Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 18 अक्टूबरमासः (हि.स.)।
अक्टूबरमासे विदेशीयपोर्टफोलियोनिवेशकाः (एफपीआई) निरन्तरं विक्रेतॄणां भूमिकायां वर्तन्ते। अस्मिन् मासे अद्यावधि ते भारतीयशेयरविपणितः ५२,१०० कोटिरूप्यकाणां धनराशिं निष्कासितवन्तः। कथ्यते यत् कच्चनस्य तैलस्य उच्चमूल्यानि, अमेरिकादेशे सर्वकारीयऋणपत्राणां प्रतिफलस्य वर्धमानस्तरः, डॉलरमुद्रायाः सुदृढता च विदेशीयनिवेशकान् स्वधनस्य निष्कासने प्रवर्तयन्ति।
विपणिविशेषज्ञानाम् अनुसारम् अमेरिकादेशे महङ्गाई उच्चस्तरे स्थिता इति कारणेन ब्याजदराणां वर्धनस्य सम्भावना अपि वर्धिता अस्ति। एतासां परिस्थितीनां कारणेन विदेशीयनिवेशकाः भारतीयशेयरविपणितः धनं निष्कास्य अमेरिकादेशस्य अन्येषां च आकर्षकविपणीनां दिशं गच्छन्ति इति मन्यते।
सेन्ट्रल् डिपॉजिटरी सर्विसेज लिमिटेड् (सीडीएसएल) इत्यस्य आँकडानाम् अनुसारम् अक्टूबरमासे नवीनविक्रयाणाम् अनन्तरं २०२६ तमे वर्षे अद्यावधि विदेशीयपोर्टफोलियोनिवेशकाः भारतीयशेयरविपणितः कुलम् ३.१२ लक्षकोटिरूप्यकाणि निष्कासितवन्तः।
विदेशीयपोर्टफोलियोनिवेशकाः सितम्बरमासेऽपि भारतीयशेयरविपणौ विक्रेतृभूमिकायां स्थिताः आसन्। अस्मिन् मासे ते घरेलुशेयरभ्यः ३५,८६१ कोटिरूप्यकाणि निष्कासितवन्तः। तथापि, एतस्मात् पूर्वं जुलाई तथा अगस्तमासयोः विदेशीयनिवेशकाः विक्रयापेक्षया क्रयणे अधिकं ध्यानम् अददुः। जुलाईमासे एफपीआई-संस्थाभिः भारतीयशेयरविपणौ २०,२०० कोटिरूप्यकाणां शुद्धनिवेशः कृतः, अगस्तमासे च ताभिः २९,६३१ कोटिरूप्यकाणां शेयराः क्रीताः। किन्तु सितम्बरमासात् पुनः विदेशीयनिवेशकानां प्रवृत्तिः परिवर्तिता, ते विक्रेतारः अभवन्। सितम्बरमासे आरब्धा विक्रयप्रक्रिया अक्टूबरमासे अधिकवेगेन अग्रे गता।
यदि २०२६ तमे वर्षे विदेशीयपोर्टफोलियोनिवेशकानां क्रयविक्रयसम्बद्धान् आँकडान् पश्यामः, तर्हि अस्मिन् वर्षे अद्यावधि भारतीयशेयरविपणितः तेषां शुद्धधननिष्कासनं ३.१२ लक्षकोटिरूप्यकाणां स्तरं प्राप्तम्। एतत् २०२५ तमे वर्षे विदेशीयनिवेशकानां कुलधननिष्कासनात् अपि बहु अधिकम् अस्ति। तस्मिन् वर्षे ते १.६६ लक्षकोटिरूप्यकाणि निष्कासितवन्तः। एतेन स्पष्टं भवति यत् अस्मिन् वर्षे भारतीयशेयरविपणौ विदेशीयपूँज्याः प्रवाहः निरन्तरं दबावस्य अधीनः अस्ति। जुलाई तथा अगस्तमासयोः कृतक्रयाणाम् अनन्तरमपि विदेशीयनिवेशकानां कुलविक्रयस्य परिमाणम् उच्चस्तरे एव वर्तते।
फिनरेक्स ट्रेजरी एडवाइजर्स एलएलपी इत्यस्य कार्यकारीनिदेशकः अनिलभंसाली कथयति यत् अमेरिकादेशे सर्वकारीयऋणपत्राणां उच्चप्रतिफलस्य, डॉलरमुद्रायाः सुदृढतायाः, कच्चनस्य तैलस्य वर्धमानमूल्यानां च कारणेन विदेशीयनिवेशकाः भारतीयशेयराणां निरन्तरं विक्रयं कुर्वन्ति। तस्य मते अमेरिकादेशे महङ्गायाः उच्चस्तरे स्थिरत्वम् अपि अमेरिकीकेन्द्रीयबैङ्कस्य फेडरल् रिजर्व् इत्यस्य ब्याजदरवर्धनस्य सम्भावनां वर्धयति। एतादृश्यां स्थितौ विदेशीयनिवेशकानां कृते अमेरिकीसम्पत्तिषु निवेशः अधिकम् आकर्षकः अभवत्। अतः भारतीयशेयरविपणिवत्सु उदयमानविपणिषु निवेशस्य आकर्षणं न्यूनं भवति इति दृश्यते।
अनिलभंसाल्यनुसारम् अन्तरराष्ट्रीयविपणौ महर्घं कच्चनं तैलम् भारतीयार्थव्यवस्थायामपि अतिरिक्तं दबावं जनयति। भारतः स्वस्य आवश्यकतायाः अधिकांशं भागं विदेशेभ्यः आयातयति। अतः कच्चनस्य तैलस्य मूल्यवृद्ध्या आयातव्ययः वर्धितुं, महङ्गायाः दबावः तीव्रः भवितुं, चालूखाताघातसम्बद्धाश्च चिन्ताः वर्धितुं शक्नुवन्ति। एतदतिरिक्तं उत्तरपूर्वीय-एशियायाः विपण्येषु कृत्रिमबुद्ध्या (एआई) सम्बद्धानां कम्पनीनां शेयरमूल्येषु वृद्धिः अपि विदेशीयनिवेशकानां पूँजीं भारतस्य स्थाने तेषु विपणिषु निवेशाय आकर्षयति।
तथापि, अक्टूबरमासस्य १६ दिनाङ्के विदेशीयनिवेशकाः विक्रयस्य स्थाने अल्पं क्रयणं कृतवन्तः। किन्तु विपणिविशेषज्ञाः वदन्ति यत् एतं परिवर्तनं विदेशीयनिवेशकानां प्रवृत्तौ स्थायीपरिवर्तनस्य सङ्केतः इति मन्यितुं शीघ्रता भविष्यति।
टीएनवी फाइनेंशियल सर्विसेज इत्यस्य मुख्यकार्यकारी अधिकारी तारकेश्वरनाथवैष्णवः कथयति यत् अमेरिकादेशस्य दशवर्षीयसर्वकारीयऋणपत्रस्य प्रतिफलं ५.३० प्रतिशताधिकस्तरात् न्यूनीभूय ५.०८ प्रतिशतं यावत् आगतम् तथा च डॉलरस्य तुलनायां भारतीयरूप्यकस्य सुदृढतया विदेशीयनिवेशकानां प्रवृत्तौ अस्थायीपरिवर्तनं दृष्टम्। तथापि तेन एतत् परिवर्तनं निवेशस्य दिशि कस्यचित् बृहतो स्थायिपरिवर्तनस्य सङ्केतत्वेन न स्वीकृतम्, अपितु सामरिकपदम् इति वर्णितम्।
तारकेश्वरनाथवैष्णवस्य अनुसारं विदेशीयनिवेशकाः वित्तीयसेवासम्बद्धासु तथा पेट्रोलियमक्षेत्रसम्बद्धासु कम्पनीषु शेयराणां विक्रयं कुर्वन्ति। अपरपक्षे डिजिटलमञ्चसम्बद्धासु कम्पनीषु, मनोरञ्जनक्षेत्रे, भोजनालयेषु, स्वास्थ्यसेवासु तथा उपभोक्तृसेवासम्बद्धासु कम्पनीषु तेषां क्रयणप्रवृत्तिः निरन्तरं वर्तते।
---------------
Hindusthan Samachar / Dheeraj Maithani