Enter your Email Address to subscribe to our newsletters

विश्वनाथः (असमः), 19 अक्टूबरमासः (हि.स.)।
असमराज्यस्य विश्वनाथजनपदस्य सदरक्षेत्रे बौबाजारस्थिता शिवाजीसङ्घस्य श्रीश्रीदुर्गापूजासमितेः पूजामण्डपः स्वकीयया विशिष्टया सज्जया दुर्गाप्रतिमया च श्रद्धालूनाम् आकर्षणस्य केन्द्रं जातः। मण्डपे असमस्य समृद्धा सांस्कृतिकधरोहरः सुन्दरतया प्रदर्शिता अस्ति। एतं द्रष्टुं दूरस्थेभ्यः क्षेत्रेभ्यः बहुसङ्ख्याकाः श्रद्धालवः दर्शकाश्च आगच्छन्ति।
मण्डपस्य एकस्मिन् भागे असमस्य पारम्परिकवाद्ययन्त्राणि ढोलवाद्यम्, पेपा, गगना, सुतुलि, तालवाद्यं च तथा बिहूनृत्याङ्गनाः प्रदर्शिताः सन्ति। अपरस्मिन् भागे ढाकवाद्यस्य, शङ्खस्य, एकतारस्य, बाउलनृत्यस्य च झलकी प्रस्तुता अस्ति। सम्पूर्णमण्डपस्य सज्जायाम् असमस्य पारम्परिकस्य फुलामगामोछावस्त्रस्य शैली अपि समावेशिता अस्ति, या अस्य मण्डपस्य विशिष्टां परिचितिं निर्मितवती।
सोमवासरे प्रातः षड्वादनादेव पूजामण्डपे श्रद्धालूनां समागमः प्रारब्धः। भक्ताः भगवत्याः दुर्गायाः आराधनां कृत्वा नैवेद्यं समर्पितवन्तः। पुरोहितेन सन्धिपूजायाः सम्पादनेन अनन्तरं श्रद्धालवः पुष्पाञ्जलिं समर्पितवन्तः प्रणाममन्त्रस्य पाठं च कृतवन्तः। ततः मध्याह्ने भक्तेभ्यः प्रसादस्य वितरणं कृतम्।
प्राप्तसूचनानुसारं शिवाजीसङ्घस्य षड्विंशतिवर्षप्राचीना दुर्गापूजासमितिः सीमितव्ययेन असमस्य जीवन्तां सांस्कृतिकधरोहरां प्रभावशालिरूपेण प्रस्तुतवती अस्ति। पूजामण्डपस्य विशिष्टा रूपरेखा दुर्गाप्रतिमायाः च सौन्दर्यं विश्वनाथे चर्चायाः विषयः जातम्।
-------------
Hindusthan Samachar / Dheeraj Maithani