उत्तरप्रदेशे महोत्साहेन आचरितं महानवमीपर्व, गोरखनाथमन्दिरात् विन्ध्यधामतः पाटेश्वरीधामपर्यन्तं कन्यापूजनं कन्याभोजश्च सम्पन्नः
लखनऊ, १९ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशे अद्य महानवमीपर्वणः पावनावसरे भक्तेः उत्साहस्य च वातावरणम् आसीत्। गोरखपुरस्य प्रसिद्धात् गोरखनाथमन्दिरात् आरभ्य प्रमुखशक्तिपीठेषु मिर्जापुरस्य विन्ध्याचले, बलरामपुरस्य देवीपाटने, वाराणस्याम्, प्रयागराजे, चि
कन्या पूजन


लखनऊ, १९ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशे अद्य महानवमीपर्वणः पावनावसरे भक्तेः उत्साहस्य च वातावरणम् आसीत्। गोरखपुरस्य प्रसिद्धात् गोरखनाथमन्दिरात् आरभ्य प्रमुखशक्तिपीठेषु मिर्जापुरस्य विन्ध्याचले, बलरामपुरस्य देवीपाटने, वाराणस्याम्, प्रयागराजे, चित्रकूटधाम्नि च सर्वेषु धार्मिकस्थलेषु महानवम्याः अवसरे विधिविधानपूर्वकं कन्यापूजनं कन्याभोजश्च आयोजितः। अस्मिन् पावनावसरे श्रद्धालवः स्वगृहेषु मन्दिरेषु च दुर्गायाः नवरूपाणां प्रतीकरूपेण नवकन्यानां बटुकभैरवस्य च पूजनम् अकुर्वन्। ते कन्यानां चरणान् प्रक्षाल्य पूरिकाः, लप्सिकाम्, चणकादिकं च समर्प्य तासां आशीर्वादं प्राप्तवन्तः।

महानवम्याः अवसरे गोरखपुरस्य प्रसिद्धे गोरखनाथमन्दिरे गोरक्षपीठस्य पारम्परिकरीतिनीतिभिः भव्यतया च पर्व आचरितम्। पीठाधीश्वरस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे मन्दिरे अनेकानि महत्त्वपूर्णानि धार्मिकानु-ष्ठानानि सम्पन्नानि। मुख्यमन्त्री योगी आदित्यनाथः स्वयं दुर्गायाः नवरूपाणां प्रतीकरूपेण उपस्थितानां नवकुमारी-कन्यानां चरणान् सादरं प्रक्षालितवान्। ततः सर्वासां कन्यानां ललाटेषु रोली-चन्दन-दधि-अक्षतैः तिलकं कृतवान्, पुष्पमालाः धारितवान्, चुनरीवस्त्राणि च आच्छाद्य विधिविधानपूर्वकम् आरार्तिकीम् अकरोत्। अस्मिन् अवसरे गोरक्षपीठस्य परम्परानुसारं कन्यानां सह बटुकभैरवस्य, अर्थात् बालकानाम्, अपि पूजनम् अभवत्।

पूजनानन्तरं पीठाधीश्वरः मुख्यमन्त्री योगी आदित्यनाथः सर्वाभ्यः कन्याभ्यः बटुकभैरवेभ्यश्च स्वहस्तेन पूरिकाः, हलवां, शाकं फलानि च प्रसादरूपेण भोजने समर्पितवान्। भोजनानन्तरं मुख्यमन्त्री सर्वासां कन्यानां चरणस्पर्शं कृत्वा आशीर्वादं प्राप्तवान्। सः ताभ्यः दक्षिणां विशेषोपहारांश्च प्रदत्तवान्।

मातुः पाटेश्वरीधाम्नि पारम्परिकवैदिक-रीत्या कन्यापूजनम्

बलरामपुरे स्थिते प्रसिद्धे शक्तिपीठे देवीपाटनमन्दिरे महानवमीपर्व अत्यन्तया श्रद्धया, हर्षोल्लासेन पारम्परिक-वैदिकरीत्या च सम्पन्नम्। महानवम्याः प्रातःकाले मुख्यानुष्ठानस्य अन्तर्गतं बालिकाः साक्षात् भगवत्याः स्वरूपं मत्वा सादरम् आमन्त्रिताः। पुरोहितैः श्रद्धालुभिश्च प्रथमं तासां चरणाः प्रक्षालिताः, ततः ललाटेषु रोली-अक्षतैः तिलकं कृतम्। पाटेश्वरीधाम्नि दुर्गायाः नवरूपाणां प्रतीकरूपेण उपस्थिताभ्यः सर्वाभ्यः कन्याभ्यः चुनरीवस्त्राणि आच्छादितानि। वैदिकमन्त्राणां घोषमध्ये तासाम् आरात्रिकं कृतम्। पूजायाः अर्चनायाश्च अनन्तरं कन्याः सादरम् उपवेश्य मन्दिरस्य पारम्परिकं महाप्रसादं—लप्सिकान, पूरिकाः, चणकांश्च—भोजिताः।

विन्ध्यधाम्नि भक्तैः सादरं प्रक्षालिताः कन्यानां चरणाः

सुप्रसिद्धे शक्तिपीठे मातुः विन्ध्यवासिन्याः धाम्नि महानवमीपर्व श्रद्धया, भक्त्या अभूतपूर्वेण उत्साहेन च आचरितम्। सम्पूर्णे क्षेत्रे प्रातःकालादेव जयघोषाः श्रूयमाणाः आसन् तथा बहुसंख्याकाः श्रद्धालवः समागताः। अस्मिन् अवसरे विन्ध्यधाम्नः पुरोहितैः, पण्डासमाजेन श्रद्धालुभिश्च बालिकाः साक्षात् मातुः विन्ध्यवासिन्याः स्वरूपं मत्वा आसनेषु उपवेशिताः। भक्तैः प्रथमं तासां चरणाः प्रक्षालिताः, ततः ललाटेषु कुम्कुम-अक्षत-चन्दनैः तिलकं कृतम्। दुर्गायाः नवरूपाणां प्रतीकरूपेण उपस्थिताभ्यः सर्वाभ्यः कन्याभ्यः चुनरीवस्त्राणि आच्छादितानि। ढोल-मञ्जीरवाद्यैः सह तासाम् महती आरार्तिकी कृता। ततः प्रसादस्य वितरणमपि अभवत्।

एवमेव रामनगरी अयोध्यायाम्, वाराणस्याम्, सङ्गमनगरी प्रयागराजे, चित्रकूटधाम्नि, नैमिषारण्यधाम्नि तथा अन्येषु विविधेषु देवीमन्दिरेषु श्रद्धालवः वैदिकमन्त्राणां घोषमध्ये भगवत्याः दुर्गायाः आराधनाम् अकुर्वन्। श्रद्धालवः भगवत्याः चरणयोः प्रणम्य परिवारस्य सुखसमृद्ध्यै, सुखशान्त्यै कल्याणाय च प्रार्थनाम् अकुर्वन्। नवरात्रस्य नवदिनानि यावत् प्रचलितानां पूजापाठानाम् अनुष्ठानानां च समापनानन्तरमपि मन्दिरेषु श्रद्धालूनाम् आगमनं निरन्तरम् आसीत्। अनेकेषु स्थानेषु हवनानन्तरम् आरात्रिकं प्रसादवितरणं च अभवत्। गृहेष्वपि विधिविधानपूर्वकं हवनपूजनं कृत्वा कन्यापूजनं कन्याभोजश्च आयोजितः। कन्याभ्यः उपहाराः अपि प्रदत्ताः। अधुना सर्वत्र विजयादशमीपर्वणः आयोजनाय सज्जताः प्रचलन्ति।

Hindusthan Samachar / Divya Ranjan