गान्धीजयन्त्यां कटिहारे शहीदचौक इत्यत्र जनपदाधिकारी-आरक्षकाधीक्षकाभ्यां बापूवर्याय श्रद्धाञ्जलिः, सत्य-स्वच्छतयोः सङ्कल्पः
कटिहारम्, २ अक्टोबरमासः (हि.स.)। गान्धीजयन्त्याः अवसरे शुक्रवासरे कटिहारस्य शहीदचौक इत्यत्र राष्ट्रपितुः महात्मगान्धिनः प्रतिमायै जनपदाधिकारी आशुतोषद्विवेदी, आरक्षकाधीक्षकः परिचय-कुमारः इत्येतै: सह जनपदस्य वरिष्ठैः प्रशासनिकाधिकारिभिः माल्यार्पणं क
गांधी जयंती


कटिहारम्, २ अक्टोबरमासः (हि.स.)। गान्धीजयन्त्याः अवसरे शुक्रवासरे कटिहारस्य शहीदचौक इत्यत्र राष्ट्रपितुः महात्मगान्धिनः प्रतिमायै जनपदाधिकारी आशुतोषद्विवेदी, आरक्षकाधीक्षकः परिचय-कुमारः इत्येतै: सह जनपदस्य वरिष्ठैः प्रशासनिकाधिकारिभिः माल्यार्पणं कृत्वा भावपूर्णा श्रद्धाञ्जलिः अर्पिता। अस्मिन् अवसरे उपस्थितैः अधिकारिभिः नागरिकैश्च बापूवर्यस्य सत्यस्य, अहिंसायाः स्वच्छतायाश्च सन्देशान् दैनिकजीवने आचरितुं सामूहिकः सङ्कल्पः कृतः।

श्रद्धाञ्जलिम् अर्पयित्वा जनपदाधिकारी आशुतोषद्विवेदी अवदत् यत् राष्ट्रपितुः महात्मगान्धिनः सत्यस्य, अहिंसायाः सत्याग्रहस्य च विचाराः अद्यापि तावत् एव प्रासङ्गिकाः सन्ति, यावत् ते स्वातन्त्र्य-आन्दोलनस्य समये आसन्। सः विशेषरूपेण अवदत् यत् गान्धि स्वविचारेषु कर्मसु च स्वच्छतायै सदैव सर्वोच्चं प्राधान्यं दत्तवान्। जनपदाधिकारिणा आह्वानं कृतं यत् बापूवर्यस्य आदर्शाः केवलम् एकदिनस्य स्मरणं न भूत्वा प्रत्येकं नागरिकेन कर्मचारिणा च स्वव्यवहारे दैनिकचर्यायां च समावेशनीयाः।

कार्यक्रमस्य समये आरक्षकिधीक्षकः परिचयकुमारः अपि बापूवर्यस्य प्रतिमायै पुष्पाणि समर्प्य नमनं कृतवान् तथा च तेन प्रदर्शिते मार्गे निष्पक्षतया सेवाभावेन च कार्यं कर्तुं सङ्कल्पं प्रकटितवान्।

अस्मिन् अवसरे उपविकासायुक्ता डॉ. नेहा, नगरायुक्तः, सदर-अनुमण्डलपदाधिकारी, अपरसमाहर्ता, जनपद-जनसम्पर्क-पदाधिकारी, जनपद-कृषिपदाधिकारी तथा उपनिदेशकः इत्यादयः जनपदस्य अन्ये विभागीयाधिकारिणः स्थानीयनागरिकाश्च बहुसङ्ख्यया उपस्थिताः आसन्।

कार्यक्रमस्य अन्ते सर्वैः उपस्थितैः अधिकारिभिः कर्मचारिभिश्च बापूवर्यस्य सिद्धान्तान्—सत्यं, अहिंसा, सत्याग्रहः, स्वच्छता जनसेवा च—स्वकार्यशैल्यां व्यक्तिगताचरणे च पूर्णनिष्ठया समा-वेशयितुं सङ्कल्पः पुनरावर्तितः।

Hindusthan Samachar / Divya Ranjan