Enter your Email Address to subscribe to our newsletters

काठमांडूः, 19 अक्टूबरमासः (हि.स.)।
आयुष्मानखुराणया साराअलीखानया च अभिनीतं ‘उड़ता तीर’ इति चलचित्रं नेपालदेशे प्रदर्शयितुं प्रतिबन्धितम् अस्ति। आकाशकौशिकस्य निर्देशननिर्मितम् इदं चलचित्रं शुक्रवासरात् चलचित्रगृहेषु प्रदर्शितं भवितुम् आसीत्।
सूचनातथा सञ्चारमन्त्रालयेन चलचित्रवितरणसंस्थायै नेशनलसिनेग्रुप इत्यस्यै पत्रं लिखित्वा सूचितं यत् चलचित्रस्य नेपालदेशे प्रदर्शनाय अनुमतिः न प्रदत्ता। मन्त्रालयस्य श्रव्यदृश्यप्रसारणशाखया उक्तं यत् चलचित्रे एतादृशी विषयवस्तुः प्राप्ता, या निर्माणप्रदर्शनवितरणाधिनियमस्य २०२६ तमस्य वर्षस्य अष्टमस्य अनुच्छेदस्य तृतीयोपानुच्छेदस्य अन्तर्गतं प्रतिबन्धिता अस्ति। अस्यैव प्रावधानस्य अनुसारं चलचित्रस्य सार्वजनिकप्रदर्शनाय अनुमतिः दातुं न शक्यते।
चलचित्रे परोक्षरूपेण भारतपाकिस्तानयोः मध्ये तनावस्य कथा प्रस्तुता अस्ति। अत एव केन्द्रीयचलचित्रजाँचसमित्या अस्य सार्वजनिकप्रदर्शनस्य उपरि प्रतिबन्धः आरोपितः।
नेपालस्य चलचित्रलेखकः समीक्षकश्च सामिप्यराजतिमिल्सिनः अवदत्, “एतादृशानां चलचित्राणां प्रदर्शनं निरोद्धुं प्रावधानम् अस्ति, येन अन्यदेशस्य छविः क्षतिग्रस्ता भवितुम् अर्हति, यतः उभौ देशौ अस्माकं मित्रराष्ट्रे स्तः।”
तेन सूचितं यत् कस्यापि देशस्य राष्ट्रियतायाः तत्रत्यसमुदायस्य वा उपरि प्रत्यक्षप्रभावं जनयितुं शक्नुवतां चलचित्राणां प्रदर्शनं निरोद्धुं प्रावधानं विद्यमानम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani