सङ्घर्षक्षेत्रे अन्तिमक्षणपर्यन्तं स्पर्धा करणमेव वास्तविकः विजयः - आरशी गुप्ता
नवदिल्ली, १९ अक्टोबरमासः (हि.स.)। भारतस्य अल्पवयस्का राष्ट्रिय-कार्टिङ्-प्रतियोगिताविजेत्री आरशी गुप्ता सोमवासरे अवदत् यत् कदापि पराजयं न स्वीकर्तुं सङ्कल्पः ताम् अन्येभ्यः पृथक् करोति। आरशी गुप्ता अद्य दिल्लीस्थे प्रेस-क्लब इत्यत्र आयोजिते वार्ता
आरशी गुप्ता के साथ अन्य लोग मौजूद


नवदिल्ली, १९ अक्टोबरमासः (हि.स.)। भारतस्य अल्पवयस्का राष्ट्रिय-कार्टिङ्-प्रतियोगिताविजेत्री आरशी गुप्ता सोमवासरे अवदत् यत् कदापि पराजयं न स्वीकर्तुं सङ्कल्पः ताम् अन्येभ्यः पृथक् करोति।

आरशी गुप्ता अद्य दिल्लीस्थे प्रेस-क्लब इत्यत्र आयोजिते वार्ताहरसम्मेलने सम्बोधयन्ती अवदत्, “सा अत्यन्तं कठिनेषु रेसमार्गेषु स्पर्धां कर्तुम्, श्रेष्ठान् चालकान् पराजेतुम्, प्रतिवर्षं च प्रतियोगितायाः विजेतृपदं प्राप्तुम् इच्छति। तस्याः यात्रा दीर्घा अस्ति, किन्तु सा एतदर्थं कठोरपरिश्रमं कर्तुं सज्जा अस्ति। अस्यां स्पर्धायां विजयस्य आशा मम आसीत्, किन्तु अनेन अहम् अशिक्षम् यत् यत्किमपि भवतु, कदापि आशां न त्यजेत्, अन्तिमक्षणपर्यन्तं च सङ्घर्षं कुर्यात्।” सा अवदत् यत् रेसमार्गे बालकैः सह स्पर्धां कुर्वतीः अधिकाधिकाः बालिकाः द्रष्टुम् इच्छति।

फरीदाबादनिवासिनी एषा रेसचालिका रविवासरे स्वकीयस्य दशमजन्मदिवसस्य अवसरे ‘एफएमएससीआई आरएमसी इण्डियन नेशनल कार्टिङ् च्याम्पियनशिप् २०२६’ इत्यस्य ‘मिनी मैक्स’ इति वर्गस्य विजेतृपदं प्राप्तवती। अनेन सह सा ‘रोटेक्स मैक्स चैलेञ्ज’ इत्यस्य ‘मिनी’ वर्गं विजेतुं विश्वस्य अल्पवयस्का रेसचालिका अभवत्। अस्मात् पूर्वम् आरशी २०२५ तमे वर्षे ‘माइक्रो मैक्स’ इति वर्गे ऐतिहासिकं विजयं प्राप्तवती आसीत्। अनेन सा निरन्तरं द्वयोः वर्षयोः द्वौ क्रमिकौ ‘रोटेक्स मैक्स चैलेञ्ज’ वर्गौ विजित्य दुर्लभासु रेसचालिकासु अन्तर्भुक्ता अभवत्।

आरश्याः माता डॉ. दीप्तिगुप्ता हिन्दुस्थानसमाचाराय अवदत् यत् अभिभावकैः स्वसन्तानानां क्रीडाभिरुचिः षड्वर्षात् अष्टवर्षपर्यन्तस्य वयसि एव ज्ञातव्या। तस्याः मते प्राथमिककक्षासु अध्ययनस्य प्रभावः न्यूनः भवति, येन बालकाः क्रीडायाः अध्ययनस्य च मध्ये सन्तुलनं स्थापयितुं शक्नुवन्ति। यदि बालकः क्रीडायां उत्तमं प्रदर्शनं करोति, तर्हि तस्य प्रगतये अवसराः प्रदातुं शक्यन्ते। यदि सः क्रीडायां सहजताम् अनुभवति न, तर्हि उच्चकक्षासु प्रवेशात् पूर्वमेव समये अध्ययनाय पूर्णं ध्यानं केन्द्रितुं शक्नोति।

आरश्याः प्रशिक्षकः रोहितखन्ना अवदत् यत् आरश्याः यात्रां वास्तवतः प्रशंसनीयां कुर्वन्ति न केवलं तया प्राप्तानि परिणामानि, अपितु तेषां पृष्ठे स्थितं समर्पणम्, अनुशासनं दृढसङ्कल्पश्च।

ब्रिटेनदेशे आरश्याः प्रशिक्षकः डेविड बेलचैम्बर्स: अवदत् यत् स्वस्य श्रेष्ठतमप्रदर्शनकाले आरशीं पराजेतुं प्रायः असम्भवम् अस्ति। तस्याः उपलब्धयः प्रगतिश्च तस्याः प्रतिभायाः, सङ्कल्पस्य कठोरपरिश्रमस्य च प्रत्यक्षं प्रमाणम् अस्ति। अद्यावधि तया यत्किमपि प्राप्तं, तेन सः अत्यन्तं गौरवम् अनुभवति।

आरश्याः मातापितरौ अस्मिन् क्रीडाप्रकारे आवश्यकस्य शारीरिकस्य मानसिकस्य च धैर्यस्य उल्लेखं कुर्वन्तौ अवदताम् यत् एतासां देदीप्यमानानां विजयस्मारकाणां पृष्ठे अत्यन्तं कठिनः अभ्यासः अस्ति। केवलं २०२५ तमे वर्षे आरशी रेसमार्गे १३७ दिनानि व्यतीतवती तथा २९ स्पर्धासु भागं गृहीतवती। २०२६ तमे वर्षे अद्यावधि सा १४० दिनानि रेसमार्गे अभ्यासं कृतवती तथा ३० स्पर्धासु भागं गृहीतवती। तस्याः प्रशिक्षणे संयुक्तअरब-अमीरातदेशे पञ्चमासात्मकः प्रशिक्षणसत्रः तथा ब्रिटेनदेशे त्रयोदश-सप्ताहात्मकः कठिनाभ्यासः अन्तर्भूतः। अस्मिन् चालककक्षे दीर्घकालं यावत् समयव्यतीतः, शारीरिकस्वास्थ्यस्य परि-पालनं निरन्तरयात्राः च अन्तर्भवन्ति। एतत् सर्वं सा विद्यालयीयाध्ययनेन सह सन्तुलितं कृतवती।

ते अवदताम् यत् आरशी अद्यावधि भारतस्य, संयुक्तअरब-अमीरातस्य, ब्रिटेनस्य, श्रीलङ्कायाः फ्रान्सदेशस्य च कुलम् २१ रेसिङ्ग्-मार्गेषु स्पर्धासु भागं गृहीतवती तथा प्रशिक्षणं प्राप्तवती। अधुना आरशी अधिकवेगयुक्तेषु कार्ट्-यानेषु बृहत्तरेषु अन्ताराष्ट्रियस्पर्धासमूहेषु च ध्यानं केन्द्रयति, येन वैश्विकमोटरक्रीडायाः सर्वोच्चस्तरे भारतस्य प्रतिनिधित्वं कर्तुं स्वकीयस्य स्वप्नस्य साक्षात्कारं कर्तुं शक्नुयात्।

उल्लेखनीयम् अस्ति यत् आरशी ‘एफा अकादमी डिस्कवर योर ड्राइव’ इति कार्यक्रमाय चयनिता विश्वस्य अल्प-वयस्का रेसचालिका अस्ति। अपि च सा ‘एफआईए प्रेसिडेण्ट् मेडल’ इति सम्मानेन सम्मानिता अस्ति तथा संयुक्तअरब-अमीरातदेशे ब्रिटेनदेशे च शीर्षत्रयस्थानेषु स्थानं प्राप्तवती अस्ति।

Hindusthan Samachar / Divya Ranjan