Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १९ अक्टोबरमासः (हि.स.)। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः २१ अक्टोबरदिनाङ्के आरक्षकस्मृतिदिवसस्य अवसरे नवदिल्लीस्थिते राष्ट्रिय-आरक्ष-स्मारके वीरगतेभ्यः आरक्षककर्मिभ्यः श्रद्धाञ्जलिं समर्पयिष्यति। अस्मिन्नवसरे सः ‘मादकद्रव्याणां विरुद्धं सङ्घर्षः’ इति सन्देशेन आयोजितां राष्ट्रव्यापिनीं मोटरसाइकिलयात्रां हरितध्वजं प्रदर्श्य प्रस्थापयिष्यति।
गृहमन्त्रालयेन सोमवासरे एकस्मिन् वक्तव्ये सूचितं यत् अस्यां यात्रायां दिल्ली, उत्तरप्रदेशः, पञ्जाबः, हरियाणा, उत्तराखण्डः, हिमाचलप्रदेशः, जम्मू-कश्मीरम्, लद्दाखः, चण्डीगढम् इत्येतेभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च तथा केन्द्रीयसशस्त्रपुलिसबलानां अन्येषां च केन्द्रीयपुलिससङ्घटनानां प्रायः ९० मोटरसाइकिलचालकाः भागं ग्रहीष्यन्ति।
एषा यात्रा राष्ट्रव्यापिनः अभियानस्य भागः अस्ति। अस्य अभियानस्य अन्तर्गतं विभिन्नराज्येभ्यः, केन्द्रशासितप्रदेशेभ्यः, केन्द्रीयबलैश्च सम्बद्धाः मोटरसाइकिलचालकाः गुजरातराज्यस्य एकतानगरं प्राप्य ‘एकतापरेड-२०२६’ इत्यस्यां भागं ग्रहीष्यन्ति। यात्रया मादकद्रव्याणां विरुद्धं जनजागरणस्य राष्ट्रियैकतायाः च सन्देशः प्रसारयिष्यते।
पुलिसस्मृतिदिवसः प्रतिवर्षं २१ अक्टोबरदिनाङ्के तेषां पुलिसकर्मिणां बलिदानस्य स्मरणार्थम् आचर्यते, ये देशस्य सुरक्षायै सेवायै च स्वप्राणान् न्यवेदयन्। १९५९ तमस्य वर्षस्य अक्टोबरमासस्य २१ दिनाङ्के लद्दाखस्य हॉट स्प्रिंग्स-क्षेत्रे सशस्त्रचीनीदलस्य घातकाक्रमणे पुलिसस्य १० जवानाः वीरगतिं प्राप्तवन्तः। तदारभ्य अयं दिवसः आरक्षकस्मृतिदिवसरूपेण आचर्यते।
प्रधानमन्त्रिणा नरेन्द्रमोदिना पुलिसकर्मिणां बलिदानं चिरस्थायि कर्तुं राष्ट्रियसुरक्षायाः ऐक्यस्य च रक्षणे आरक्षकबलस्य योगदानस्य सम्मानार्थं २०१८ तमस्य वर्षस्य आरक्षकस्मृतिदिवसस्य अवसरे चाणक्यपुरीस्थं राष्ट्रियपुलिसस्मारकं राष्ट्राय समर्पितम् आसीत्।
अस्मिन् स्मारके ३० पादमिता ग्रेनाइटनिर्मिता केन्द्रीयशिल्पकृतिः, वीरगतिं प्राप्तानां पुलिसकर्मिणां नामानि अङ्किता ‘शौर्यभित्तिः’ तथा भारतीयपुलिसव्यवस्थायाः इतिहासं विकासं च प्रदर्शयत् सङ्ग्रहालयः च सन्ति। एतत् स्मारकं पुलिसबलेषु राष्ट्रियपरिचयस्य, गौरवस्य, कर्तव्यनिष्ठायाश्च भावनां सुदृढां करोति। सामान्यनागरिकाणाम् अपि अस्य विशेषं महत्त्वम् अस्ति।
मन्त्रालयस्य अनुसारं मुख्यकार्यक्रमे केन्द्रीयसशस्त्रपुलिसबलानां दिल्लीपुलिसस्य च संयुक्ता परेड आयोजयिष्यते। गृहमन्त्री वीरगतेभ्यः श्रद्धाञ्जलिं समर्प्य उपस्थितजनसमूहं सम्बोधयिष्यति। कार्यक्रमे केन्द्रीयगृहराज्यमन्त्री, केन्द्रीयसशस्त्रपुलिसबलानां केन्द्रीयपुलिससङ्घटनानां च प्रमुखाः, पुलिसपृष्ठभूमियुक्ताः सांसदाः, सेवानिवृत्ताः आरक्षकमहानिदेशकाः अन्ये वरिष्ठाधिकारिणश्च भागं ग्रहीष्यन्ति।
वीरगतेभ्यः पुलिसकर्मिभ्यः श्रद्धाञ्जलिसमर्पणार्थं अक्टोबरमासस्य २२ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं राष्ट्रियपुलिसस्मारके देशस्य विभिन्नेषु भागेषु च विविधाः कार्यक्रमाः आयोजयिष्यन्ते। एतेषु कार्यक्रमेषु वीरगतानां परिजनानाम् आमन्त्रणम्, पुलिसवाद्यवृन्दस्य प्रदर्शनम्, मोटरसाइकिलयात्रा, शहीदानां स्मृतौ धावनस्पर्धा तथा पुलिसकर्मिणां शौर्यं, बलिदानं, सेवां च आधारीकृत्य निर्मितानां दृश्यचित्राणां प्रदर्शनम् अन्तर्भवति।
Hindusthan Samachar / Divya Ranjan