नमो भारतस्य सञ्चालनस्य त्रिवर्षाणि पूर्णानि, अधुना यावत् ४.५ कोटितः अधिकाः यात्राः
नवदिल्ली, १८ अक्टोबरमासः (हि.स.)। दिल्ली-गाजियाबाद-मेरठ-नमोभारत-परिपथस्य त्रिवर्षीयसञ्चालनकाले ४.५ कोटितः अधिकाः यात्राः कृताः। राष्ट्रिय-राजधानी-क्षेत्र-परिवहन-निगमस्य अनुसारं नमो भारत-सेवया सम्प्रति प्रतिदिनं १.१ लक्षतः अधिकाः यात्रिणः यात्रां कु
नई दिल्ली में रविवार को नमो भारत दिवस 2026 के अवसर पर केंद्रीय आवासन एवं शहरी कार्य तथा विद्युत मंत्री मनोहर लाल, केंद्रीय राज्य मंत्री तोखन साहू और एनसीआरटीसी के वरिष्ठ अधिकारी।


नवदिल्ली, १८ अक्टोबरमासः (हि.स.)। दिल्ली-गाजियाबाद-मेरठ-नमोभारत-परिपथस्य त्रिवर्षीयसञ्चालनकाले ४.५ कोटितः अधिकाः यात्राः कृताः। राष्ट्रिय-राजधानी-क्षेत्र-परिवहन-निगमस्य अनुसारं नमो भारत-सेवया सम्प्रति प्रतिदिनं १.१ लक्षतः अधिकाः यात्रिणः यात्रां कुर्वन्ति। अस्यां सेवायाम् एकस्मिन् दिने सर्वाधिकं प्रायः १.६८ लक्षयात्रिणां यात्रायाः कीर्तिमानम् अपि स्थापितम्।

एनसीआरटीसी-संस्थया रविवासरे ‘नमो भारत दिवसः २०२६’ आचरितः। अस्मिन् अवसरे केन्द्रीय-आवासन-नगरकार्य-विद्युत्-मन्त्री मनोहरलालः, केन्द्रीय-आवासन-नगरकार्य-राज्यमन्त्री तोखन साहू, मन्त्रालयस्य सचिवा डी. थारा, नगरविकासविभागस्य सचिवः सत्येन्द्र-सिंहः च अन्ये अधिकारिणः उपस्थिताः आसन्।

मनोहरलालः अवदत् यत् नमो भारत केवलं नाम नास्ति, अपि तु राष्ट्रं प्राथमिकतया स्थापयितुं, समर्पणभावनां धारयितुं, सांस्कृतिकमूल्यानि च संरक्षितुं प्रेरणायाः प्रतीकम् अस्ति। एषा सेवा क्षेत्रीयसम्पर्कं सुदृढं करोति तथा नगरीयपरिवहनाय नूतनां दिशं प्रददाति इति सः अवदत्। प्रधानमन्त्री नरेन्द्रमोदी २०२३ तमस्य वर्षस्य अक्टोबरमासस्य २० दिनाङ्के अस्य परिपथस्य उद्घाटनम् अकरोत्। मन्त्रिणा परियोजनायाः सम्बद्धानां अधिकारिणाम्, अभियन्तॄणाम्, प्रौद्योगिकविशेषज्ञानाम्, कर्मचारिणां च योगदानस्य प्रशंसा कृता।

नमो भारतस्य सञ्चालनम् अक्टोबरमासे २०२३ तमे वर्षे साहिबाबादतः दुहाई-डिपोपर्यन्तं १७ किलोमीटर-दीर्घे प्राथमिकखण्डे आरब्धम्। ततः अनन्तरं ८२ किलोमीटर्-दीर्घः सम्पूर्णः दिल्ली-गाजियाबाद-मेरठ-परिपथः चरणबद्धरीत्या सञ्चालितः। प्रधानमन्त्री २०२६ तमस्य वर्षस्य फरवरीमासस्य २२ दिनाङ्के सम्पूर्णं नमो भारत-परिपथं मेरठ-मेट्रोसेवया सह राष्ट्राय समर्पितवान्।

एनसीआरटीसी-संस्थानस्य अनुसारं नमो भारत-सेवायां यात्रिणां सुविधायै परिवहनस्य अन्यैः साधनैः सह सम्पर्कं सुदृढं कर्तुं तथा यात्रायाः प्रारम्भिक-अन्तिमदूरयोः गमनागमनं सुकरं कर्तुं प्रयासाः क्रियन्ते। परियोजनायाः पर्यावरणीय-वित्तीयस्थिरतां सुनिश्चितुं ‘सोलर ऑन ट्रैक’ इति उपक्रमस्य अन्तर्गतं ११० मेगावाट्-क्षमतायुक्तः सौर-ऊर्जासंयन्त्रं विकसितं क्रियते।

एनसीआरटीसी-संस्थानस्य प्रबन्ध-निदेशकः शलभ गोयलः अवदत् यत् आधुनिकां, सुरक्षितां, विश्वसनीयां पर्यावरणानुकूलां च क्षेत्रीयपरिवहन-व्यवस्थां विकसितुम् एव संस्थानस्य उद्देश्यम् अस्ति। कार्यक्रमे उत्कृष्टं प्रदर्शनं कृतवद्भ्यः कर्मचारिभ्यः वार्षिकपुरस्काराः प्रदत्ताः। अस्मिन् अवसरे सांस्कृतिक-कार्यक्रमाः अपि प्रस्तुताः।

एनसीआरटीसी-संस्थानस्य अनुसारं दिल्ली-पानीपत-करनाल-नमो भारत-परिपथस्य तथा दिल्ली-गुरुग्राम-बहरोड-नमो भारत-परिपथस्य प्रस्तावयोः शीघ्रमेव अनुमोदनं प्राप्तुं सम्भावना अस्ति। अपरतः गाजियाबाद-जेवर-परिपथस्य तथा नोएडा-फरीदाबाद-गुरुग्राम-परिपथस्य विस्तृतपरियोजनाप्रतिवेदनं सज्जीकर्तुं प्रक्रिया प्रचलति।

Hindusthan Samachar / Divya Ranjan