां साकारयितुं षष्टिवर्षेभ्यः अधिकवयस्कानां नागरिकाणां कृते विशेषः पुनर्वासकक्षः प्रारब्धः। अस्य केन्द्रस्य माध्यमेन वृद्धजनानां कृते रक्तचापस्य, मधुमेहस्य, नेत्ररोगाणां, अस्थि-सन्धिसम्बद्धरोगाणां च परीक्षणम्, पौष्टिकाहारविषयकः परामर्शः, मानसिकस्वास्थ्यसम्बद्धं परामर्शनं, प्रतिरक्षणस्य च सुविधा पूर्णतया निःशुल्कं प्रदास्यते।
अस्मिन्नेव कार्यक्रमे बालमधुमेह-योजनायाः अन्तर्गतं प्रथमप्रकारमधुमेहेन पीडितेभ्यः बालकेभ्यः विधायकः किरणदेवः निःशुल्कानि मधुमेहपरीक्षणोपकरणानि अपि वितरितवान्। एतेन बालकाः स्वगृहे एव नियमितरूपेण रक्तशर्करायाः स्तरस्य निरीक्षणं कर्तुं शक्नुयुः। अस्मिन् अवसरे नागरिकशल्यचिकित्सकः डॉ. सञ्जय-प्रसादः, नोडलाधिकारी डॉ. भँवरशर्मा, डॉ. अग्रवालः, नेत्ररोगविशेषज्ञः डॉ. पी. एम. कोठारी, त्वग्रोगविशेषज्ञः डॉ. कोटवानी, चिकित्सालयपरामर्शदाता डॉ. नीरजओझा, डॉ. आर. बी. पी. गुप्ता इत्यादयः विशेषज्ञ-चिकित्सकाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan