प्रादेशिकायां बालिकानां क्रिकेट्-प्रतियोगितायां लखनऊ-मेरठनगरयोः दलानि विजेतृपदं प्राप्तवन्ति।
मुरादाबादम्, 18 अक्टूबरमासः (हि.स.)। मुरादाबादजनपदे अक्टूबरमासस्य १५ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं सञ्चालिता प्रादेशिकविद्यालयीयबालिकानां क्रिकेट्-प्रतियोगिता २०२६ रविवासरे सायंकाले महता उत्साहेन उल्लासेन च सम्पन्ना। कनिष्ठसप्तदशवर्षीयवर्गे लख
मुरादाबाद में प्रदेशीय विद्यालयीय बालिका क्रिकेट प्रतियोगिता के समापन पर विजेता टीम ट्राफी देतीं जेडी, डीआईओएस व अन्य


मुरादाबाद में प्रदेशीय विद्यालयीय बालिका क्रिकेट प्रतियोगिता के समापन पर विजेता टीम शील्ड के साथ


मुरादाबादम्, 18 अक्टूबरमासः (हि.स.)।

मुरादाबादजनपदे अक्टूबरमासस्य १५ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं सञ्चालिता प्रादेशिकविद्यालयीयबालिकानां क्रिकेट्-प्रतियोगिता २०२६ रविवासरे सायंकाले महता उत्साहेन उल्लासेन च सम्पन्ना। कनिष्ठसप्तदशवर्षीयवर्गे लखनऊमण्डलं प्रथमं, अयोध्यामण्डलं द्वितीयं च स्थानं प्राप्तवत्। कनिष्ठैकोनविंशतिवर्षीयवर्गे मेरठमण्डलं प्रथमं, वाराणसीमण्डलं द्वितीयं च स्थानं प्राप्तवत्। विजेतृभ्यः सुवर्णरजतताम्रपदकैः सम्मानः प्रदत्तः।

प्रादेशिकविद्यालयीयबालिकानां क्रिकेट्-प्रतियोगिता २०२६ अस्मिन् वर्षे मुरादाबादेन आयोजिता। अस्यां प्रतियोगितायां कनिष्ठसप्तदशवर्षीयवर्गे कनिष्ठैकोनविंशतिवर्षीयवर्गे च उत्तरप्रदेशस्य २३ मण्डलानां दलानि भागं गृहीतवन्ति।

रविवासरे आयोजिते समापनसमारोहे संयुक्तशिक्षानिदेशकः शिवलालः मुख्यातिथिरूपेण, नगरस्य अपरजिलाधिकारी अङ्कुरश्रीवास्तवः विशिष्टातिथिरूपेण च उपस्थितौ आस्ताम्। मुरादाबादस्य जिला विद्यालयनिरीक्षिका रितुतोमर् धन्यवादज्ञापनं कृतवती। अमरोहाजनपदस्य जिला विद्यालयनिरीक्षकस्य शतानन्दशर्मणः विशेषं सहकार्यम् आसीत्। अस्मिन् अवसरे मद्यनिषेधाधिकारी मनोजः अपि गरिमामय्यां उपस्थितौ आसीत्।

Hindusthan Samachar / Dheeraj Maithani