Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 अक्टूबरमासः (हि.स.)।
विश्वखाद्यदिवसस्य अवसरे रविवासरे नेताजीसुभाषप्रौद्योगिकीविश्वविद्यालये (एनएसयूटी), द्वारकायां ‘फिट् इण्डिया सण्डे ऑन साइकिल्’ इत्यस्य पञ्चनवतितमसंस्करणस्य आयोजनम् अभवत्। ‘स्वास्थ्याय चक्रचालनम्, स्वस्थविश्वाय यात्रा’ इति विषयाधारिते अस्मिन् कार्यक्रमे साइकिलचालनेन, योगाभ्यासेन, गरबा-जुम्बा-नृत्येन च जनाः शारीरिकस्वास्थ्यस्य, सन्तुलिताहारस्य, स्वस्थजीवनशैल्याश्च स्वीकरणाय प्रेरिताः।
भारतीयक्रीडाप्राधिकरणस्य ‘फिट् इण्डिया’ आन्दोलनस्य अन्तर्गतं आयोजिते अस्मिन् कार्यक्रमे सार्वजनिकस्वास्थ्य-खाद्यसुरक्षाकेन्द्रेण भारतीयखाद्यनिगमेन च सहकारिता कृता। प्रतिवर्षम् अक्टूबरमासस्य १६ दिनाङ्के विश्वखाद्यदिवसः आचर्यते। अस्य वर्षस्य वैश्विकविषयः ‘अद्यैव नवाचारं कुरुत’ इति अस्ति। अस्य उद्देश्यं खाद्योत्पादनस्य, वितरणस्य, उपभोगस्य च सुधाराय नवीनविचारान् समाधानानि च प्रोत्साहयितुम् अस्ति।
कार्यक्रमे एनएसयूटी-संस्थानस्य क्रीडाधिकारी डॉ. प्रवीणसरोहा, ‘फिट् इण्डिया’ इत्यस्य सदिच्छादूती तथा स्वास्थ्यविशेषज्ञा मनीषासिंहा, स्वास्थ्यप्रशिक्षकः स्वास्थ्यप्रभावकश्च उत्सवघोषः, दशवारं विश्वकीर्तिमानं स्थापितवान् तथा ‘आयरन टीथ् मैन ऑफ् इण्डिया’ इति नाम्ना प्रसिद्धः राकेशसैनी, अभिनेता निर्माता च रोहितचौधरी इत्यादयः अनेकाः गणमान्यजनाः सम्मिलिताः।
एनएसयूटी-संस्थानस्य कुलपतिः प्रो. आनन्दश्रीवास्तवः विश्वविद्यालयस्य वाहनमुक्तपरिसरं साइकिलचालनस्य सक्रियजीवनशैल्याश्च प्रोत्साहनाय उपयुक्तम् अवदत्। सः अवदत्, “यदा विद्यार्थिनः साइकिलचालनम् आरभन्ते, तदा तेन न केवलं तेषां स्वास्थ्यं सम्यक् तिष्ठति, अपितु तेषाम् ऊर्जास्तरः अपि वर्धितुं शक्नोति तथा अध्ययनस्य एकाग्रतायाः क्षमतायां सुधारः भवितुम् अर्हति। एतेन पर्यावरणस्यापि हानिः न भवति।”
‘फिट् इण्डिया’ इत्यस्य सदिच्छादूती मनीषासिंहा जनान् स्वसमुदायेषु स्वास्थ्यजागरूकतां प्रसारयितुं अन्येषां कृते प्रेरणास्रोतः भवितुं च आहूतवती। सा अवदत् यत् जनैः स्वपरिवेशे स्वस्थजीवनशैल्याः आदर्शः प्रस्तुतव्यः, येन अन्येऽपि तेन प्रेरिताः भवेयुः।
राकेशसैनी अवदत् यत् ‘फिट् इण्डिया सण्डे ऑन साइकिल्’ इत्यादयः कार्यक्रमाः क्रीडायाः स्वास्थ्यवर्धकक्रियाकलापानां च कृते उत्कृष्टं मञ्चं प्रददति। युवानः व्यसनात् दूरं स्थातुम् आह्वयन् सः अवदत् यत् ते स्वाम् ऊर्जां स्वाभिरुचीनां प्रतिभायाश्च विकासे नियोजयेयुः। लक्ष्यं प्रति समर्पणेन परिश्रमेण च महानि उपलब्धीनि प्राप्तुं शक्यन्ते तथा देशस्य गौरवं वर्धयितुं शक्यते।
कार्यक्रमस्य समये डॉ. प्रवीणसरोहः प्रतिभागिभ्यः व्यसनमुक्तभारतस्य शपथं कारितवान्। सर्वैः स्वयम्, स्वपरिवारं, स्वसमुदायं च व्यसनात् दूरं स्थापयितुं व्यसनमुक्तसमाजस्य निर्माणाय च यथाशक्ति प्रयासान् कर्तुं सङ्कल्पः कृतः।
डॉ. सरोहः अवदत् यत् नियमिताः शारीरिकक्रियाः स्वास्थ्यवर्धकाभ्यासाश्च युवान् व्यसनात् दूरं स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। विभिन्नसंस्थानैः सह सम्बद्धतां स्थापयित्वा अधिकाधिकयुवभ्यः अस्याः पहलायाः सन्देशं प्रापयितुं क्रियमाणः प्रयासः प्रशंसनीयः अस्ति इति तेन उक्तम्।
कार्यक्रमस्य अन्तर्गतं प्रतिभागिभिः निर्धारितमार्गे पञ्चकिलोमीटर्-परिमितं साइकिलचालनं कृतम्। एतदतिरिक्तं योगाभ्यासक्षेत्रे, मनोरञ्जकक्रीडासु, स्वास्थ्यविशेषज्ञया नीतूचावलया नेतृत्वे ऊर्जापूर्णे गरबा-जुम्बा-सत्रे च आयोजनं कृतम्। ‘फिट्स्पायर गेम जोन’ इत्यनेन अपि प्रतिभागिभ्यः क्रीडया मनोरञ्जनेन च स्वास्थ्यवर्धकक्रियासु भागं ग्रहीतुं अवसरः प्रदत्तः।
‘फिट् इण्डिया सण्डे ऑन साइकिल्’ इत्यस्य अस्य पञ्चनवतितमसंस्करणेन नियमितशारीरिकक्रियाणां, सन्तुलितपोषणस्य, खाद्यसुरक्षायाः, उत्तरदायित्वपूर्णोपभोगस्य, पर्यावरणसंरक्षणस्य च महत्त्वं पुनः प्रतिपादितम्। अस्याः पहलायाः उद्देश्यं स्वास्थ्यवर्धकक्रियाकलापान् जनानां दैनिकजीवनस्य सहजम् आनन्ददायकं च अङ्गं कर्तुं तथा स्वस्थसमाजस्य निर्माणाय सामुदायिकसहभागितां प्रोत्साहयितुं च अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani