Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 02 अक्टूबरमासः (हि.स.)।
वॉशिङ्गटन। केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलेन अमेरिकादेशस्य मिल्वॉकीनगरे आयोजिते जी२० व्यापारमन्त्रिणां सम्मेलने बलात्श्रमस्य उन्मूलनाय भारतस्य संकल्पः पुनरुच्चारितः तथा प्रमाणाधारितव्यापारोपायानां समर्थनं कृतम्। गोयलेन संरचनात्मकस्य अतिरिक्तोत्पादनक्षमतायाः उत्पादनस्य च, सर्वाधिकप्रियदेशसिद्धान्तस्य अद्यतनीकरणस्य, वैश्विकापूर्तिशृङ्खलासु बलात्श्रमस्य उन्मूलनस्य तथा समापनसत्रस्य विषये स्वकीयाः विचाराः व्यक्तीकृताः।
गोयलेन विस्कॉन्सिनराज्यस्य मिल्वॉकीनगरे आयोजितस्य जी२० व्यापारमन्त्रिणां सम्मेलने समापनदिने सहभागिता कृता। सः दृढतया उक्तवान् यत् भारतस्य येषु क्षेत्रेषु चिन्ता व्यक्ता अस्ति, तत्र विनिर्माणक्षमता आन्तरिकस्तरे एकशतचत्वारिंशत्कोटिजनानां विशालां मागं तथा वैश्विकविपणीनां वास्तविकाः आवश्यकताः पूरयितुं विद्यमाना अस्ति। सः अवदत् यत् जी२० अध्यक्षतया चिह्नितेषु क्षेत्रेषु भारतस्य संरचनात्मकरूपेण आवश्यकतायाः अधिकं विनिर्माणक्षमता नास्ति।
गोयलेन दृढतया प्रतिपादितं यत् देशस्य विनिर्माणक्षमता आन्तरिकानां वैश्विकानां च उभयविधाः आवश्यकताः पूरयति। सः अग्रे उक्तवान् यत् केषाञ्चन सदस्यदेशानाम् एतया चिन्तया भारतम् अपि सहमतम् अस्ति यत् कतिपयासु अर्थव्यवस्थासु व्यापारविकृतिकारकं समर्थनं वस्तूनां अवपातनं तथा अनुचितमूल्यनिर्धारणं जनयितुं शक्नोति। स्वीयसम्बोधने सः उक्तवान् यत् एतादृशानां चिन्तानां समाधानं विश्वव्यापारसङ्गठनस्य अनुरूपैः उपायैः क्रियते, येषु प्रमाणाधारिताः तथा न्यायिकसमीक्षाधीनाः प्रतिअवपातनशुल्काः प्रतिकारकशुल्कानि च अन्तर्भवन्ति।
केन्द्रीयवाणिज्यमन्त्रिणा वर्षे २०२७ जी२० अध्यक्षतायै यूनाइटेडकिङ्गडमदेशाय भारतस्य पूर्णसमर्थनं प्रदत्तम्। अस्यां बैठकायां गोयलेन ऑस्ट्रेलियादेशस्य व्यापारपर्यटनमन्त्रिणा, सऊदीअरबदेशस्य वाणिज्यमन्त्रिणा, फ्रान्सदेशस्य विदेशव्यापारस्य आर्थिकाकर्षणस्य च प्रतिनिधिमन्त्रिणा, कोरियागणराज्यस्य व्यापारमन्त्रिणा तथा कनाडादेशस्य अन्ता राष्ट्रियव्यापारमन्त्रिणा सह द्विपक्षीयगोष्ठ्यः कृताः।
---------------
Hindusthan Samachar / Dheeraj Maithani