Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 19 अक्टूबरमासः (हि.स.)।
भारतं प्रथमवारं अक्टोबरमासस्य २६ दिनाङ्कतः २८ दिनाङ्कपर्यन्तं नवदेहल्यां अन्ताराष्ट्रियविधिकमापनसमितेः (सीआईएमएल) एकषष्टितमस्य अधिवेशनस्य आतिथ्यं करिष्यति। एतदधिवेशनं भारतसर्वकारस्य उपभोक्तृकार्यविभागेन अन्ताराष्ट्रियविधिकमापनसङ्घटनस्य सहकारेण आयोज्यते।
उपभोक्तृकार्याणां, खाद्यस्य, सार्वजनिकवितरणस्य च मन्त्रालयस्य अनुसारं त्रिदिवसीयमिदम् अधिवेशनम् अक्टोबरमासस्य २६ दिनाङ्के नवदेहल्यां प्रारप्स्यते।
अस्मिन् अधिवेशने विश्वस्य शताधिकाः अन्ताराष्ट्रियप्रतिनिधयः विधिकमापनविशेषज्ञाश्च भागं ग्रहीष्यन्ति इति अपेक्षा अस्ति। एतेषु ओआईएमएल-सङ्घटनस्य सदस्यदेशानां प्रतिनिधयः, सम्बन्धितसदस्यदेशानां प्रतिनिधयः, अन्ताराष्ट्रियसङ्घटनानां प्रतिनिधयश्च अन्तर्भवन्ति।
अस्याः पूर्वं सीआईएमएल-समितेः षष्टितमम् अधिवेशनम् २०२५ तमस्य वर्षस्य अक्टोबरमासस्य १३ दिनाङ्कतः १५ दिनाङ्कपर्यन्तं फ्रान्सदेशस्य पेरिसनगरे आयोजितम् आसीत्। तस्मिन् ५५ सदस्यदेशानां प्रतिनिधयः सम्मिलिताः आसन्। तदतिरिक्तं १२ सम्बन्धितसदस्यानां पञ्च सम्पर्कसङ्घटनानां च प्रतिनिधयः अपि भागं गृहीतवन्तः।
अधिवेशनेषु स्वचालितवर्तनाङ्कमापकयन्त्राणां, भारमापकयन्त्राणां, यातायातगतिमापकयन्त्राणां च सम्बन्धिनां प्राविधिकप्रकाशनानां स्वीकृत्या सह ओआईएमएल-प्रमाणीकरणव्यवस्थायाः संरचनायाः, अङ्कीकरणस्य, अन्ताराष्ट्रियसहयोगस्य च विषये विचारविमर्शः कृतः
आसीत्।
---------------
Hindusthan Samachar / Dheeraj Maithani