Enter your Email Address to subscribe to our newsletters



ग्वालियरम्, १८ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरनगरे शनिवासरे रात्रौ शीतलामातामन्दिरस्य समीपे घटितायाः दुर्घटनायाः दण्डाधिकरणीया-न्वेषणस्य आदेशः निर्गतः। एतस्मिन्नेव मध्ये केन्द्रीयसञ्चार-पूर्वोत्तरक्षेत्र-विकासमन्त्री ज्योतिरादित्यसिन्धिया ग्वालियरनगरे शीतलामातृमन्दिरस्य समीपे ट्रकदुर्घटनायां श्रद्धालूनां मृत्युसमाचारं प्राप्य दुःखं प्रकटितवान्। तेन मृतकानां सर्वान् परिजनान् प्रति शोकसंवेदनाः व्यक्ताः।
केन्द्रीयमन्त्री रविवासरे जयरोग्य-चिकित्सालयस्य आघातचिकित्साकेन्द्रं प्राप्तवान् तथा दुर्घटनायां आहतानां स्वास्थ्यस्य विषये सूचनां प्राप्तवान्। घातितानां समुचितचिकित्सायै आवश्यक-निर्देशान् अपि सः दत्तवान्। चिकित्सा-लयस्य प्रबन्धकान् निर्दिष्टवान् यत् घातितानां समुचितचिकित्सा सुनिश्चिता क्रियताम्। दुर्घटनायां मृतानां सर्वेषां श्रद्धालून् प्रति सः गहनं दुःखं प्रकटितवान्। केन्द्रीयमन्त्रिणा सह प्रदेशस्य उद्यानिकीमन्त्री नारायण-सिंहकुशवाहः, विधायकः मोहनसिंहराठौरः, भाजपाजनपदाध्यक्षः जयप्रकाशराजौरिया, पूर्वविधायकः मुन्नालालगोयलः च अन्ये जनप्रतिनिधयः अपि आघातचिकित्साकेन्द्रं प्राप्तवन्तः।
जनपदाधिकारी तथा जनपददण्डाधिकारी रुचिका चौहाने दुर्घटनायाः दण्डाधिक-रणीयान्वेषणस्य आदेशं निर्गतवती। अन्वेषणाय अपरजनपददण्डाधिकारी सी.बी. प्रसादः नियुक्तः। जनपददण्डाधि-कारिणा अन्वेषणाधिकारिणे घटनायाः विभिन्नपक्षेषु सप्तदिनाभ्यन्तरे अन्वेषण-प्रतिवेदनं प्रस्तुतुं निर्देशः दत्तः।
जनपददण्डाधिकारिण्या स्वादेशे उक्तं यत् ग्वालियरजनपदस्य आन्तरी-आरक्षक-स्थानकक्षेत्रे स्थिते शीतला-मातृमन्दिरे नवरात्रस्य सप्तमीतिथौ चीनौरमार्गतः आगच्छन् एकः तीव्रगतियुक्तः ट्रकः अनियन्त्रितः अभवत्। सः मार्गपार्श्वे स्थिताः प्रसादविक्रयणस्य पञ्च आपणीः आघातेन भग्नवान् तथा शीतलामातृमन्दिरस्य मुख्यद्वारेण सह मिलित्वा दुर्घटनाग्रस्तः अभवत्। अस्यां घटनायां प्रारम्भिकसूचनानुसारं १४ जनानां मृत्युः तथा २७ जनानाम् आहततत्वस्य सूचना प्राप्ता।
जनपदाधिकारी रुचिका चौहाने अवदत् यत् जनपदस्य सातऊ-क्षेत्रे स्थितस्य शीतलामातृमन्दिरस्य मुख्यप्रवेशद्वारस्य समीपे शनिवासरे रात्रौ प्रायः १:३० वादने जातायां मार्गदुर्घटनायां १४ श्रद्धालूनां मृत्युः अभवत् तथा प्रायः ४२ श्रद्धालवः घातिताः। दुर्घटनायां गम्भीररूपेण आहतानां श्रद्धालूनां जयरोग्यचिकित्सालयस्य आघातचिकित्साकेन्द्रे विशेषचिकित्सा क्रियते। अन्येषाम् अपि आहतानां चिकित्सा प्रचलति।
सा अवदत् यत् आन्तरीदिशः आगच्छन् धान्यपूर्णः एकः ट्रकः अनियन्त्रितः भूत्वा मन्दिरस्य मुख्यप्रवेशद्वारेण सह टकरितवान्। अस्मिन् समये प्रवेशद्वारस्य समीपे उपस्थिताः श्रद्धालवः ट्रकस्य आघातेन प्रभाविताः अभवन्। घटनायाः सूचना प्राप्तमात्रेण जनपदप्रशासनस्य आरक्षकदलस्य च सदस्याः आहतान् रुग्णवाहिकाभिः शीघ्रं ग्वालियरनगरस्य जयरोग्यचिकित्सालयस्य आघात-चिकित्साकेन्द्रं नीतवन्तः। तत्र चिकित्सकैः तेषां शीघ्रं चिकित्सा आरब्धा।
रुचिका चौहान वरिष्ठपुलिसाधीक्षकं धर्मवीरसिंहं सह नीत्वा आघात-चिकित्साकेन्द्रं प्राप्तवती तथा घातितानां चिकित्साव्यवस्थायाः निरीक्षणं कृतवती। सा चिकित्सकान् सर्वेषां आहतानां समुचितचिकित्सां सुनिश्चितुं निर्देशितवती। प्रायः अष्टानां गम्भीररूपेण आहतानां विशेषचिकित्सा आघात-चिकित्साकेन्द्रे क्रियते। शेषाणाम् अपि चिकित्सा प्रचलति। जनपदप्रशासनं आहतानां श्रेष्ठचिकित्सायै आवश्यक-व्यवस्थानां च कृते विशेषं ध्यानं ददाति।
शीतलामातृमन्दिरस्य समीपे घटितायाः दुःखददुर्घटनायाः सूचना प्राप्य सम्भागीयायुक्तः मनोजखत्री जनपद-प्रशासनस्य आरक्षकाधिकारिणां च प्रभावितानां जनानां साहाय्याय शीघ्रं कार्यं कर्तुं निर्देशान् दत्तवान्। तेन जे.ए.एच. चिकित्सालयस्य प्रबन्धनेन सह चर्चां कृत्वा आहतानां श्रेष्ठचिकित्सां सुनिश्चितुं निर्देशाः दत्ताः। दुर्घटनायां आहतानां चिकित्सायै विशेषचिकित्सकदलस्य नियुक्तिं कर्तुं तथा चिकित्सायाः व्यव-स्थायाः चतुर्विंशतिहोरा: निरीक्षणं कर्तुं सः निर्देशितवान्। राज्यशासनस्य निर्देशा-नुसारं प्रभावितपरिवारभ्यः सर्वसम्भवं साहाय्यं प्रदातुं सम्भागीया-युक्तेन जनपदप्रशासनम् अपि निर्देशितम्।
अपरतः शीतलामातृमन्दिरस्य दुर्घटनायाः अनन्तरं प्रदेशसर्वकारस्य कृषिमन्त्री एन्दलसिंहकंसाना तथा नवीकरणीय-ऊर्जामन्त्री राकेशशुक्लः मुख्यमन्त्रिणः निर्देशानुसारं ग्वालियर-नगरस्य चिकि-त्सालयं गत्वा घातितानां श्रद्धालूनां स्वास्थ्यस्य विषये सूचनां प्राप्तवन्तौ। तौ चिकित्सकैः सह चर्चां कृत्वा सर्वेषां घातितानां समुचितचिकित्सां कर्तुं निर्देशान् दत्तवन्तौ। प्रशासनिकाधिकारिभिः सह चर्चां कृत्वा घातितानां समुचितचिकित्साव्यवस्थां सुनिश्चितुं च उक्तवन्तौ। तयोः सह क्षेत्रीयसांसदः भारतसिंहकुशवाहः, भाजपाजनपदाध्यक्षः जयप्रकाशराजौरिया, अन्ये जनप्रतिनिधयः प्रशासनिकाधिकारिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan