कन्यानां सम्मानः, सुरक्षा सशक्तीकरणं च दुर्गापूजनस्य सारः - नन्दी
मन्त्रिणा नन्दिना पूर्वमहापौरया अभिलाषा गुप्ता नन्दिना च सपरिवारं कृतं कन्यापूजनम्, कन्यानां चरणान् प्रक्षाल्य प्राप्तम् आशीर्वादम् प्रयागराजः, १९ अक्टोबरमासः (हि.स.)। कन्यानां सम्मानः, तासां सुरक्षा, शिक्षा तथा अग्रे गन्तुं समानावसरप्रदानं च अस्म
कन्या पूजन करते मंत्री नंदी का छाया चित्र


बहादुरगंज स्थित आवास पर हवन-करते हुए मंत्री नंदी एवं पूर्व महापौर अभिलाषा गुप्ता का छाया चित्र


कन्या पूजन करते मंत्री नंदी का छाया चित्र


मन्त्रिणा नन्दिना पूर्वमहापौरया अभिलाषा गुप्ता नन्दिना च सपरिवारं कृतं कन्यापूजनम्, कन्यानां चरणान् प्रक्षाल्य प्राप्तम् आशीर्वादम्

प्रयागराजः, १९ अक्टोबरमासः (हि.स.)। कन्यानां सम्मानः, तासां सुरक्षा, शिक्षा तथा अग्रे गन्तुं समानावसरप्रदानं च अस्माकं सर्वेषां दायित्वम् अस्ति। भगवत्याः दुर्गायाः आराधना तदैव सार्थका भविष्यति, यदा वयं स्वजीवने नारीशक्तेः सम्मानस्य सशक्ती-करणस्य च सङ्कल्पम् आत्मसात्कुर्मः। एतद् उत्तरप्रदेशसर्वकारस्य औद्योगिक-विकासमन्त्री नन्दगोपाल-गुप्तनन्दी सोमवासरे शारदीयनवरात्रस्य महानवम्यां बहादुरगञ्जस्थिते स्वनिवासे कन्यापूजनावसरे अवदत्।

मन्त्री नन्दी पूर्वमहापौरया अभिलाषा गुप्ता नन्दिना च सपरिवारं विधिविधानपूर्वकं भगवत्याः आदिशक्तेः पूजाम् अर्चनां च कृतवन्तौ। नवदिनात्मकस्य अखण्डव्रतस्य सङ्कल्पं पूर्णं कुर्वन्तौ तौ हवनपूजनम् अकुरुताम्, कन्याः पूजयित्वा तासाम् आशीर्वादं च प्राप्तवन्तौ। अस्मिन्नवसरे मन्त्रिणा पूर्वमहापौरया च कन्यानां चरणाः प्रक्षालिताः, तासां ललाटे तिलकं कृत्वा चुनरीवस्त्रेण सम्मानिताः। ततः स्वहस्ताभ्यां भोजनं परिवेश्य ताभ्यः प्रसादं भोजितवन्तौ। कन्याभ्यः उपहाराः दक्षिणा च प्रदत्ताः।

मन्त्री नन्दी अवदत् यत् कन्याः सुखस्य, समृद्धेः प्रगतेश्च आधारभूताः सन्ति। कन्यापूजनम् भारतीयसंस्कृतेः तस्याः महान् परम्परायाः प्रतीकम् अस्ति, यस्यां नारी शक्तेः, सृजनस्य सम्मानस्य च स्वरूपा मन्यते। एतत् केवलं धार्मिकम् अनुष्ठानं न, अपितु कन्यासु श्रद्धां सम्मानं च प्रकटयितुं तासां महत्त्वं स्वीकरोति इति सन्देशं प्रदातुम् अपि माध्यमम् अस्ति।

सः अवदत् यत् शारदीयनवरात्रम् भगवत्याः आदिशक्तेः आराधनायाः पवित्रं पर्व अस्ति। नवरात्रस्य नव दिनानि जगज्जनन्यै भगवत्यै दुर्गायै समर्पितानि भवन्ति। भारतीयसंस्कृतौ कुमारिकाः साक्षाद्देव्याः स्वरूपाः मत्वा पूज्यन्ते।

मन्त्री अवदत् यत् अद्य कन्याः शिक्षायां, विज्ञाने, क्रीडासु, उद्यमितायाम्, प्रशासने, सामाजिकजीवने च सर्वेषु क्षेत्रेषु स्वप्रतिभया सामर्थ्येन च नूतनानि कीर्तिमानानि स्थापयन्ति। कन्यानां सम्मानस्य रक्षणेन सह तासां शिक्षायै, सुरक्षायै, उन्नत्यै च अनुकूलं वातावरणं निर्मातुं आवश्यकम् अस्ति। सः भगवत्याः दुर्गायाः सर्वेषां जीवने सुखं शान्तिं समृद्धिं च अक्षुण्णां स्थापयितुं प्रार्थनाम् अकरोत्।

Hindusthan Samachar / Divya Ranjan