नेपालदेशे प्रियागोल्ड्-बिस्कुटानाम् आयाते विक्रये च प्रतिबन्धः।
काठमांडूः, 18 अक्टूबरमासः (हि.स.)। नेपालसर्वकारेण भारतदेशे निर्मितानां प्रियागोल्ड्-बिस्कुटानाम् आयाते, विक्रये वितरणे च प्रतिबन्धः आरोपितः अस्ति। भारतस्य सूर्या फूड् एण्ड् एग्रो लिमिटेड् इत्यनया निर्मितानां प्रियागोल्ड्-बिस्कुटानां नेपालीविपणे व
प्रियगोल्ड बिस्किट के उत्पाद


काठमांडूः, 18 अक्टूबरमासः (हि.स.)।

नेपालसर्वकारेण भारतदेशे निर्मितानां प्रियागोल्ड्-बिस्कुटानाम् आयाते, विक्रये वितरणे च प्रतिबन्धः आरोपितः अस्ति। भारतस्य सूर्या फूड् एण्ड् एग्रो लिमिटेड् इत्यनया निर्मितानां प्रियागोल्ड्-बिस्कुटानां नेपालीविपणे व्यापकः आयातः विक्रयश्च भवति स्म।

नेपालस्य खाद्यप्रौद्योगिकीगुणनियन्त्रणविभागेन भारतीयखाद्यसुरक्षामानकप्राधिकरणस्य (एफएसएसएआई) सूचनाम् आधारीकृत्य एषः प्रतिबन्धः आरोपितः। भारतीयखाद्यसुरक्षामानकप्राधिकरणेन अक्टूबरमासस्य १७ दिनाङ्के प्रकाशितायां सूचनायाम् उक्तं यत् प्रियागोल्ड्-बिस्कुटेषु पशुभ्यः खाद्यरूपेण दीयमानस्य चोकरस्य उपयोगः कृतः अस्ति।

एतामेव सूचनाम् आधारीकृत्य नेपालस्य खाद्यप्रौद्योगिकीगुणनियन्त्रणविभागेन देशे प्रियागोल्ड्-बिस्कुटानाम् आयातस्य निषेधस्य निर्णयः कृतः।

नेपालदेशे पर्वोत्सवानां कारणेन सार्वजनिकावकाशः आसीत्। अतः विभागस्य वरिष्ठप्रबन्धनसमूहस्य तथा उत्पादप्रत्याहरणसम्बद्धायाः तकनीकीसमित्याः अधिकारिणः कार्यालये उपस्थिताः न आसन्। अस्य कारणात् विभागेन रविवासरे आभासीयोपवेशनम् आयोज्य प्रियागोल्ड्-उत्पादानाम् आयातं निरोद्धुं निर्णयः कृतः। विभागेन प्रकाशितायाः सूचनायाः अनुसारम् अस्मिन् उपवेशने महानिदेशकः सञ्जीवकुमारकर्णः अपि सम्मिलितः आसीत्।

विभागेन अक्टूबरमासस्य १८ दिनाङ्के सूचना प्रकाश्य प्रियागोल्ड्-बिस्कुटानाम् आयातं न कर्तुम् निर्देशः प्रदत्तः। अपि च नेपालदेशे पूर्वमेव आयातितानाम् एतेषाम् उत्पादानां विक्रये वितरणे च प्रतिबन्धः आरोपितः।

भारतीयखाद्यसुरक्षामानकप्राधिकरणस्य अन्वेषणे प्रियागोल्ड्-बिस्कुटेषु तन्तुमयपदार्थस्य स्रोतोरूपेण चोकरस्य उपयोगः क्रियमाणः इति ज्ञातम्। विभागस्य सूचनानुसारम् एतादृशस्य चोकरस्य बोरासु स्पष्टतया ‘पशूनां चाराार्थम्’ तथा ‘मानवोपभोगाय न’ इति लिखितम् आसीत्।

एतदतिरिक्तं कारखानस्य स्वच्छतायाः, कीट नियन्त्रणस्य, कच्चामालस्य भण्डारणस्य, कर्मचारिणां व्यक्तिगतस्वच्छतायाः, कारखानपरिसरस्य समुचितरक्षणस्य च विषये अपि न्यूनताः दृष्टाः।

विभागेन नेपालदेशस्य आधिकारिकायातकेभ्यः खाद्यव्यापारिभ्यश्च विपण्यां उपलब्धानि प्रियागोल्ड्-बिस्कुटानि तत्सम्बद्धानि च उत्पादानि तत्कालं प्रत्याहर्तुं निर्देशः प्रदत्तः।

खाद्यस्वच्छतागुणवत्तासम्बद्धस्य २०२४ तमस्य वर्षस्य अधिनियमस्य ३८ तमस्य अनुच्छेदस्य द्वितीयायाः चतुर्थायाश्च उपधारयोः अन्तर्गतं निर्गतेन आदेशेन सम्बन्धितव्यापारिणः एतेषाम् उत्पादानां विक्रयं वितरणं च कर्तुं न शक्नुवन्ति। विभागेन विपण्याः प्रत्याहृतानाम् उत्पादानां समुचितभण्डारणं कर्तुं तेषां विवरणस्य अभिलेखं च संरक्षितुं निर्देशः प्रदत्तः।

यदि एतेषाम् उत्पादानां विनाशस्य आवश्यकता भवति, तर्हि स्थानीयनिकायस्य अथवा स्थानीयप्रशासनस्य प्रतिनिधीनां विभागस्य तकनीकीकर्मचारिणां च उपस्थितौ ते विनष्टव्याः। उत्पादानां विनाशानन्तरं विभागाय तस्य सूचनामपि दातव्या भविष्यति।

अस्मिन्नन्तरे भारतीयखाद्यसुरक्षामानकप्राधिकरणेन सूर्या फूड् एण्ड् एग्रो लिमिटेड् इत्यस्य अनुज्ञापत्रं

निलम्बितम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani