Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १९ अक्टोबरमासः (हि.स.)। पर्यावरणविद् लेखकश्च सुन्दरमतिवारी सोमवासरे अवदत् यत् पर्यावरणस्य संरक्षणाय व्यावहारिककार्यस्य आव-श्यकता अस्ति। तदैव वास्तविकं परिवर्तनं सम्भवं भवति।
सुन्दरमतिवारी अद्य जवाहरलालनेहरू-विश्वविद्यालये जेएनयू-टीएफ-संस्थायाः नेचर ग्रीन फ्यूचर ट्रस्ट-संस्थायाश्च संयुक्ततत्त्वावधाने आयोजितायां व्याख्यानमालायां फलवृक्षारोपणकार्यक्रमे च एतद् उक्तवान्।
अस्मिन् अवसरे डॉ. दीपानारायणपाण्डेयः (आपदाप्रबन्धनविषये सहायक-प्राध्यापकः), प्रो. सपना रतनशाह (जेएनयू-टीएफ-संस्थायाः अध्यक्षा) तथा प्रो. रवि रमेशचन्द्रशुक्लः (जेएनयू-टीएफ-संस्थायाः महासचिवः) च पर्यावरण-संरक्षणविषये सार्थकं संवादं कृतवन्तः तथा विश्वविद्यालयपरिसरे फलवृक्षान् आरोपितवन्तः।
कार्यक्रमस्य उद्देश्यम् आसीत् यत् युववंश:, विशेषतः शोधार्थिनः विद्यार्थिनश्च पर्यावरण-संरक्षणविषये जागरूकाः भवेयुः तथा केवलं चर्चां त्यक्त्वा दृढकार्याणि कर्तुं प्रेरिताः भवेयुः।
सुन्दरमतिवारी अवदत्, “अद्य पर्यावरणविषये बहवः सङ्गोष्ठ्यः, चर्चासत्राणि, भाषणानि च भवन्ति। किन्तु यावत् एते विचाराः व्यवहाररूपेण न परिणमन्ते, तावत् वास्तविकं परिवर्तनं सम्भवं न भवति।” सः विद्यार्थिनः स्वपरिसरे वृक्षान् रोपयितुं, जलस्य ऊर्जायाश्च संरक्षणं कर्तुं तथा प्रकृत्या सह सन्तुलितजीवनशैलीम् अङ्गीकर्तुं च आग्रहं कृतवान्।
डॉ. दीपानारायणपाण्डेयः अवदत् यत् बाढः, अनावृष्टिः, भूस्खलनं तथा जलवायु-परिवर्तनम् इत्यादीनां वर्धमानानाम् आपदानां प्रमुखेषु कारणेषु पर्यावरणस्य असन्तुलनम् अपि एकम् अस्ति। सः अवदत् यत् आपदाप्रबन्धनस्य आरम्भः प्रकृतेः संरक्षणेन एव भवति। वृक्षारोपणम्, जलसंरक्षणं तथा स्थानीयसमुदायानां सहभागिता च भविष्ये सम्भाव्यमानसङ्कटानां निवारणाय सुदृढः आधारः भवितुम् अर्हन्ति। सः शोधार्थिनः स्वकीयशोधकार्यं समाजस्य वास्तविकसमस्यानां समाधानैः सह सम्बद्धं कर्तुं च आग्रहं कृतवान्।
प्रो. सपना रतनशाह: अवदत् यत् विश्वविद्यालयपरिसरः केवलं ज्ञानस्य केन्द्रं न, अपितु समाजाय दिशां प्रदर्शयितुं समर्थं मञ्चम् अपि अस्ति। विद्यार्थिनः देशस्य भविष्यं सन्ति तथा पर्यावरणस्य रक्षणस्य दायित्वं तेषामेव स्कन्धेषु अस्ति। सा छात्रान् छात्राश्च पर्यावरणसंरक्षणं स्वजीवनशैल्याः अभिन्नम् अङ्गं कर्तुं तथा अद्य आरोपितानां पादपानां पालनस्य सङ्कल्पं स्वीकर्तुं च आहूतवती।
प्रो. रवि रमेशचन्द्रशुक्लः अवदत् यत् पर्यावरणस्य रक्षणं सामूहिकं दायित्वम् अस्ति। अस्मिन् शिक्षकैः, शोधार्थिभिः, विद्यार्थिभिश्च सक्रियतया भागं ग्रहीतव्यम्। फलवृक्षाः पर्यावरणं हरितं कर्तुं सहायकाः भवन्ति। ते पक्षिणां वन्यजीवानां च कृते आश्रयस्य आहारस्य च स्रोतांसि अपि भवन्ति। एतादृशाः कार्यक्रमाः समाजं प्रकृत्या सह सम्बद्धं भवितुं प्रेरयन्ति।
कार्यक्रमस्य समये शोधार्थिभिः छात्रैः छात्राभिश्च स्वविचाराः प्रस्तुताः तथा वक्तृभ्यः पर्यावरणसम्बद्धाः प्रश्नाः अपि पृष्टाः।
अस्मिन् अवसरे बहुसङ्ख्यकाः शोधार्थिनः, छात्राः, छात्राश्च प्राध्यापकाः च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan