Enter your Email Address to subscribe to our newsletters

मुरादाबादः, १९ अक्टोबरमासः (हि.स.)। जिलाधिकारी अनुनय झा इत्यस्य निर्देशानाम् अनुपालने औद्योगिकप्रतिष्ठानेषु निर्माणस्थलेषु च कार्यरतश्रमिकेभ्यः स्वास्थ्यपरीक्षणस्य, चिकित्सकीयपरामर्शस्य विविधकल्याण-कारीयोजनानां लाभस्य च उपलब्धतां सुनिश्चितं कर्तुम् श्रमविभागेन सेवासङ्क-ल्पाभियानस्य अन्तर्गतं सोमवासरे कांठमार्गे हरथलास्थिते पीवीआर-श्रमिकविरामस्थले ‘श्रमिकसम्मान-स्वास्थ्यशिबिरम्’ आयोजितम्।
शिबिरे सीएल गुप्ता नेत्रचिकित्सालयस्य चिकित्सकैः प्रायः ९३ श्रमिकाणां नेत्रपरीक्षणं कृतम्। आवश्यकतानुसारं ३२ श्रमिकेभ्यः निःशुल्कानि उपनेत्राणि अपि प्रदत्तानि। शिबिरमाध्यमेन श्रमिकाः स्वास्थ्यविषये जागरूकाः कृताः। विभिन्नरोगाणां निवारणस्य समये उपचारस्य च विषये तेभ्यः सूचनाः प्रदत्ताः।
शिबिरे श्रमविभागस्य दलद्वारा २७ निर्माणश्रमिकाणां पञ्जीकरणम् अपि कृतम्। तदतिरिक्तं श्रमिकेभ्यः ‘डिजिटल लेबर चौक’ इति चलदूरभाष-अनुप्रयोगस्य विषये सूचनाः प्रदत्ताः। तेषां चलदूरभाषयन्त्रेषु अनुप्रयोगः अवतारितः, पञ्जीकरणं च कारितम्। अनुप्रयोग-माध्यमेन रोजगारप्राप्तेः अवसराणां विषये अपि श्रमिकाः जागरूकाः कृताः।
कार्यक्रमस्य समये श्रमप्रवर्तनाधिकारिणः केपी सिंहः, दुर्गेशसिंहः सुधीरकुमारश्च श्रमिकेभ्यः पञ्जीकरणस्य, नवीकरणस्य तथा श्रमविभागेन सञ्चालितानां विविधकल्याणकारीयोजनानां च विस्तृतां सूचनां प्रदत्तवन्तः, येन श्रमिकाः एतासां योजनानां लाभं प्राप्तुं शक्नुयुः।
Hindusthan Samachar / Divya Ranjan