पीडब्ल्यूडी-विभागे अधुना वामिस-सॉफ्टवेयरमाध्यमेन मार्गनिर्माणकार्याणां निरीक्षणम्
धर्मशाला, १८ अक्टोबरमासः (हि.स.)। हिमाचलप्रदेशस्य लोकनिर्माणविभागे मार्गाणां निर्माणकार्येषु मरम्मतकार्येषु च पारदर्शितां वर्धयितुं अधुना अङ्कीय-व्यवस्था प्रवर्तिता अस्ति। विभागीय-कार्याणां निरीक्षणात् आरभ्य निर्माण-कार्याणां मापनस्य अभिलेखनं, ठेके
पीडब्ल्यूडी-विभागे अधुना वामिस-सॉफ्टवेयरमाध्यमेन मार्गनिर्माणकार्याणां निरीक्षणम्


धर्मशाला, १८ अक्टोबरमासः (हि.स.)। हिमाचलप्रदेशस्य लोकनिर्माणविभागे मार्गाणां निर्माणकार्येषु मरम्मतकार्येषु च पारदर्शितां वर्धयितुं अधुना अङ्कीय-व्यवस्था प्रवर्तिता अस्ति। विभागीय-कार्याणां निरीक्षणात् आरभ्य निर्माण-कार्याणां मापनस्य अभिलेखनं, ठेकेदाराणां देयकनिर्माणं, धनभुगतानप्रक्रिया च अन्तर्जालमाध्यमेन भविष्यति। एतदर्थं विभागे कार्याणि लेखाश्च प्रबन्धयितुं निर्मितस्य सूचनाप्रणालीसॉफ्टवेयर इत्यस्य माध्यमेन कार्यं क्रियते।

सेप्टेम्बरमासात् प्रवर्तितायाः अस्याः व्यवस्थायाः अन्तर्गतं विभागेन विविध-कार्यसम्बद्धेषु षट्सु प्रमुखेषु विभागेषु हस्तलिखितप्रक्रियां समाप्तुं निर्णयः कृतः अस्ति। सितम्बरमासस्य प्रथम-दिनाङ्कानन्तरं सम्बद्धविभागैः सम्ब-न्धितकार्याणां कृते भौतिकाः सञ्चिकाः न स्वीकरणीयाः इति प्रावधानं कृतम् अस्ति। नूतनव्यवस्थायाम् ई-मापनपुस्तिकायाः माध्यमेन निर्माणकार्याणां मापनं सङ्गणके अभिलिखितं भविष्यति। अनेन सम्बद्धमार्गे कियत् कार्यं सम्पन्नम्, निर्धारितकार्यस्य तुलनायां ठेकेदारस्य कार्यप्रगतिः कियती च अस्ति इति विवरणम् उपलब्धं भविष्यति।

ठेकेदाराणां देयकान्यपि अन्तर्जाल-माध्यमेन निर्मीयन्ते, व्ययप्रदानप्रक्रिया च अङ्कीयमाध्यमेन सम्पन्ना भविष्यति। व्ययविवरणस्य लेखाप्रणाल्या सह सम्बद्धत्वात् वित्तीयाभिलेखानां निरीक्षण-मपि सुकरं भविष्यति। अस्याः व्यवस्थायाः एकः महत्त्वपूर्णः पक्षः अस्ति यत् निर्माणकार्याणि स्वीकृतप्राक्कलनानुसारं निर्धारितकार्यसीमायाः अन्तर्गतं च करणीयानि भविष्यन्ति। मार्गस्य यस्मिन् भागे यावता कार्येण च कृते स्वीकृतिः प्राप्ता अस्ति, तस्य विवरणं अङ्कीया-भिलेखे अभिलिखितं भविष्यति। अनेन कार्याणां वास्तविकस्थितेः, अभिलिखित-मापनस्य, व्ययप्रदाननसम्बद्धकथनानां च परस्परं तुलनां कर्तुं सहायता भविष्यति।

तथैव अधिकारिणां कृते कार्यप्रगतेः व्ययस्य च निरीक्षणं सुकरं भविष्यति। वामिस्-सॉफ्टवेयरमाध्यमेन लेखा-प्रबन्धनम्, कार्याणां निरीक्षणम्, ई-मापनपुस्तिका, ई-देयकनिर्माणम्, महा-लेखाकारकार्यालयेन सह एकीकरणं, प्रबन्धनसूचनाप्रणाली च एकस्मिन् मञ्चे समेकितानि सन्ति। अनेन निर्माण-कार्यसम्बद्धाभिलेखानां सुव्यवस्थितरक्षणे वित्तीयप्रक्रियायां पारदर्शितावर्धने च सहायता भविष्यतीति अपेक्षा अस्ति।

काङ्गडा-चम्बाक्षेत्रयोः मुख्याभियन्ता ई. विकाससूदः अवदत् यत् प्रदेशस्य सर्वेषु भागेषु, विशेषतः काङ्गडा-चम्बाक्षेत्रयोः, एषा व्यवस्था कियत्पर्यन्तं प्रवर्तिता अस्ति, ठेकेदाराणां क्षेत्रीयाधिकारिणां च कृते कानि निर्देशानि प्रेषितानि सन्ति, तथा च निर्माणकार्याणां गुणवत्तायां निरीक्षणे च कानि परिवर्तनानि भविष्यन्ति—एतेषां विषयाणां सम्बन्धे कार्यं क्रियते।

Hindusthan Samachar / Divya Ranjan