चलदूरभाषेण कृषकाणां समीपं गमिष्यति सर्वकारः, शिवराजेन कृषकेभ्यः समर्पितं नूतनं पटलम्
नवदिल्ली, १९ अक्टोबरमासः (हि.स.)। केन्द्रीयकृषि-कृषककल्याण-ग्रामीणविकासमन्त्री शिवराजसिंहचौहानः सोमवासरे संशोधितस्य ‘एग्री वेलफेयर पोर्टल’ इत्यस्य शुभारम्भम् अकरोत्। अस्य पटलस्य उद्देश्यं कृषकेभ्यः सर्वकारीय-योजनानां, आर्थिकसहायतायाः कृषिकार्य-सम्ब
केंद्रीय कृषि मंत्री शिवराज सिंह  संबोधित करते हुए


नवदिल्ली, १९ अक्टोबरमासः (हि.स.)। केन्द्रीयकृषि-कृषककल्याण-ग्रामीणविकासमन्त्री शिवराजसिंहचौहानः सोमवासरे संशोधितस्य ‘एग्री वेलफेयर पोर्टल’ इत्यस्य शुभारम्भम् अकरोत्। अस्य पटलस्य उद्देश्यं कृषकेभ्यः सर्वकारीय-योजनानां, आर्थिकसहायतायाः कृषिकार्य-सम्बद्धानां च प्रामाणिक-सूचनानां प्रत्यक्षं चलदूरभाषे उपलब्धी-करणम् अस्ति। अनेन कृषकाः विभिन्नयोजनानां सूचनाप्राप्तये आवेदनार्थं च पृथक्-पृथक् कार्यालयानां जालपुटानां च परिभ्रमणात् मुक्ताः भविष्यन्ति।

शुभारम्भकार्यक्रमे सम्बोधनं कुर्वन् चौहानः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः स्पष्टं दृष्टिकोणम् अस्ति—सर्वकारः सर्वदा सामान्यनागरिकाणां कृषकाणां च कृते चलदूरभाषे उपलब्धः भवेत्। प्रौद्योगिक्याः सार्थकता तदैव भवति, यदा तस्याः लाभः प्रत्यक्षं कृषिक्षेत्राणि प्राप्नोति तथा कृषकाणां जीवनं सुकरं भवति। सः अवदत् यत् एतत् पटलम् केवलंत कृषकाणां कृते सीमितं न भविष्यति, अपितु कृषक-उत्पादक-सङ्घटनानि, प्राथमिक-कृषि-ऋण-समितयः , कृषिवैज्ञानिकाः, अनुसन्धान-कर्तारः, नवोद्यमाः च एकस्मिन् मञ्चे संयोजयिष्यति।

चौहानः अधिकारिभ्यः अवदत् यत् पटलस्य सफलता सम्यक् समयबद्धसूचनाभिः सुनिश्चितं भविष्यति। पुरातनाः अपूर्णाश्च सूचनाः व्यवस्थायां जनानां विश्वासं न्यूनीकुर्वन्ति। अतः पोर्टले प्रदत्ताः सर्वाः सूचनाः निरन्तरं अद्यतनीकर्तव्याः। तेन सह भाषां प्रक्रियां च एतावती सरलां कर्तव्याम्, येन अल्पशिक्षिताः लघुसीमान्तकृषकाः अपि पोर्टलस्य विषयान् सहजतया अवगन्तुं तस्य उपयोगं च कर्तुं शक्नुयुः। कृषकान् अस्य पोर्टलस्य अङ्कीयोप-करणानां च उपयोगे निपुणान् कर्तुं देशस्य सर्वेषु कृषिविज्ञानकेन्द्रेषु विशेषं प्रशिक्षणाभियानम् अपि सञ्चालयिष्यते।

केन्द्रीयमन्त्री शिवराजः अस्याः महत्त्वपूर्णायाः योजनायाः समये एव सज्जीकरणाय सम्पूर्णस्य प्राविधिकदलस्य प्रशंसाम् अकरोत्। एतत् नूतनं पटलम् इलेक्ट्रॉनिकी-सूचनाप्रौद्योगिकी-मन्त्रालयस्य डीबीआईएम ३.० तथा जीआईजीडब्ल्यू ३.० मानकानाम् अनुरूपं निर्मितम् अस्ति। एतत् अत्यन्तं सुरक्षितम्, चलदूरभाषानुकूलं दिव्याङ्गजनानां च उपयोगाय पूर्णतया सुलभम् अस्ति। अयं मञ्चः पीएम-किसान, एग्रीस्टैक तथा पीएम-फसलबीमायोजना इत्यादीनां प्रमुखयोजनानां कृते सामान्यप्रवेशद्वारस्य कार्यं करिष्यति।

अस्मिन् अवसरे केन्द्रीयकृषि-कृषक-कल्याणसचिवः अतीशचन्द्रः, अपरसचिवः प्रमोदमेहरडा च तथा अङ्कीय-कृषिप्रभागस्य, मन्त्रालयस्य, एनआईसी-संस्थायाः च वरिष्ठाधिकारिणः उपस्थिताः आसन्।

अस्मिन् पटले कृषकाः सर्वाः आवश्यकसूचनाः एकस्मिन्नेव स्थाने प्राप्स्यन्ति। मन्त्रालयस्य सर्वाः योजनाः, अनुदानानि, नियमान् अङ्कीयसेवाश्च एकस्मिन्नेव पटले उपलब्धाः भविष्यन्ति। अनेन समयस्य परिश्रमस्य च पर्याप्ता बचतिः भविष्यति। अङ्कीयमाध्यमेन पात्रतायाः परीक्षणम्, प्रत्यक्षम् आवेदनं, कृषकाणां धनागारेषु च सहायताराशेः प्रेषणम् इत्यादिभिः प्रक्रियायां पारदर्शिता वर्धिष्यते तथा मध्यस्थजनानां भूमिका समाप्ता भविष्यति। ग्रामीणक्षेत्राणाम् आवश्यकताः ध्यात्वा पपटलम् अत्यन्तं लघुं सरलोपयोगि च निर्मितम् अस्ति। अतः सामान्यस्मार्टफोन-माध्यमेन अल्पजालसम्पर्केऽपि तस्य उपयोगः सुकरतया कर्तुं शक्यते।

एतदतिरिक्तं कृषकाः समये एव प्रामाणिकां ऋतुसूचनामपि प्राप्स्यन्ति। ऋतो: स्थितिः, आधुनिकवैज्ञानिककृषिपद्धतयः, बीजानां उर्वरकाणां च उपलब्धता, विपणिसमितिषु वस्तूनां मूल्यानि च सम्बन्धिनी प्रमाणित-सूचनाः प्रत्यक्षं कृषकान् प्राप्स्यन्ति। दिव्याङ्गजनानाम् उपयोगाय अपि पोर्टलम् अनुकूलं भविष्यति। आधुनिक-सर्वकारीयमानकानाम् अनुसारेण निर्मिते अस्मिन् पटले दृष्टिबाधिताः अन्ये दिव्याङ्गजनाश्च पट्टिकापाठकस्य सरलसञ्चालन-व्यवस्थायाश्च साहाय्येन लाभं प्राप्तुं शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan